०४८

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

वैशाखस्यासिते पक्षे किन्नामैकादशी भवेत्
महिमानं कथय मे वासुदेव नमोऽस्तु ते ॥ १ ॥

मूलम्

वैशाखस्यासिते पक्षे किन्नामैकादशी भवेत्
महिमानं कथय मे वासुदेव नमोऽस्तु ते ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
सौभाग्यदायिनी राजन्निहलोके परत्र च
वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
सौभाग्यदायिनी राजन्निहलोके परत्र च
वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी ॥ २ ॥

विश्वास-प्रस्तुतिः

वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा
पापहानिश्च भवति सौभाग्यप्राप्तिरेव च ॥ ३ ॥

मूलम्

वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा
पापहानिश्च भवति सौभाग्यप्राप्तिरेव च ॥ ३ ॥

विश्वास-प्रस्तुतिः

दुर्भगा या करोत्येनां सा स्त्री सौभाग्यमाप्नुयात्
लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी ॥ ४ ॥

मूलम्

दुर्भगा या करोत्येनां सा स्त्री सौभाग्यमाप्नुयात्
लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी ॥ ४ ॥

विश्वास-प्रस्तुतिः

सर्वपापहरा नॄणां गर्भवासनिकृन्तनी
वरूथिन्या व्रतेनैव मान्धाता स्वर्गतिं गतः ॥ ५ ॥

मूलम्

सर्वपापहरा नॄणां गर्भवासनिकृन्तनी
वरूथिन्या व्रतेनैव मान्धाता स्वर्गतिं गतः ॥ ५ ॥

विश्वास-प्रस्तुतिः

धुन्धुमारादयश्चान्ये राजानो बहवस्तथा
ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः ॥ ६ ॥

मूलम्

धुन्धुमारादयश्चान्ये राजानो बहवस्तथा
ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः ॥ ६ ॥

विश्वास-प्रस्तुतिः

दशवर्षसहस्राणि तपस्तप्यति यो नरः
कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददाति यः
तत्तुल्यम्फलमाप्नोतिवरूथिन्याव्रतञ्चरन् ॥ ७ ॥

मूलम्

दशवर्षसहस्राणि तपस्तप्यति यो नरः
कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददाति यः
तत्तुल्यम्फलमाप्नोतिवरूथिन्याव्रतञ्चरन् ॥ ७ ॥

विश्वास-प्रस्तुतिः

श्रद्धावान्यस्तु कुरुते वरूथिन्या व्रतं नरः
वाञ्छितं लभते सोऽपि इहलोके परत्र च ॥ ८ ॥

मूलम्

श्रद्धावान्यस्तु कुरुते वरूथिन्या व्रतं नरः
वाञ्छितं लभते सोऽपि इहलोके परत्र च ॥ ८ ॥

विश्वास-प्रस्तुतिः

पवित्रा पावनी ह्येषा महापातकनाशिनी
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम ॥ ९ ॥

मूलम्

पवित्रा पावनी ह्येषा महापातकनाशिनी
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम ॥ ९ ॥

विश्वास-प्रस्तुतिः

अश्वदानान्नृपश्रेष्ठ गजदानं विशिष्यते
गजदानाद्भूमिदानं तिलदानं ततोऽधिकम् ॥ १० ॥

मूलम्

अश्वदानान्नृपश्रेष्ठ गजदानं विशिष्यते
गजदानाद्भूमिदानं तिलदानं ततोऽधिकम् ॥ १० ॥

विश्वास-प्रस्तुतिः

तस्माच्च स्वर्णदानं वै अन्नदानं ततोऽधिकम्
अन्नदानात्परं दानं न भूतं न भविष्यति ॥ ११ ॥

मूलम्

तस्माच्च स्वर्णदानं वै अन्नदानं ततोऽधिकम्
अन्नदानात्परं दानं न भूतं न भविष्यति ॥ ११ ॥

विश्वास-प्रस्तुतिः

पितृदेवमनुष्याणां तृप्तिरन्नेन जायते
तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम ॥ १२ ॥

मूलम्

पितृदेवमनुष्याणां तृप्तिरन्नेन जायते
तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम ॥ १२ ॥

विश्वास-प्रस्तुतिः

धेनुदानं च तत्तुल्यमित्याह भगवान्स्वयम्
प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते ॥ १३ ॥

मूलम्

धेनुदानं च तत्तुल्यमित्याह भगवान्स्वयम्
प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते ॥ १३ ॥

