०५२

युधिष्ठिरउवाच-

विश्वास-प्रस्तुतिः

आषाढकृष्णपक्षे तु किं वै एकादशी भवेत्
कथयस्व प्रसादेन वासुदेव ममाग्रतः ॥ १ ॥

मूलम्

आषाढकृष्णपक्षे तु किं वै एकादशी भवेत्
कथयस्व प्रसादेन वासुदेव ममाग्रतः ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
व्रतानामुत्तमं राजन्कथयामि तवाग्रतः
सर्वपापक्षयकरं सर्वमुक्तिप्रदायकम् ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
व्रतानामुत्तमं राजन्कथयामि तवाग्रतः
सर्वपापक्षयकरं सर्वमुक्तिप्रदायकम् ॥ २ ॥

विश्वास-प्रस्तुतिः

आषाढस्यासिते पक्षे योगिनी नाम नामतः
एकादशी नृपश्रेष्ठ महापातकनाशिनी ॥ ३ ॥

मूलम्

आषाढस्यासिते पक्षे योगिनी नाम नामतः
एकादशी नृपश्रेष्ठ महापातकनाशिनी ॥ ३ ॥

विश्वास-प्रस्तुतिः

संसारार्णवमग्नानां पोतभूता सनातनी
जगत्त्रये सारभूता योगिनी व्रतकारिणाम् ॥ ४ ॥

मूलम्

संसारार्णवमग्नानां पोतभूता सनातनी
जगत्त्रये सारभूता योगिनी व्रतकारिणाम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्
अलकायां राजराजः शिवभक्तिपरायणः ॥ ५ ॥

मूलम्

कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम्
अलकायां राजराजः शिवभक्तिपरायणः ॥ ५ ॥

विश्वास-प्रस्तुतिः

तस्यासीत्पुष्पबटुको हेममालीति नामतः
तस्य पत्नी सुरूपा च विशालाक्षीति नामतः ॥ ६ ॥

मूलम्

तस्यासीत्पुष्पबटुको हेममालीति नामतः
तस्य पत्नी सुरूपा च विशालाक्षीति नामतः ॥ ६ ॥

विश्वास-प्रस्तुतिः

स तस्यां चासक्तमना कामपाशवशं गतः
मानसात्पुष्पनिचयमानीय स्वगृहे स्थितः ॥ ७ ॥

मूलम्

स तस्यां चासक्तमना कामपाशवशं गतः
मानसात्पुष्पनिचयमानीय स्वगृहे स्थितः ॥ ७ ॥

विश्वास-प्रस्तुतिः

पत्नीप्रेमरसासक्तो न कुबेरालयं गतः
कुबेरो देवसदने करोति शिवपूजनम् ॥ ८ ॥

मूलम्

पत्नीप्रेमरसासक्तो न कुबेरालयं गतः
कुबेरो देवसदने करोति शिवपूजनम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

मध्याह्नसमये राजन्पुष्पागमसमीक्षकः
हेममाली स्वभवने रमते कान्तया सह ॥ ९ ॥

मूलम्

मध्याह्नसमये राजन्पुष्पागमसमीक्षकः
हेममाली स्वभवने रमते कान्तया सह ॥ ९ ॥

विश्वास-प्रस्तुतिः

यक्षराट्प्रत्युवाचाथ कालातिक्रमकोपितः
कस्मान्नायाति भो यक्षा हेममाली दुरात्मवान्
निश्चयः क्रियतामस्य इत्युवाच पुनः पुनः ॥ १० ॥

मूलम्

यक्षराट्प्रत्युवाचाथ कालातिक्रमकोपितः
कस्मान्नायाति भो यक्षा हेममाली दुरात्मवान्
निश्चयः क्रियतामस्य इत्युवाच पुनः पुनः ॥ १० ॥

विश्वास-प्रस्तुतिः

यक्षा ऊचुः -
वनिताकामुको गेहे रमते स्वेच्छया नृप
तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः ॥ ११ ॥

मूलम्

यक्षा ऊचुः -
वनिताकामुको गेहे रमते स्वेच्छया नृप
तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः ॥ ११ ॥

विश्वास-प्रस्तुतिः

आह्वयामास तं तूर्णं बटुकं हेममालिनम्
ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः ॥ १२ ॥

मूलम्

आह्वयामास तं तूर्णं बटुकं हेममालिनम्
ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः ॥ १२ ॥

विश्वास-प्रस्तुतिः

अस्नात एव आगत्य कुबेरस्याग्रतः स्थितः
तं दृष्ट्वा धनदः क्रुद्धः क्रोधसंरक्तलोचनः ॥ १३ ॥

