०५४

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

श्रावणस्य सिते पक्षे किन्नामैकादशीभवेत्
तन्नः कथय गोविन्द वासुदेव नमोऽस्तु ते ॥ १ ॥

मूलम्

श्रावणस्य सिते पक्षे किन्नामैकादशीभवेत्
तन्नः कथय गोविन्द वासुदेव नमोऽस्तु ते ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
शृणु राजन्प्रवक्ष्यामि आख्यानं पापनाशनम्
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छते नारदाय वै ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
शृणु राजन्प्रवक्ष्यामि आख्यानं पापनाशनम्
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छते नारदाय वै ॥ २ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
भगवन्श्रोतुमिच्छामि त्वत्तोऽहं कमलासन
श्रावणस्यासिते पक्षे किं नामैकादशी भवेत् ॥ ३ ॥

मूलम्

नारद उवाच-
भगवन्श्रोतुमिच्छामि त्वत्तोऽहं कमलासन
श्रावणस्यासिते पक्षे किं नामैकादशी भवेत् ॥ ३ ॥

विश्वास-प्रस्तुतिः

को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो
इति तस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ॥ ४ ॥

मूलम्

को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो
इति तस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ॥ ४ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
शृणु नारद ते वच्मि लोकानां हितकाम्यया
श्रावणैकादशी कृष्णा कामिका नाम नामतः ॥ ५ ॥

मूलम्

ब्रह्मोवाच-
शृणु नारद ते वच्मि लोकानां हितकाम्यया
श्रावणैकादशी कृष्णा कामिका नाम नामतः ॥ ५ ॥

विश्वास-प्रस्तुतिः

अस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
अस्यां यजति देवेशं शङ्खचक्रगदाधरम् ॥ ६ ॥

मूलम्

अस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
अस्यां यजति देवेशं शङ्खचक्रगदाधरम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम्
पूजयेद्ध्यायते यो वै तस्य पुण्यम्फलं शृणु ॥ ७ ॥

मूलम्

श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम्
पूजयेद्ध्यायते यो वै तस्य पुण्यम्फलं शृणु ॥ ७ ॥

विश्वास-प्रस्तुतिः

न गङ्गायां न काश्यां च नैमिषे न च पुष्करे
तत्फलं समवाप्नोति यत्फलं कृष्णपूजनात् ॥ ८ ॥

मूलम्

न गङ्गायां न काश्यां च नैमिषे न च पुष्करे
तत्फलं समवाप्नोति यत्फलं कृष्णपूजनात् ॥ ८ ॥

विश्वास-प्रस्तुतिः

गोदावर्यां गुरौ सिंहे व्यतीपाते च दण्डके
यत्फलं समवाप्नोति तत्फलं कृष्णपूजनात् ॥ ९ ॥

मूलम्

गोदावर्यां गुरौ सिंहे व्यतीपाते च दण्डके
यत्फलं समवाप्नोति तत्फलं कृष्णपूजनात् ॥ ९ ॥

विश्वास-प्रस्तुतिः

ससागरवनोपेतां यो ददाति वसुन्धराम्
कामिकाव्रतकारी च ह्युभौ समफलौ स्मृतौ ॥ १० ॥

मूलम्

ससागरवनोपेतां यो ददाति वसुन्धराम्
कामिकाव्रतकारी च ह्युभौ समफलौ स्मृतौ ॥ १० ॥

विश्वास-प्रस्तुतिः

प्रसूयमानां यो धेनुं दद्यात्सोपस्करां नरः
तत्फलं समवाप्नोति कामिकाव्रतकारकः ॥ ११ ॥

मूलम्

प्रसूयमानां यो धेनुं दद्यात्सोपस्करां नरः
तत्फलं समवाप्नोति कामिकाव्रतकारकः ॥ ११ ॥

विश्वास-प्रस्तुतिः

श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः
तेनैव पूजिता देवा गन्धर्वोरगपन्नगाः ॥ १२ ॥

मूलम्

श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः
तेनैव पूजिता देवा गन्धर्वोरगपन्नगाः ॥ १२ ॥

विश्वास-प्रस्तुतिः

तस्मात्सर्वप्रयत्नेन कामिकादिवसे हरिः
पूजनीयो यथाशक्ति मानुषैः पापभीरुभिः ॥ १३ ॥

मूलम्

तस्मात्सर्वप्रयत्नेन कामिकादिवसे हरिः
पूजनीयो यथाशक्ति मानुषैः पापभीरुभिः ॥ १३ ॥

विश्वास-प्रस्तुतिः

ये संसारार्णवे मग्नाः पापपङ्कसमाकुले
तेषामुद्धरणार्थाय कामिकाव्रतमुत्तमम् ॥ १४ ॥

मूलम्

ये संसारार्णवे मग्नाः पापपङ्कसमाकुले
तेषामुद्धरणार्थाय कामिकाव्रतमुत्तमम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

