युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेत्
किं फलं को विधिस्तत्र कथयस्व जनार्दन ॥ १ ॥
मूलम्
वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेत्
किं फलं को विधिस्तत्र कथयस्व जनार्दन ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
इदमेव पुरा पृष्टं रामचन्द्रेण धीमता
वसिष्ठं प्रति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥ २ ॥
मूलम्
श्रीकृष्ण उवाच-
इदमेव पुरा पृष्टं रामचन्द्रेण धीमता
वसिष्ठं प्रति राजेन्द्र यत्त्वं मामनुपृच्छसि ॥ २ ॥
विश्वास-प्रस्तुतिः
राम उवाच-
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
सर्वपापक्षयकरं सर्वदुःखनिकृन्तनम् ॥ ३ ॥
मूलम्
राम उवाच-
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
सर्वपापक्षयकरं सर्वदुःखनिकृन्तनम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
मया दुःखानि भुक्तानि सीताविरहजानि तु
ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने ॥ ४ ॥
मूलम्
मया दुःखानि भुक्तानि सीताविरहजानि तु
ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने ॥ ४ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच-
साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः
त्वन्नामग्रहणेनैव पूतो भवति मानवः ॥ ५ ॥
मूलम्
वसिष्ठ उवाच-
साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः
त्वन्नामग्रहणेनैव पूतो भवति मानवः ॥ ५ ॥
विश्वास-प्रस्तुतिः
तथापि कथयिष्यामि लोकानां हितकाम्यया
पवित्रं पावनानां च व्रतानामुत्तमं व्रतम् ॥ ६ ॥
मूलम्
तथापि कथयिष्यामि लोकानां हितकाम्यया
पवित्रं पावनानां च व्रतानामुत्तमं व्रतम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
वैशाखस्य सिते पक्षे राम चैकादशी भवेत्
मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः ॥ ७ ॥
मूलम्
वैशाखस्य सिते पक्षे राम चैकादशी भवेत्
मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः ॥ ७ ॥
विश्वास-प्रस्तुतिः
मोहजालात्प्रमुच्यन्ते पातकानां समूहतः
अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम् ॥ ८ ॥
मूलम्
मोहजालात्प्रमुच्यन्ते पातकानां समूहतः
अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
अतः कारणतो राम कर्तव्यैषा भवादृशैः
पातकानां क्षयकरी महादुःखविनाशिनी ॥ ९ ॥
मूलम्
अतः कारणतो राम कर्तव्यैषा भवादृशैः
पातकानां क्षयकरी महादुःखविनाशिनी ॥ ९ ॥
विश्वास-प्रस्तुतिः
शृणुष्वैकमना राम कथां पापहरां पराम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥ १० ॥
मूलम्
शृणुष्वैकमना राम कथां पापहरां पराम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥ १० ॥
विश्वास-प्रस्तुतिः
सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा
द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै ॥ ११ ॥
मूलम्
सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा
द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै ॥ ११ ॥
विश्वास-प्रस्तुतिः
चन्द्रवंशोद्भवो नाम धृतिमान्सत्यसङ्गरः
तत्र वैश्यो निवसति धनधान्यसमृद्धिमान् ॥ १२ ॥
मूलम्
चन्द्रवंशोद्भवो नाम धृतिमान्सत्यसङ्गरः
तत्र वैश्यो निवसति धनधान्यसमृद्धिमान् ॥ १२ ॥
विश्वास-प्रस्तुतिः
धनपाल इति ख्यातः पुण्यकर्मप्रवर्त्तकः
प्रपा कूप मठाराम तडाग गृहकारकः ॥ १३ ॥
मूलम्
धनपाल इति ख्यातः पुण्यकर्मप्रवर्त्तकः
प्रपा कूप मठाराम तडाग गृहकारकः ॥ १३ ॥
विश्वास-प्रस्तुतिः
विष्णुभक्तिरतः शान्तस्तस्यासन्पञ्चपुत्रकाः
सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा ॥ १४ ॥
मूलम्
विष्णुभक्तिरतः शान्तस्तस्यासन्पञ्चपुत्रकाः
सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा ॥ १४ ॥
विश्वास-प्रस्तुतिः
पञ्चमो धृष्टबुद्धिश्च महापापरतः सदा
परस्त्रीसङ्गनिरतो विटगोष्ठी विशारदः ॥ १५ ॥
मूलम्
पञ्चमो धृष्टबुद्धिश्च महापापरतः सदा
परस्त्रीसङ्गनिरतो विटगोष्ठी विशारदः ॥ १५ ॥
विश्वास-प्रस्तुतिः
द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः
न च देवार्चने बुद्धिर्नपितॄन्न द्विजान्प्रति ॥ १६ ॥
मूलम्
द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः
न च देवार्चने बुद्धिर्नपितॄन्न द्विजान्प्रति ॥ १६ ॥
विश्वास-प्रस्तुतिः
अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयङ्करः
अभक्ष्यभक्षकः पापी सुरापाने रतः सदा ॥ १७ ॥
मूलम्
अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयङ्करः
अभक्ष्यभक्षकः पापी सुरापाने रतः सदा ॥ १७ ॥
विश्वास-प्रस्तुतिः
वेश्याकण्ठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे
पित्रा निष्कासितो गेहात्परित्यक्तश्च बान्धवैः ॥ १८ ॥
मूलम्
वेश्याकण्ठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे
पित्रा निष्कासितो गेहात्परित्यक्तश्च बान्धवैः ॥ १८ ॥
विश्वास-प्रस्तुतिः
स्वदेहभूषणान्येव क्षयं नीतानि तेन वै
गणिकाभिः परित्यक्तो निन्दितश्च धनक्षयात् ॥ १९ ॥
मूलम्
स्वदेहभूषणान्येव क्षयं नीतानि तेन वै
गणिकाभिः परित्यक्तो निन्दितश्च धनक्षयात् ॥ १९ ॥
विश्वास-प्रस्तुतिः
ततश्चिन्तापरो जातो वस्त्रहीनः क्षुधार्दितः
किं करोमि क्वगच्छामि केनोपायेन जीव्यते ॥ २० ॥
मूलम्
ततश्चिन्तापरो जातो वस्त्रहीनः क्षुधार्दितः
किं करोमि क्वगच्छामि केनोपायेन जीव्यते ॥ २० ॥
विश्वास-प्रस्तुतिः
तस्करत्वं समारब्धं तत्रैव नगरे पितुः
गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात् ॥ २१ ॥
मूलम्
तस्करत्वं समारब्धं तत्रैव नगरे पितुः
गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात् ॥ २१ ॥
विश्वास-प्रस्तुतिः
पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससम्भ्रमैः
धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः ॥ २२ ॥
मूलम्
पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससम्भ्रमैः
धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः ॥ २२ ॥
विश्वास-प्रस्तुतिः
कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः
न स्थातव्यं हि मन्दात्मंस्त्वया मद्देशगोचरे ॥ २३ ॥
मूलम्
कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः
न स्थातव्यं हि मन्दात्मंस्त्वया मद्देशगोचरे ॥ २३ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा ततो राज्ञा मोचितो दृढबन्धनात्
निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम् ॥ २४ ॥
मूलम्
एवमुक्त्वा ततो राज्ञा मोचितो दृढबन्धनात्
निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति
सिंहवन्निजघानासौ मृग शूकर चित्रलान् ॥ २५ ॥
मूलम्
क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति
सिंहवन्निजघानासौ मृग शूकर चित्रलान् ॥ २५ ॥
विश्वास-प्रस्तुतिः
आमिषाहार निरतो वने तिष्ठति सर्वदा
करे शरासनं कृत्वा निषङ्गं पृष्ठ सङ्गतम् ॥ २६ ॥
मूलम्
आमिषाहार निरतो वने तिष्ठति सर्वदा
करे शरासनं कृत्वा निषङ्गं पृष्ठ सङ्गतम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
अरण्यचारिणो हन्ति पक्षिणश्च पदाचरन्
चकोरांश्च मयूरांश्च कङ्क तित्तिर मूषिकान् ॥ २७ ॥
मूलम्
अरण्यचारिणो हन्ति पक्षिणश्च पदाचरन्
चकोरांश्च मयूरांश्च कङ्क तित्तिर मूषिकान् ॥ २७ ॥
विश्वास-प्रस्तुतिः
एतानन्यान्हिनस्त्यन्धो धृष्टबुद्धिस्तु निर्घृणः
पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे ॥ २८ ॥
मूलम्
एतानन्यान्हिनस्त्यन्धो धृष्टबुद्धिस्तु निर्घृणः
पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे ॥ २८ ॥
विश्वास-प्रस्तुतिः
दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम्
कौण्डिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित् ॥ २९ ॥
मूलम्
दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम्
कौण्डिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित् ॥ २९ ॥
विश्वास-प्रस्तुतिः
माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम्
आससाद धृष्टबुद्धिः शोकभारेण पीडितः ॥ ३० ॥
मूलम्
माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम्
आससाद धृष्टबुद्धिः शोकभारेण पीडितः ॥ ३० ॥
विश्वास-प्रस्तुतिः
तद्वस्त्रबिन्दुस्पर्शेन गतपापो हताशुभः
कौण्डिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृताञ्जलि ॥ ३१ ॥
मूलम्
तद्वस्त्रबिन्दुस्पर्शेन गतपापो हताशुभः
कौण्डिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृताञ्जलि ॥ ३१ ॥
विश्वास-प्रस्तुतिः
धृष्टबुद्धिरुवाच-
भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि
येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद ॥ ३२ ॥
मूलम्
धृष्टबुद्धिरुवाच-
भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि
येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कौण्डिन्य उवाच-
शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव
वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ॥ ३३ ॥
मूलम्
कौण्डिन्य उवाच-
शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव
वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ॥ ३३ ॥
विश्वास-प्रस्तुतिः
एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः
मेरुतुल्यानि पापानि क्षयं गच्छन्ति देहिनाम् ॥ ३४ ॥
मूलम्
एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः
मेरुतुल्यानि पापानि क्षयं गच्छन्ति देहिनाम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
बहुजन्मार्जितान्येषा मोहिनी समुपोषिता
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः ॥ ३५ ॥
मूलम्
बहुजन्मार्जितान्येषा मोहिनी समुपोषिता
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
व्रतं चकार विधिवत्कौण्डिन्यस्योपदेशतः
कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः ॥ ३६ ॥
मूलम्
व्रतं चकार विधिवत्कौण्डिन्यस्योपदेशतः
कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः
जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम् ॥ ३७ ॥
मूलम्
दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः
जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
इतीदृशं रामचन्द्र उत्तमं मोहिनी व्रतम्
नातः परतरं किञ्चित्त्रैलोक्ये सचराचरे ॥ ३८ ॥
मूलम्
इतीदृशं रामचन्द्र उत्तमं मोहिनी व्रतम्
नातः परतरं किञ्चित्त्रैलोक्ये सचराचरे ॥ ३८ ॥
विश्वास-प्रस्तुतिः
यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम्
पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत् ॥ ३९ ॥
मूलम्
यज्ञादितीर्थदानानि कलां नार्हन्ति षोडशीम्
पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत् ॥ ३९ ॥
इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां सहितायामुत्तरखण्डे उमापतिनारदसंवादे वैशाखशुक्ले मोहन्येकादशीनाम एकोनपञ्चाशत्तमोऽध्यायः४९