विश्वास-प्रस्तुतिः

तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम्
कन्यावित्तेन जीवन्ति ये नराः पापमोहिताः ॥ १४ ॥

मूलम्

तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम्
कन्यावित्तेन जीवन्ति ये नराः पापमोहिताः ॥ १४ ॥

विश्वास-प्रस्तुतिः

पुण्यक्षयं ते गच्छन्ति निरयं यातनामयम्
तस्मात्सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनम् ॥ १५ ॥

मूलम्

पुण्यक्षयं ते गच्छन्ति निरयं यातनामयम्
तस्मात्सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

यश्च गृह्णाति लोभेन कन्यां क्रीत्वा च तद्धनम्
सोऽन्यजन्मनि राजेन्द्र ओतुर्भवति निश्चितम् ॥ १६ ॥

मूलम्

यश्च गृह्णाति लोभेन कन्यां क्रीत्वा च तद्धनम्
सोऽन्यजन्मनि राजेन्द्र ओतुर्भवति निश्चितम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

कन्यां पुण्येन यो दद्याद्यथाशक्ति स्वलङ्कृताम्
तत्पुण्यसङ्ख्यां नृपते चित्रगुप्तो न शक्नुयात् ॥ १७ ॥

मूलम्

कन्यां पुण्येन यो दद्याद्यथाशक्ति स्वलङ्कृताम्
तत्पुण्यसङ्ख्यां नृपते चित्रगुप्तो न शक्नुयात् ॥ १७ ॥

विश्वास-प्रस्तुतिः

तत्तुल्यं फलमाप्नोति नरः कृत्वा वरूथिनीम्
कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा ॥ १८ ॥

मूलम्

तत्तुल्यं फलमाप्नोति नरः कृत्वा वरूथिनीम्
कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा ॥ १८ ॥

विश्वास-प्रस्तुतिः

शाकं मधु परान्नं च पुनर्भोजन मैथुने
वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत् ॥ १९ ॥

मूलम्

शाकं मधु परान्नं च पुनर्भोजन मैथुने
वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत् ॥ १९ ॥

विश्वास-प्रस्तुतिः

द्यूतं क्रीडां च निद्रां च ताम्बूलं दन्तधावनम्
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥ २० ॥

मूलम्

द्यूतं क्रीडां च निद्रां च ताम्बूलं दन्तधावनम्
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ॥ २० ॥

विश्वास-प्रस्तुतिः

क्रोधं चैवानृतं वाक्यमेकादश्यां विवर्जयेत्
कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणम् ॥ २१ ॥

मूलम्

क्रोधं चैवानृतं वाक्यमेकादश्यां विवर्जयेत्
कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

व्यायामं च प्रवासं च पुनर्भोजनमैथुनम्
वृषपृष्ठं मसूरान्नं द्वादश्यां परिवर्जयेत् ॥ २२ ॥

मूलम्

व्यायामं च प्रवासं च पुनर्भोजनमैथुनम्
वृषपृष्ठं मसूरान्नं द्वादश्यां परिवर्जयेत् ॥ २२ ॥

विश्वास-प्रस्तुतिः

अनेन विधिना राजन्विहिता यैर्वरूथिनी
सर्वपापक्षयं कृत्वा दद्यात्प्रान्तेऽक्षयां गतिम्
रात्रौ जागरणं कृत्वा पूजितो मधुसूदनः ॥ २३ ॥

मूलम्

अनेन विधिना राजन्विहिता यैर्वरूथिनी
सर्वपापक्षयं कृत्वा दद्यात्प्रान्तेऽक्षयां गतिम्
रात्रौ जागरणं कृत्वा पूजितो मधुसूदनः ॥ २३ ॥

विश्वास-प्रस्तुतिः

सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम्
तस्मात्सर्वप्रयत्नेन कर्तव्या पापभीरुभिः ॥ २४ ॥

मूलम्

सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम्
तस्मात्सर्वप्रयत्नेन कर्तव्या पापभीरुभिः ॥ २४ ॥

विश्वास-प्रस्तुतिः

क्षपारितनयाद्भीतो नरः कुर्याद्वरूथिनीम्
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ २५ ॥

मूलम्

क्षपारितनयाद्भीतो नरः कुर्याद्वरूथिनीम्
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ २५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे वैशाखकृष्णवरूथिनी एकादशी नाम अष्टचत्वारिंशोऽध्यायः ४८