नातः परतरा काचित्पवित्रा पापहारिणी
एवं नारद जानीहि स्वयमाह परो हरिः ॥ १५ ॥

मूलम्

नातः परतरा काचित्पवित्रा पापहारिणी
एवं नारद जानीहि स्वयमाह परो हरिः ॥ १५ ॥

विश्वास-प्रस्तुतिः

अध्यात्मविद्या निरतैर्यत्फलं प्राप्यते नरैः
ततो बहुतरं विद्धि कामिकाव्रतसेविनाम् ॥ १६ ॥

मूलम्

अध्यात्मविद्या निरतैर्यत्फलं प्राप्यते नरैः
ततो बहुतरं विद्धि कामिकाव्रतसेविनाम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

रात्रौ जागरणं कृत्वा कामिकाव्रतकृन्नरः
न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिम् ॥ १७ ॥

मूलम्

रात्रौ जागरणं कृत्वा कामिकाव्रतकृन्नरः
न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

न पश्यति कुयोनिं च कामिकाव्रतसेवनात्
कामिकाया व्रते चीर्णे कैवल्यं योगिनो गताः ॥ १८ ॥

मूलम्

न पश्यति कुयोनिं च कामिकाव्रतसेवनात्
कामिकाया व्रते चीर्णे कैवल्यं योगिनो गताः ॥ १८ ॥

विश्वास-प्रस्तुतिः

तस्मात्सर्वप्रयत्नेन कर्तव्या नियतात्मभिः
तुलसीप्रभवैः पत्रैः यो नरः पूजयेद्धरिम् ॥ १९ ॥

मूलम्

तस्मात्सर्वप्रयत्नेन कर्तव्या नियतात्मभिः
तुलसीप्रभवैः पत्रैः यो नरः पूजयेद्धरिम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

न लिप्यते स पापेन पद्मपत्रमिवाम्भसा
सुवर्णभारमेकं तु रजतं च चतुर्गुणम् ॥ २० ॥

मूलम्

न लिप्यते स पापेन पद्मपत्रमिवाम्भसा
सुवर्णभारमेकं तु रजतं च चतुर्गुणम् ॥ २० ॥

विश्वास-प्रस्तुतिः

तत्फलं समवाप्नोति तुलसीदलपूजनात्
रत्न मौक्तिक वैडूर्य प्रवालादिभिरर्चितः ॥ २१ ॥

मूलम्

तत्फलं समवाप्नोति तुलसीदलपूजनात्
रत्न मौक्तिक वैडूर्य प्रवालादिभिरर्चितः ॥ २१ ॥

विश्वास-प्रस्तुतिः

न तुष्यति तथा विष्णुस्तुलसीदलतो यथा
तुलसीमञ्जरीभिश्च पूजितो येन केशवः ॥ २२ ॥

मूलम्

न तुष्यति तथा विष्णुस्तुलसीदलतो यथा
तुलसीमञ्जरीभिश्च पूजितो येन केशवः ॥ २२ ॥

विश्वास-प्रस्तुतिः

या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुः पावनी
रोगाणामभिवन्दितानि रसिनी सिक्तान्तकत्रासिनी
प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ २३ ॥

दीपं ददाति यो मर्त्यो दिवारात्रं हरेर्दिने
तस्य पुण्यस्य सङ्ख्यातुं चित्रगुप्तो न वेत्त्यलम् ॥ २४ ॥

मूलम्

दीपं ददाति यो मर्त्यो दिवारात्रं हरेर्दिने
तस्य पुण्यस्य सङ्ख्यातुं चित्रगुप्तो न वेत्त्यलम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीदिने
पितरस्तस्य तृप्यन्ति अमृतेन दिवि स्थिताः ॥ २५ ॥

मूलम्

कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीदिने
पितरस्तस्य तृप्यन्ति अमृतेन दिवि स्थिताः ॥ २५ ॥

विश्वास-प्रस्तुतिः

घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः
प्रयाति सूर्यलोकं च दीपकोटिशतार्चितः ॥ २६ ॥

मूलम्

घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः
प्रयाति सूर्यलोकं च दीपकोटिशतार्चितः ॥ २६ ॥

विश्वास-प्रस्तुतिः

अयं तवाग्रे कथितः कामिकामहिमा मया
अतो नरैः प्रकर्त्तव्या सर्वपातकहारिणी ॥ २७ ॥

मूलम्

अयं तवाग्रे कथितः कामिकामहिमा मया
अतो नरैः प्रकर्त्तव्या सर्वपातकहारिणी ॥ २७ ॥

विश्वास-प्रस्तुतिः

ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी
वैष्णवस्थानदात्री च महापुण्यफलप्रदा ॥ २८ ॥

मूलम्

ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी
वैष्णवस्थानदात्री च महापुण्यफलप्रदा ॥ २८ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः
विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते ॥ २९ ॥

मूलम्

श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः
विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते ॥ २९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे श्रावणकृष्णैकादशीनाम चतुष्पञ्चाशत्तमोऽध्यायः ५४