युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
वासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः
चैत्रस्य शुक्लपक्षे तु किं नामैकादशी भवेत् ॥ १ ॥
मूलम्
वासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः
चैत्रस्य शुक्लपक्षे तु किं नामैकादशी भवेत् ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
शृणुष्वैकमना राजन्कथां पुण्यां पुरातनीम्
वसिष्ठो यामकथयत्प्राग्दिलीपाय पृच्छते ॥ २ ॥
मूलम्
श्रीकृष्ण उवाच-
शृणुष्वैकमना राजन्कथां पुण्यां पुरातनीम्
वसिष्ठो यामकथयत्प्राग्दिलीपाय पृच्छते ॥ २ ॥
विश्वास-प्रस्तुतिः
दिलीप उवाच-
भगवञ्छ्रोतुमिच्छामि कथयस्व प्रसादतः
चैत्रमासि सिते पक्षे किन्नामैकादशी भवेत् ॥ ३ ॥
मूलम्
दिलीप उवाच-
भगवञ्छ्रोतुमिच्छामि कथयस्व प्रसादतः
चैत्रमासि सिते पक्षे किन्नामैकादशी भवेत् ॥ ३ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच-
साधु पृष्टं त्वया राजन्कथयामि तवाग्रतः
चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः ॥ ४ ॥
मूलम्
वसिष्ठ उवाच-
साधु पृष्टं त्वया राजन्कथयामि तवाग्रतः
चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः ॥ ४ ॥
विश्वास-प्रस्तुतिः
एकादशी पुण्यतमा पापेन्धनदवानलः
शृणु राजन्कथामेतां पापघ्नीं पुण्यदायिनीम् ॥ ५ ॥
मूलम्
एकादशी पुण्यतमा पापेन्धनदवानलः
शृणु राजन्कथामेतां पापघ्नीं पुण्यदायिनीम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
पुरा नागपुरे रम्ये हेमरत्नविभूषिते
पुण्डरीकमुखा नागा निवसन्ति महोत्कटाः ॥ ६ ॥
मूलम्
पुरा नागपुरे रम्ये हेमरत्नविभूषिते
पुण्डरीकमुखा नागा निवसन्ति महोत्कटाः ॥ ६ ॥
विश्वास-प्रस्तुतिः
तस्मिन्पुरे पुण्डरीको राजा राज्यं चकार सः
गन्धर्वैः किन्नरैश्चैव अप्सरोभिश्च सेव्यते ॥ ७ ॥
मूलम्
तस्मिन्पुरे पुण्डरीको राजा राज्यं चकार सः
गन्धर्वैः किन्नरैश्चैव अप्सरोभिश्च सेव्यते ॥ ७ ॥
विश्वास-प्रस्तुतिः
वराप्सरास्तु ललिता गन्धर्वो ललितस्तथा
उभौ रागेण संरक्तौ दम्पती कामपीडितौ ॥ ८ ॥
मूलम्
वराप्सरास्तु ललिता गन्धर्वो ललितस्तथा
उभौ रागेण संरक्तौ दम्पती कामपीडितौ ॥ ८ ॥
विश्वास-प्रस्तुतिः
रेमाते स्वगृहे रम्ये धनधान्ययुते तदा
ललितायाश्च हृदये पतिर्वसति सर्वदा ॥ ९ ॥
मूलम्
रेमाते स्वगृहे रम्ये धनधान्ययुते तदा
ललितायाश्च हृदये पतिर्वसति सर्वदा ॥ ९ ॥
विश्वास-प्रस्तुतिः
हृदये तस्य ललिता नित्यं वसति भामिनी
एकदा पुण्डरीकोऽथ क्रीडते सदसि स्थितः ॥ १० ॥
मूलम्
हृदये तस्य ललिता नित्यं वसति भामिनी
एकदा पुण्डरीकोऽथ क्रीडते सदसि स्थितः ॥ १० ॥
विश्वास-प्रस्तुतिः
गीतं गानं प्रकुरुते ललितो दयितां विना
पदबन्धस्खलज्जिह्वो बभूव ललितां स्मरन् ॥ ११ ॥
मूलम्
गीतं गानं प्रकुरुते ललितो दयितां विना
पदबन्धस्खलज्जिह्वो बभूव ललितां स्मरन् ॥ ११ ॥
विश्वास-प्रस्तुतिः
मनोभावं विदित्वास्य कर्कटो नागसत्तमः
पदबन्धच्युतिं तस्य पुण्डरीके न्यवेदयत् ॥ १२ ॥
मूलम्
मनोभावं विदित्वास्य कर्कटो नागसत्तमः
पदबन्धच्युतिं तस्य पुण्डरीके न्यवेदयत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा कर्कोटकवचः पुण्डरीको भुजङ्गराट्
क्रोधसंरक्तनयनो बभूवातिभयङ्करः ॥ १३ ॥
मूलम्
श्रुत्वा कर्कोटकवचः पुण्डरीको भुजङ्गराट्
क्रोधसंरक्तनयनो बभूवातिभयङ्करः ॥ १३ ॥
विश्वास-प्रस्तुतिः
