०५३

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

आषाढस्य सिते पक्षे का च एकादशी भवेत्
किं नाम को विधिस्तस्या एतद्विस्तरतो वद ॥ १ ॥

मूलम्

आषाढस्य सिते पक्षे का च एकादशी भवेत्
किं नाम को विधिस्तस्या एतद्विस्तरतो वद ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम्
शयनीं नामनामेति सर्वपापहरां पराम् ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम्
शयनीं नामनामेति सर्वपापहरां पराम् ॥ २ ॥

विश्वास-प्रस्तुतिः

यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
सत्यं सत्यं मया प्रोक्तं नातः परतरं नृणाम् ॥ ३ ॥

मूलम्

यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
सत्यं सत्यं मया प्रोक्तं नातः परतरं नृणाम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

पापिनां पापनाशाय सृष्टा धात्रा महोत्तमा
अतः परा न राजेन्द्र वर्त्तते मोक्षदायिनी ॥ ४ ॥

मूलम्

पापिनां पापनाशाय सृष्टा धात्रा महोत्तमा
अतः परा न राजेन्द्र वर्त्तते मोक्षदायिनी ॥ ४ ॥

विश्वास-प्रस्तुतिः

एतस्मात्कारणाद्राजन्श्रूयतां गतिरुत्तमा
भवेन्नराणां श्रोतॄणां कथायाः श्रवणादपि ॥ ५ ॥

मूलम्

एतस्मात्कारणाद्राजन्श्रूयतां गतिरुत्तमा
भवेन्नराणां श्रोतॄणां कथायाः श्रवणादपि ॥ ५ ॥

विश्वास-प्रस्तुतिः

ते सदा वैष्णवा राजन्मम भक्तिपरायणाः
आषाढे वामनश्चैव पूज्यते परमेश्वरः ॥ ६ ॥

मूलम्

ते सदा वैष्णवा राजन्मम भक्तिपरायणाः
आषाढे वामनश्चैव पूज्यते परमेश्वरः ॥ ६ ॥

विश्वास-प्रस्तुतिः

वामनः पूजितो येन कमलैः कमलेक्षणः
आषाढस्य सिते पक्षे कामिकाया दिने तथा ॥ ७ ॥

मूलम्

वामनः पूजितो येन कमलैः कमलेक्षणः
आषाढस्य सिते पक्षे कामिकाया दिने तथा ॥ ७ ॥

विश्वास-प्रस्तुतिः

तेनार्चितं जगत्सर्वं त्रयो देवाः सनातनाः
कृता चैकादशी येन हरिवासरमुत्तमम् ॥ ८ ॥

मूलम्

तेनार्चितं जगत्सर्वं त्रयो देवाः सनातनाः
कृता चैकादशी येन हरिवासरमुत्तमम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

युधिष्ठिर उवाच-
संशयोऽस्ति महान्मेऽत्र श्रूयतां पुरुषोत्तम
कथं सुप्तोऽसि देवेश कथं च बलिमाश्रितः ॥ ९ ॥

मूलम्

युधिष्ठिर उवाच-
संशयोऽस्ति महान्मेऽत्र श्रूयतां पुरुषोत्तम
कथं सुप्तोऽसि देवेश कथं च बलिमाश्रितः ॥ ९ ॥

विश्वास-प्रस्तुतिः

कथं च भूमौ संवेशः किं कुर्वन्ति जनाः परे
एतद्वद महाप्राज्ञ संशयोऽस्ति महान्मम ॥ १० ॥

मूलम्

कथं च भूमौ संवेशः किं कुर्वन्ति जनाः परे
एतद्वद महाप्राज्ञ संशयोऽस्ति महान्मम ॥ १० ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच -
श्रूयतां राजशार्दूल कथां पापहरां पराम्
यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥ ११ ॥

मूलम्

श्रीकृष्ण उवाच -
श्रूयतां राजशार्दूल कथां पापहरां पराम्
यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

बलिनामा पूर्वमासीद्दैत्यस्त्रेतायुगे नृप
पूजयंश्चैव मां नित्यं मद्भक्तो मत्परायणः ॥ १२ ॥

मूलम्

बलिनामा पूर्वमासीद्दैत्यस्त्रेतायुगे नृप
पूजयंश्चैव मां नित्यं मद्भक्तो मत्परायणः ॥ १२ ॥

विश्वास-प्रस्तुतिः

यज्ञैस्तु विधिवद्दैत्यो यजते मां सनातनम्
भक्त्या च परया राजन्यज्ञकृद्व्रतकृत्तथा ॥ १३ ॥

मूलम्

यज्ञैस्तु विधिवद्दैत्यो यजते मां सनातनम्
भक्त्या च परया राजन्यज्ञकृद्व्रतकृत्तथा ॥ १३ ॥

