युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
ज्येष्ठस्य कृष्णपक्षे तु किं नामैकादशी भवेत्
श्रोतुमिच्छामि माहात्म्यं तद्वदस्व जनार्दन ॥ १ ॥
मूलम्
ज्येष्ठस्य कृष्णपक्षे तु किं नामैकादशी भवेत्
श्रोतुमिच्छामि माहात्म्यं तद्वदस्व जनार्दन ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
साधु पृष्टं त्वया राजन्लोकानां हितकाम्यया
बहुपुण्यप्रदा ह्येषा महापातकनाशिनी ॥ २ ॥
मूलम्
श्रीकृष्ण उवाच-
साधु पृष्टं त्वया राजन्लोकानां हितकाम्यया
बहुपुण्यप्रदा ह्येषा महापातकनाशिनी ॥ २ ॥
विश्वास-प्रस्तुतिः
अपरा नाम राजेन्द्र अपरा पुत्रदायिनी
लोके प्रसिद्धितां याति अपरां यस्तु सेवते ॥ ३ ॥
मूलम्
अपरा नाम राजेन्द्र अपरा पुत्रदायिनी
लोके प्रसिद्धितां याति अपरां यस्तु सेवते ॥ ३ ॥
विश्वास-प्रस्तुतिः
ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा
परापवादवादी च परस्त्री रसिकोऽपि च ॥ ४ ॥
मूलम्
ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा
परापवादवादी च परस्त्री रसिकोऽपि च ॥ ४ ॥
विश्वास-प्रस्तुतिः
अपरा सेवनाद्राजन्विपाप्मा भवति ध्रुवम्
कूटसाक्ष्यं कूटमानं तुलाकूटं करोति यः ॥ ५ ॥
मूलम्
अपरा सेवनाद्राजन्विपाप्मा भवति ध्रुवम्
कूटसाक्ष्यं कूटमानं तुलाकूटं करोति यः ॥ ५ ॥
विश्वास-प्रस्तुतिः
कूटवेदं पठेद्यस्तु कूटशास्त्रं तथैव च
ज्योतिषी गणकः कूटः कूटायुर्वैदिको भिषक् ॥ ६ ॥
मूलम्
कूटवेदं पठेद्यस्तु कूटशास्त्रं तथैव च
ज्योतिषी गणकः कूटः कूटायुर्वैदिको भिषक् ॥ ६ ॥
विश्वास-प्रस्तुतिः
कूटसाक्ष्य समायुक्तो विज्ञेया नरकौकसः
अपरा सेवनाद्राजन्पापैर्मुक्ता भवन्ति ते ॥ ७ ॥
मूलम्
कूटसाक्ष्य समायुक्तो विज्ञेया नरकौकसः
अपरा सेवनाद्राजन्पापैर्मुक्ता भवन्ति ते ॥ ७ ॥
विश्वास-प्रस्तुतिः
क्षत्त्रियः क्षात्रधर्मं यस्त्यक्त्वा युद्धात्पलायते
स याति नरकं घोरं स्वीयधर्मबहिष्कृतः ॥ ८ ॥
मूलम्
क्षत्त्रियः क्षात्रधर्मं यस्त्यक्त्वा युद्धात्पलायते
स याति नरकं घोरं स्वीयधर्मबहिष्कृतः ॥ ८ ॥
विश्वास-प्रस्तुतिः
अपरा सेवनात्सोऽपि पापं त्यक्त्वा दिवं व्रजेत्
विद्यावान्यः स्वयं शिष्यो गुरुनिन्दां करोति च ॥ ९ ॥
मूलम्
अपरा सेवनात्सोऽपि पापं त्यक्त्वा दिवं व्रजेत्
विद्यावान्यः स्वयं शिष्यो गुरुनिन्दां करोति च ॥ ९ ॥
विश्वास-प्रस्तुतिः
स महापातकैर्युक्तो निरयं याति दारुणम्
अपरा सेवनात्सोऽपि सद्गतिं प्राप्नुयान्नरः ॥ १० ॥
मूलम्
स महापातकैर्युक्तो निरयं याति दारुणम्
अपरा सेवनात्सोऽपि सद्गतिं प्राप्नुयान्नरः ॥ १० ॥
विश्वास-प्रस्तुतिः