मूलम्

अस्नात एव आगत्य कुबेरस्याग्रतः स्थितः
तं दृष्ट्वा धनदः क्रुद्धः क्रोधसंरक्तलोचनः ॥ १३ ॥

विश्वास-प्रस्तुतिः

प्रत्युवाच रुषाविष्टः कोपप्रस्फुरिताधरः
धनद उवाच-
आः पाप दुष्ट दुर्वृत्त कृतवान्देवहेलनम् ॥ १४ ॥

मूलम्

प्रत्युवाच रुषाविष्टः कोपप्रस्फुरिताधरः
धनद उवाच-
आः पाप दुष्ट दुर्वृत्त कृतवान्देवहेलनम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

अष्टादशकुष्ठवृतो वियुक्तः कान्तया तया
अस्मात्स्थानादपध्वस्तो गच्छ स्वप्नमथाधम ॥ १५ ॥

मूलम्

अष्टादशकुष्ठवृतो वियुक्तः कान्तया तया
अस्मात्स्थानादपध्वस्तो गच्छ स्वप्नमथाधम ॥ १५ ॥

विश्वास-प्रस्तुतिः

इत्युक्ते वचने तस्य तस्मात्स्थानात्पपात सः
महादुःखाभिभूतश्च कुष्ठैः पीडितविग्रहः ॥ १६ ॥

मूलम्

इत्युक्ते वचने तस्य तस्मात्स्थानात्पपात सः
महादुःखाभिभूतश्च कुष्ठैः पीडितविग्रहः ॥ १६ ॥

विश्वास-प्रस्तुतिः

न सुखं दिवसे तस्य न निद्रां लभते निशि
छायायां पीडिततनुर्निदाघेऽत्यन्तपीडितः ॥ १७ ॥

मूलम्

न सुखं दिवसे तस्य न निद्रां लभते निशि
छायायां पीडिततनुर्निदाघेऽत्यन्तपीडितः ॥ १७ ॥

विश्वास-प्रस्तुतिः

शिवपूजाप्रभावेन स्मृतिस्तस्य न लुप्यते
पातकेनाभिभूतोऽपि पूर्वं कर्म स्मरत्यसौ ॥ १८ ॥

मूलम्

शिवपूजाप्रभावेन स्मृतिस्तस्य न लुप्यते
पातकेनाभिभूतोऽपि पूर्वं कर्म स्मरत्यसौ ॥ १८ ॥

विश्वास-प्रस्तुतिः

भ्रममाणस्ततो गच्छन्हिमाद्रिं पर्वतोत्तमम्
तत्रापश्यन्मुनिवरं मार्कण्डेयं तपोनिधिम् ॥ १९ ॥

मूलम्

भ्रममाणस्ततो गच्छन्हिमाद्रिं पर्वतोत्तमम्
तत्रापश्यन्मुनिवरं मार्कण्डेयं तपोनिधिम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

यस्यायुर्विद्यते राजन्ब्रह्मणो वयसा समम्
ववन्दे चरणौ तस्य दूरतः पापकर्मकृत् ॥ २० ॥

मूलम्

यस्यायुर्विद्यते राजन्ब्रह्मणो वयसा समम्
ववन्दे चरणौ तस्य दूरतः पापकर्मकृत् ॥ २० ॥

विश्वास-प्रस्तुतिः

मार्कण्डेयो मुनिवरो दृष्ट्वा तं कम्पितं तथा
परोपकरणार्थाय समाहूयेदमब्रवीत् ॥ २१ ॥

मूलम्

मार्कण्डेयो मुनिवरो दृष्ट्वा तं कम्पितं तथा
परोपकरणार्थाय समाहूयेदमब्रवीत् ॥ २१ ॥

विश्वास-प्रस्तुतिः

कस्मात्कुष्ठाभिभूतस्त्वं कुतो निन्द्यतरो ह्यसि
इत्युक्तः स प्रत्युवाच मार्कण्डेयं महामुनिम् ॥ २२ ॥

मूलम्

कस्मात्कुष्ठाभिभूतस्त्वं कुतो निन्द्यतरो ह्यसि
इत्युक्तः स प्रत्युवाच मार्कण्डेयं महामुनिम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

हेममाल्युवाच-
राजराजस्यानुचरो हेममालीति नामतः
मानसात्पद्मनिचयमानीय प्रत्यहं मुने ॥ २३ ॥

मूलम्

हेममाल्युवाच-
राजराजस्यानुचरो हेममालीति नामतः
मानसात्पद्मनिचयमानीय प्रत्यहं मुने ॥ २३ ॥