शशाप ललितं तत्र गायन्तं मदनातुरम्
राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः ॥ १४ ॥
मूलम्
शशाप ललितं तत्र गायन्तं मदनातुरम्
राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः ॥ १४ ॥
विश्वास-प्रस्तुतिः
यतः पत्नीवशोपेतो गायमानो ममाग्रतः
वचनात्तस्य राजेन्द्र रक्षोरूपो बभूव सः ॥ १५ ॥
मूलम्
यतः पत्नीवशोपेतो गायमानो ममाग्रतः
वचनात्तस्य राजेन्द्र रक्षोरूपो बभूव सः ॥ १५ ॥
विश्वास-प्रस्तुतिः
रौद्राननो विरूपाक्षो दृष्टमात्रो भयङ्करः
बाहूयोजनविस्तीर्णौ मुखं कन्दरसन्निभम् ॥ १६ ॥
मूलम्
रौद्राननो विरूपाक्षो दृष्टमात्रो भयङ्करः
बाहूयोजनविस्तीर्णौ मुखं कन्दरसन्निभम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
चन्द्रसूर्यनिभे नेत्रे ग्रीवापर्वतसन्निभा
नासारन्ध्रे तु विवरे अधरौ योजनायतौ ॥ १७ ॥
मूलम्
चन्द्रसूर्यनिभे नेत्रे ग्रीवापर्वतसन्निभा
नासारन्ध्रे तु विवरे अधरौ योजनायतौ ॥ १७ ॥
विश्वास-प्रस्तुतिः
शरीरं तस्य राजेन्द्र उत्थितं योजनाष्टकम्
ईदृशो राक्षसो भूत्वा भुञ्जानः कर्मणः फलम् ॥ १८ ॥
मूलम्
शरीरं तस्य राजेन्द्र उत्थितं योजनाष्टकम्
ईदृशो राक्षसो भूत्वा भुञ्जानः कर्मणः फलम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
ललिता तु तथालोक्य स्वपतिं विकृताकृतिम्
चिन्तयामास मनसा दुःखेन महतार्दिता ॥ १९ ॥
मूलम्
ललिता तु तथालोक्य स्वपतिं विकृताकृतिम्
चिन्तयामास मनसा दुःखेन महतार्दिता ॥ १९ ॥
विश्वास-प्रस्तुतिः
किं करोमि क्व गच्छामि पतिः शापेन पीडितः
इति संस्मृत्य संस्मृत्य मनसा शर्म नालभत् ॥ २० ॥
मूलम्
किं करोमि क्व गच्छामि पतिः शापेन पीडितः
इति संस्मृत्य संस्मृत्य मनसा शर्म नालभत् ॥ २० ॥
विश्वास-प्रस्तुतिः
चचार पतिना सार्द्धं ललिता गहने वने
बभ्राम विपिने दुर्गे कामरूपी स राक्षसः ॥ २१ ॥
मूलम्
चचार पतिना सार्द्धं ललिता गहने वने
बभ्राम विपिने दुर्गे कामरूपी स राक्षसः ॥ २१ ॥
विश्वास-प्रस्तुतिः
निर्घृणः पापनिरतो विरूपः पुरुषादकः
न सुखं लभते रात्रौ न दिवा पापपीडितः ॥ २२ ॥
मूलम्
निर्घृणः पापनिरतो विरूपः पुरुषादकः
न सुखं लभते रात्रौ न दिवा पापपीडितः ॥ २२ ॥
विश्वास-प्रस्तुतिः
ललिता दुःखितातीव पतिं दृष्ट्वा तथाविधम्
बभ्राम तेन सार्द्धं सा रुदती गहने वने ॥ २३ ॥
मूलम्
ललिता दुःखितातीव पतिं दृष्ट्वा तथाविधम्
बभ्राम तेन सार्द्धं सा रुदती गहने वने ॥ २३ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वाश्रमपदं रम्यं मुनिं संशान्तविग्रहम्
शीघ्रं जगाम ललिता नमस्कृत्याग्रतः स्थिता ॥ २४ ॥
मूलम्
दृष्ट्वाश्रमपदं रम्यं मुनिं संशान्तविग्रहम्
शीघ्रं जगाम ललिता नमस्कृत्याग्रतः स्थिता ॥ २४ ॥
विश्वास-प्रस्तुतिः
तां दृष्ट्वा स मुनिः प्राह दुःखितां हि दयापरः
का त्वं कस्मादिहायाता सत्यं वद ममाग्रतः ॥ २५ ॥
मूलम्
तां दृष्ट्वा स मुनिः प्राह दुःखितां हि दयापरः
का त्वं कस्मादिहायाता सत्यं वद ममाग्रतः ॥ २५ ॥
विश्वास-प्रस्तुतिः
ललितोवाच-
वीरधन्वेति गन्धर्वः सुता तस्य महात्मनः
ललितां नाम मां विद्धि पत्यर्थमिह चागताम् ॥ २६ ॥
मूलम्
ललितोवाच-
वीरधन्वेति गन्धर्वः सुता तस्य महात्मनः
ललितां नाम मां विद्धि पत्यर्थमिह चागताम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
भर्ता मे पापदोषेण राक्षसोऽभून्महामुने
रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम् ॥ २७ ॥
मूलम्
भर्ता मे पापदोषेण राक्षसोऽभून्महामुने
रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
साम्प्रतं शाधि मां ब्रह्मन्यत्कृत्यं तद्वद प्रभो
कुरुष्व तद् व्रतं भद्रे विधिपूर्वं मयोदितम् ॥ २८ ॥
मूलम्
साम्प्रतं शाधि मां ब्रह्मन्यत्कृत्यं तद्वद प्रभो
कुरुष्व तद् व्रतं भद्रे विधिपूर्वं मयोदितम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
ऋषिरुवाच-
चैत्रमासस्य रम्भोरु शुक्लपक्षोऽस्ति साम्प्रतम्
कामदैकादशीनाम पापघ्नी ललिते परा ॥ २९ ॥
मूलम्
ऋषिरुवाच-
चैत्रमासस्य रम्भोरु शुक्लपक्षोऽस्ति साम्प्रतम्
कामदैकादशीनाम पापघ्नी ललिते परा ॥ २९ ॥
विश्वास-प्रस्तुतिः
कुरुष्व तद्व्रतं भद्रे विधिपूर्वं मयोदितम्
अस्य व्रतस्य यत्पुण्यं तत्स्वभर्त्रे प्रदीयताम् ॥ ३० ॥
मूलम्
कुरुष्व तद्व्रतं भद्रे विधिपूर्वं मयोदितम्
अस्य व्रतस्य यत्पुण्यं तत्स्वभर्त्रे प्रदीयताम् ॥ ३० ॥
विश्वास-प्रस्तुतिः
दत्ते पुण्येक्षणात्तस्य शापदोषः प्रयास्यति
इति श्रुत्वा मुनेर्वाक्यं ललिता हर्षिताभवत् ॥ ३१ ॥
मूलम्
दत्ते पुण्येक्षणात्तस्य शापदोषः प्रयास्यति
इति श्रुत्वा मुनेर्वाक्यं ललिता हर्षिताभवत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
उपोष्यैकादशीं राजन्द्वादशीदिवसे तथा
विप्रस्यैव समीपे तद्वासुदेवस्य चाग्रतः ॥ ३२ ॥
मूलम्
उपोष्यैकादशीं राजन्द्वादशीदिवसे तथा
विप्रस्यैव समीपे तद्वासुदेवस्य चाग्रतः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै
मया तु तद्व्रतं चीर्णं कामदाया उपोषणम् ॥ ३३ ॥
मूलम्
वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै
मया तु तद्व्रतं चीर्णं कामदाया उपोषणम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तस्य पुण्यप्रभावेन गच्छत्वस्य पिशाचता
ललितावचनादेव वर्त्तमानोऽपि तत्क्षणे ॥ ३४ ॥
मूलम्
तस्य पुण्यप्रभावेन गच्छत्वस्य पिशाचता
ललितावचनादेव वर्त्तमानोऽपि तत्क्षणे ॥ ३४ ॥
विश्वास-प्रस्तुतिः
गतपापः स ललितो दिव्यदेहो बभूव ह
राक्षसत्वं गतं तस्य प्राप्ता गन्धर्वता पुनः ॥ ३५ ॥
मूलम्
गतपापः स ललितो दिव्यदेहो बभूव ह
राक्षसत्वं गतं तस्य प्राप्ता गन्धर्वता पुनः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
हेमरत्नसमाकीर्णो रेमे ललितया सह
विमानवरमारूढौ पूर्वरूपाधिकौ च तौ ॥ ३६ ॥
मूलम्
हेमरत्नसमाकीर्णो रेमे ललितया सह
विमानवरमारूढौ पूर्वरूपाधिकौ च तौ ॥ ३६ ॥
विश्वास-प्रस्तुतिः
दम्पती अत्यशोभेतां कामदायाः प्रभावतः
इति ज्ञात्वा नृपश्रेष्ठ कर्तव्यैषा प्रयत्नतः ॥ ३७ ॥
मूलम्
दम्पती अत्यशोभेतां कामदायाः प्रभावतः
इति ज्ञात्वा नृपश्रेष्ठ कर्तव्यैषा प्रयत्नतः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
लोकानां तु हितार्थाय तवाग्रे कथिता मया
ब्रह्महत्यादि पापघ्नी पिशाचत्वविनाशनी ॥ ३८ ॥
मूलम्
लोकानां तु हितार्थाय तवाग्रे कथिता मया
ब्रह्महत्यादि पापघ्नी पिशाचत्वविनाशनी ॥ ३८ ॥
विश्वास-प्रस्तुतिः
नातः परतरा काचित्त्रैलोक्ये सचराचरे
पठनाच्छ्रवणाद्राजन्वाजपेयफलं लभेत् ॥ ३९ ॥
मूलम्
नातः परतरा काचित्त्रैलोक्ये सचराचरे
पठनाच्छ्रवणाद्राजन्वाजपेयफलं लभेत् ॥ ३९ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे चैत्रशुक्ला कामदानाम सप्तचत्वारिंशोऽध्यायः ४७