महिमानमपरायाः शृणु राजन्वदाम्यहम्
मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम् ॥ ११ ॥
मूलम्
महिमानमपरायाः शृणु राजन्वदाम्यहम्
मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
काश्यां यत्प्राप्यते पुण्यमुपरागे निमज्जनात्
गयायां पिण्डदानेन पितॄणां तृप्तिदो यथा ॥ १२ ॥
मूलम्
काश्यां यत्प्राप्यते पुण्यमुपरागे निमज्जनात्
गयायां पिण्डदानेन पितॄणां तृप्तिदो यथा ॥ १२ ॥
विश्वास-प्रस्तुतिः
सिंहस्थिते देवगुरौ गौतम्यां स्नातको नरः
कन्यागते गुरौ राजन्कृष्णवेणी निमज्जनात् ॥ १३ ॥
मूलम्
सिंहस्थिते देवगुरौ गौतम्यां स्नातको नरः
कन्यागते गुरौ राजन्कृष्णवेणी निमज्जनात् ॥ १३ ॥
विश्वास-प्रस्तुतिः
यत्फलं समवाप्नोति कुम्भकेदार दर्शनात्
बदर्याश्रमयात्रायां तत्तीर्थसेवनादपि ॥ १४ ॥
मूलम्
यत्फलं समवाप्नोति कुम्भकेदार दर्शनात्
बदर्याश्रमयात्रायां तत्तीर्थसेवनादपि ॥ १४ ॥
विश्वास-प्रस्तुतिः
यत्फलं समवाप्नोति कुरुक्षेत्रे रविग्रहे
गजाश्व हेमदानेन यज्ञं कृत्वा सदक्षिणम् ॥ १५ ॥
मूलम्
यत्फलं समवाप्नोति कुरुक्षेत्रे रविग्रहे
गजाश्व हेमदानेन यज्ञं कृत्वा सदक्षिणम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
तादृशं फलमाप्नोति अपरा व्रतसेवनात्
अर्धप्रसूतां गां दत्वा सुवर्णं वसुधां तथा ॥ १६ ॥
मूलम्
तादृशं फलमाप्नोति अपरा व्रतसेवनात्
अर्धप्रसूतां गां दत्वा सुवर्णं वसुधां तथा ॥ १६ ॥
विश्वास-प्रस्तुतिः
नरो यत्फलमाप्नोति अपराया व्रतेन तत्
पापद्रुमकुठारीयं पापेन्धन दवानलः ॥ १७ ॥
मूलम्
नरो यत्फलमाप्नोति अपराया व्रतेन तत्
पापद्रुमकुठारीयं पापेन्धन दवानलः ॥ १७ ॥
विश्वास-प्रस्तुतिः
पापान्धकारतरणिः पापसारङ्ग केसरी
बुद्बुदा इव तोयेषु पुत्तिका इव जन्तुषु ॥ १८ ॥
मूलम्
पापान्धकारतरणिः पापसारङ्ग केसरी
बुद्बुदा इव तोयेषु पुत्तिका इव जन्तुषु ॥ १८ ॥
विश्वास-प्रस्तुतिः
जायन्ते मरणायैव एकादश्या व्रतं विना
अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमम् ॥ १९ ॥
मूलम्
जायन्ते मरणायैव एकादश्या व्रतं विना
अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
लोकानां च हितार्थाय तवाग्रे कथितं मया
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ॥ २० ॥
मूलम्
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
लोकानां च हितार्थाय तवाग्रे कथितं मया
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ॥ २० ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे ज्येष्ठकृष्णापरैकादशीनाम पञ्चाशत्तमोऽध्यायः ५०