विश्वास-प्रस्तुतिः

परं विचार्य बहुधा मघोना चैव सूक्तिभिः
गुरुणा दैवतैः सार्द्धं बहुधा पूजितोऽप्यहम् ॥ १४ ॥

मूलम्

परं विचार्य बहुधा मघोना चैव सूक्तिभिः
गुरुणा दैवतैः सार्द्धं बहुधा पूजितोऽप्यहम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

ततो वामनरूपेण अवतारे च पञ्चमे
अत्युग्ररूपेण तदा सर्वब्रह्माण्डरूपिणा ॥ १५ ॥

मूलम्

ततो वामनरूपेण अवतारे च पञ्चमे
अत्युग्ररूपेण तदा सर्वब्रह्माण्डरूपिणा ॥ १५ ॥

विश्वास-प्रस्तुतिः

वाक्छलेन जिता दैत्याः सत्यमाश्रित्य संस्थितः
शुक्रस्तं वारयामास यन्नारायण इत्ययम् ॥ १६ ॥

मूलम्

वाक्छलेन जिता दैत्याः सत्यमाश्रित्य संस्थितः
शुक्रस्तं वारयामास यन्नारायण इत्ययम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

याचिता वसुधा राजन्सार्द्धत्रयपदी मया
सङ्कल्पोदकमात्रे तु करे तेनैव चार्पिते ॥ १७ ॥

मूलम्

याचिता वसुधा राजन्सार्द्धत्रयपदी मया
सङ्कल्पोदकमात्रे तु करे तेनैव चार्पिते ॥ १७ ॥

विश्वास-प्रस्तुतिः

रूपमीदृग्विधं राजंस्तदा शृणु मया कृतम्
भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी ॥ १८ ॥

मूलम्

रूपमीदृग्विधं राजंस्तदा शृणु मया कृतम्
भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी ॥ १८ ॥

विश्वास-प्रस्तुतिः

स्वर्लोके च कटिं न्यस्य महर्लोके तथोदरम्
जनलोके च हृदयं तपोलोके तु कण्ठकम् ॥ १९ ॥

मूलम्

स्वर्लोके च कटिं न्यस्य महर्लोके तथोदरम्
जनलोके च हृदयं तपोलोके तु कण्ठकम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

सत्यलोके मुखं स्थाप्य मस्तकं च तदूर्द्ध्वकम्
चन्द्रसूर्यग्रहाश्चैव नक्षत्राणि तथैव च ॥ २० ॥

मूलम्

सत्यलोके मुखं स्थाप्य मस्तकं च तदूर्द्ध्वकम्
चन्द्रसूर्यग्रहाश्चैव नक्षत्राणि तथैव च ॥ २० ॥

विश्वास-प्रस्तुतिः

देवाः सेन्द्राश्च नागाश्च यक्षगन्धर्वकिन्नराः
स्तुवन्तो वेदसम्भूतैः सूक्तैश्च विविधैस्तथा ॥ २१ ॥

मूलम्

देवाः सेन्द्राश्च नागाश्च यक्षगन्धर्वकिन्नराः
स्तुवन्तो वेदसम्भूतैः सूक्तैश्च विविधैस्तथा ॥ २१ ॥

विश्वास-प्रस्तुतिः

करे गृहीत्वा च बलिं त्रिपदैः पूरिता मही
अर्द्धं च तस्य पृष्ठे च पदं न्यस्तं मया तदा ॥ २२ ॥

मूलम्

करे गृहीत्वा च बलिं त्रिपदैः पूरिता मही
अर्द्धं च तस्य पृष्ठे च पदं न्यस्तं मया तदा ॥ २२ ॥

विश्वास-प्रस्तुतिः

गतो रसातलं राजन्दानवो मम पूजकः
क्षिप्तोऽधो दानवश्चैव किमकुर्वं ततः परम् ॥ २३ ॥

मूलम्

गतो रसातलं राजन्दानवो मम पूजकः
क्षिप्तोऽधो दानवश्चैव किमकुर्वं ततः परम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

विनयेनानतोसौ वै सुप्रसन्नो जनार्दनः
आषाढशुक्लपक्षे तु कामिका हरिवासरः ॥ २४ ॥

मूलम्

विनयेनानतोसौ वै सुप्रसन्नो जनार्दनः
आषाढशुक्लपक्षे तु कामिका हरिवासरः ॥ २४ ॥

विश्वास-प्रस्तुतिः

तस्यामेका च मूर्तिर्मे बलिमाश्रित्य तिष्ठति
द्वितीया शेषपृष्ठे वै क्षीरसागरमध्यतः ॥ २५ ॥

मूलम्

तस्यामेका च मूर्तिर्मे बलिमाश्रित्य तिष्ठति
द्वितीया शेषपृष्ठे वै क्षीरसागरमध्यतः ॥ २५ ॥