विश्वास-प्रस्तुतिः

शिवपूजनवेलायां कुबेराय समर्पये
एकस्मिन्दिवसे चैव कालश्चाविदितो मया ॥ २४ ॥

मूलम्

शिवपूजनवेलायां कुबेराय समर्पये
एकस्मिन्दिवसे चैव कालश्चाविदितो मया ॥ २४ ॥

विश्वास-प्रस्तुतिः

पत्नीसौख्यप्रसक्तेन शोकव्याकुलचेतसा
ततः क्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने ॥ २५ ॥

मूलम्

पत्नीसौख्यप्रसक्तेन शोकव्याकुलचेतसा
ततः क्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने ॥ २५ ॥

विश्वास-प्रस्तुतिः

कुष्ठाभिभूतः सञ्जातो वियुक्तः कान्तया तया
अधुना तव सान्निध्यं प्राप्तोऽस्मि शुभकर्मणा ॥ २६ ॥

मूलम्

कुष्ठाभिभूतः सञ्जातो वियुक्तः कान्तया तया
अधुना तव सान्निध्यं प्राप्तोऽस्मि शुभकर्मणा ॥ २६ ॥

विश्वास-प्रस्तुतिः

सतां स्वभावतश्चित्तं परोपकरणे क्षमम्
इति ज्ञात्वा मुनिश्रेष्ठ मां प्रशाधि कृतागसम् ॥ २७ ॥

मूलम्

सतां स्वभावतश्चित्तं परोपकरणे क्षमम्
इति ज्ञात्वा मुनिश्रेष्ठ मां प्रशाधि कृतागसम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

मार्कण्डेय उवाच-
त्वया सत्यमिह प्रोक्तं नासत्यं भाषितं यतः
अतो व्रतोपदेशं ते कथयामि शुभप्रदम् ॥ २८ ॥

मूलम्

मार्कण्डेय उवाच-
त्वया सत्यमिह प्रोक्तं नासत्यं भाषितं यतः
अतो व्रतोपदेशं ते कथयामि शुभप्रदम् ॥ २८ ॥

विश्वास-प्रस्तुतिः

आषाढे कृष्णपक्षे तु योगिनीव्रतमाचर
अस्य व्रतस्य पुण्येन कुष्ठं यास्यति वै ध्रुवम् ॥ २९ ॥

मूलम्

आषाढे कृष्णपक्षे तु योगिनीव्रतमाचर
अस्य व्रतस्य पुण्येन कुष्ठं यास्यति वै ध्रुवम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

इति वाक्यमृषेः श्रुत्वा दण्डवत्पतितो भुवि
उत्थापितः स मुनिना बभूवातीव हर्षितः ॥ ३० ॥

मूलम्

इति वाक्यमृषेः श्रुत्वा दण्डवत्पतितो भुवि
उत्थापितः स मुनिना बभूवातीव हर्षितः ॥ ३० ॥

विश्वास-प्रस्तुतिः

मार्कण्डेयोपदेशेन व्रतं तेन कृतं यथा
अष्टादशेव कुष्ठानि गतानि तस्य सर्वशः ॥ ३१ ॥

मूलम्

मार्कण्डेयोपदेशेन व्रतं तेन कृतं यथा
अष्टादशेव कुष्ठानि गतानि तस्य सर्वशः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

मुनेर्वाचा ततः सम्यग्व्रते चीर्णेऽभवत्सुखी
ईदृग्विधं नृपश्रेष्ठ कथितं योगिनीव्रतम् ॥ ३२ ॥

मूलम्

मुनेर्वाचा ततः सम्यग्व्रते चीर्णेऽभवत्सुखी
ईदृग्विधं नृपश्रेष्ठ कथितं योगिनीव्रतम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः
तत्समं फलमाप्नोति योगिनीव्रतकृन्नरः ॥ ३३ ॥

मूलम्

अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः
तत्समं फलमाप्नोति योगिनीव्रतकृन्नरः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

महापापप्रशमनं महापुण्यफलप्रदम्
पठनाच्छ्रवणान्मर्त्यः सर्वपापैः प्रमुच्यते ॥ ३४ ॥

मूलम्

महापापप्रशमनं महापुण्यफलप्रदम्
पठनाच्छ्रवणान्मर्त्यः सर्वपापैः प्रमुच्यते ॥ ३४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे आषाढकृष्णयोगिन्येकादशीमाहात्म्यन्नाम
द्विपञ्चाशत्तमोऽध्यायः ५२