विश्वास-प्रस्तुतिः

स्वपित्येव महाराज यावदागामि कार्तिकी
तावद्भवेत्सुधर्मात्मा सर्वधर्मोत्तमोत्तमः ॥ २६ ॥

मूलम्

स्वपित्येव महाराज यावदागामि कार्तिकी
तावद्भवेत्सुधर्मात्मा सर्वधर्मोत्तमोत्तमः ॥ २६ ॥

विश्वास-प्रस्तुतिः

व्रतं च कुरुते मर्त्यः स याति परमां गतिम्
एतस्मात्कारणाद्राजन्कर्त्तव्या च प्रयत्नतः ॥ २७ ॥

मूलम्

व्रतं च कुरुते मर्त्यः स याति परमां गतिम्
एतस्मात्कारणाद्राजन्कर्त्तव्या च प्रयत्नतः ॥ २७ ॥

विश्वास-प्रस्तुतिः

नातः परतरा काचित्पवित्रा पापनाशिनी
यस्यां स्वपिति देवेशः शङ्खचक्रगदाधरः ॥ २८ ॥

मूलम्

नातः परतरा काचित्पवित्रा पापनाशिनी
यस्यां स्वपिति देवेशः शङ्खचक्रगदाधरः ॥ २८ ॥

विश्वास-प्रस्तुतिः

तस्यां च पूजयेद्देवं शङ्खचक्रगदाधरम्
रात्रौ जागरणं कृत्वा भक्त्या चैव विशेषतः ॥ २९ ॥

मूलम्

तस्यां च पूजयेद्देवं शङ्खचक्रगदाधरम्
रात्रौ जागरणं कृत्वा भक्त्या चैव विशेषतः ॥ २९ ॥

विश्वास-प्रस्तुतिः

नास्याः पुण्यस्य सङ्ख्यानं कर्तुं शक्तश्चतुर्मुखः
एवं यः कुरुते राजन्नेकादश्या व्रतोत्तमम् ॥ ३० ॥

मूलम्

नास्याः पुण्यस्य सङ्ख्यानं कर्तुं शक्तश्चतुर्मुखः
एवं यः कुरुते राजन्नेकादश्या व्रतोत्तमम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकम्
स च लोके मम सदा श्वपचोऽपि प्रियङ्करः ॥ ३१ ॥

मूलम्

सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकम्
स च लोके मम सदा श्वपचोऽपि प्रियङ्करः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

दीपदानेन पालाशपत्रे भुक्त्या व्रतेन च
चातुर्मास्यं नयन्तीह ते नरा मम वल्लभाः ॥ ३२ ॥

मूलम्

दीपदानेन पालाशपत्रे भुक्त्या व्रतेन च
चातुर्मास्यं नयन्तीह ते नरा मम वल्लभाः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

चातुर्मास्ये हरौ सुप्ते भूमिशायी भवेन्नरः
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा ॥ ३३ ॥

मूलम्

चातुर्मास्ये हरौ सुप्ते भूमिशायी भवेन्नरः
श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा ॥ ३३ ॥

विश्वास-प्रस्तुतिः

दुग्धमाश्वयुजि त्याज्यं कार्तिके द्विदलं त्यजेत्
अथवा ब्रह्मचर्यस्थः स याति परमां गतिम् ॥ ३४ ॥

मूलम्

दुग्धमाश्वयुजि त्याज्यं कार्तिके द्विदलं त्यजेत्
अथवा ब्रह्मचर्यस्थः स याति परमां गतिम् ॥ ३४ ॥

विश्वास-प्रस्तुतिः

एकादश्या व्रतेनैव पुमान्पापैर्विमुच्यते
कर्तव्या सर्वदा राजन्विस्मर्तव्या न कर्हिचित् ॥ ३५ ॥

मूलम्

एकादश्या व्रतेनैव पुमान्पापैर्विमुच्यते
कर्तव्या सर्वदा राजन्विस्मर्तव्या न कर्हिचित् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

शयनी बोधिनी मध्ये या कृष्णैकादशीभवेत्
सैवोपोष्या गृहस्थस्य नान्या कृष्णा कदाचन ॥ ३६ ॥

मूलम्

शयनी बोधिनी मध्ये या कृष्णैकादशीभवेत्
सैवोपोष्या गृहस्थस्य नान्या कृष्णा कदाचन ॥ ३६ ॥

विश्वास-प्रस्तुतिः

शृणुयाच्चैव यो राजन्कथां पापहरां पराम्
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ३७ ॥

मूलम्

शृणुयाच्चैव यो राजन्कथां पापहरां पराम्
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ३७ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे देवशयन्येकादशीनाम त्रिपञ्चाशत्तमोऽध्यायः ५३