युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
फाल्गुनस्य सिते पक्षे श्रुता चामलकी तथा
चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत् ॥ १ ॥
मूलम्
फाल्गुनस्य सिते पक्षे श्रुता चामलकी तथा
चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत् ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
शृणु राजेन्द्र वक्ष्यामि आख्यानं पापनाशनम्
यल्लोमशोऽब्रवीत्पृष्टो मान्धात्रा चक्रवर्तिना ॥ २ ॥
मूलम्
श्रीकृष्ण उवाच-
शृणु राजेन्द्र वक्ष्यामि आख्यानं पापनाशनम्
यल्लोमशोऽब्रवीत्पृष्टो मान्धात्रा चक्रवर्तिना ॥ २ ॥
विश्वास-प्रस्तुतिः
मान्धातोवाच -
भगवन्श्रोतुमिच्छामि लोकानां हितकाम्यया
चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेत्
को विधिः किं फलं तस्याः कथयस्व प्रसादतः ॥ ३ ॥
मूलम्
मान्धातोवाच -
भगवन्श्रोतुमिच्छामि लोकानां हितकाम्यया
चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेत्
को विधिः किं फलं तस्याः कथयस्व प्रसादतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
लोमश उवाच-
चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी
एकादशी समाख्याता पिशाचत्वविनाशिनी ॥ ४ ॥
मूलम्
लोमश उवाच-
चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी
एकादशी समाख्याता पिशाचत्वविनाशिनी ॥ ४ ॥
विश्वास-प्रस्तुतिः
शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप
कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम् ॥ ५ ॥
मूलम्
शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप
कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
पुरा चैत्ररथोद्देशे अप्सरोगणसेविते
वसन्तसमये प्राप्ते षट्पदाकुलिते वने ॥ ६ ॥
मूलम्
पुरा चैत्ररथोद्देशे अप्सरोगणसेविते
वसन्तसमये प्राप्ते षट्पदाकुलिते वने ॥ ६ ॥
विश्वास-प्रस्तुतिः
गन्धर्वकन्यावादित्रै रमन्ति सह किन्नरैः
पाकशासनमुख्याश्च क्रीडान्ते त्रिदिवौकसः ॥ ७ ॥
मूलम्
गन्धर्वकन्यावादित्रै रमन्ति सह किन्नरैः
पाकशासनमुख्याश्च क्रीडान्ते त्रिदिवौकसः ॥ ७ ॥
विश्वास-प्रस्तुतिः
नापरं सुखदं किञ्चिद्विना चैत्ररथाद्वनम्
तस्मिन्वने तु मुनयस्तपन्ति बहुलं तपः ॥ ८ ॥
मूलम्
नापरं सुखदं किञ्चिद्विना चैत्ररथाद्वनम्
तस्मिन्वने तु मुनयस्तपन्ति बहुलं तपः ॥ ८ ॥
विश्वास-प्रस्तुतिः
मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम्
अप्सरास्तं मुनिवरं मोहनायोपचक्रमे ॥ ९ ॥
मूलम्
मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम्
अप्सरास्तं मुनिवरं मोहनायोपचक्रमे ॥ ९ ॥
विश्वास-प्रस्तुतिः
मञ्जुघोषेति विख्याता भावं तस्य वितन्वती
क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ ॥ १० ॥
मूलम्
मञ्जुघोषेति विख्याता भावं तस्य वितन्वती
क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ ॥ १० ॥
विश्वास-प्रस्तुतिः
गायन्ती मधुरं साधु पीडयन्ती विपञ्चिकाम्
गायन्तीं तामथालोक्य पुष्पचन्दनसेविताम् ॥ ११ ॥
मूलम्
गायन्ती मधुरं साधु पीडयन्ती विपञ्चिकाम्
गायन्तीं तामथालोक्य पुष्पचन्दनसेविताम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
कामोऽपि विजयाकाङ्क्षी शिवभक्तान्मुनीश्वरान्
तस्याः शरीरे संवासमकरोन्मनसः सुतः ॥ १२ ॥
मूलम्
कामोऽपि विजयाकाङ्क्षी शिवभक्तान्मुनीश्वरान्
तस्याः शरीरे संवासमकरोन्मनसः सुतः ॥ १२ ॥
विश्वास-प्रस्तुतिः
कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम्
मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् ॥ १३ ॥
मूलम्
कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम्
मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे
मञ्जुघोषाभवत्तस्य कामस्यैव वरूथिनी ॥ १४ ॥
मूलम्
कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे
मञ्जुघोषाभवत्तस्य कामस्यैव वरूथिनी ॥ १४ ॥
विश्वास-प्रस्तुतिः
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता
यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते ॥ १५ ॥
मूलम्
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता
यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते ॥ १५ ॥
विश्वास-प्रस्तुतिः
सितोपवीतसहितो दृष्टः स्मर इवापरः
मेधावी वसते चासौ च्यवनस्याश्रमे शुभे ॥ १६ ॥
मूलम्
सितोपवीतसहितो दृष्टः स्मर इवापरः
मेधावी वसते चासौ च्यवनस्याश्रमे शुभे ॥ १६ ॥
विश्वास-प्रस्तुतिः
मञ्जुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुङ्गवम्
मदनस्य वशं प्राप्ता मन्दं मन्दमगायत ॥ १७ ॥
मूलम्
मञ्जुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुङ्गवम्
मदनस्य वशं प्राप्ता मन्दं मन्दमगायत ॥ १७ ॥
विश्वास-प्रस्तुतिः
रणद्वलयसंयुक्तां शिञ्जन्नूपुरमेखलाम्
गायन्तीं तां तथाभूतां विलोक्य मुनिपुङ्गवः ॥ १८ ॥
मूलम्
रणद्वलयसंयुक्तां शिञ्जन्नूपुरमेखलाम्
गायन्तीं तां तथाभूतां विलोक्य मुनिपुङ्गवः ॥ १८ ॥
विश्वास-प्रस्तुतिः
मदनेन ससैन्येन नीतो मोहवशं बलात्
मञ्जुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम् ॥ १९ ॥
मूलम्
मदनेन ससैन्येन नीतो मोहवशं बलात्
मञ्जुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
हावभावकटाक्षैस्तं मोहयामास चाङ्गना
अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम् ॥ २० ॥
मूलम्
हावभावकटाक्षैस्तं मोहयामास चाङ्गना
अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम् ॥ २० ॥
विश्वास-प्रस्तुतिः
वलितेव लता वृक्षं वातवेगेन कम्पितम्
सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुङ्गवः ॥ २१ ॥
मूलम्
वलितेव लता वृक्षं वातवेगेन कम्पितम्
सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुङ्गवः ॥ २१ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम्
शिवतत्वं गतं तस्य कामतत्त्ववशं गतः ॥ २२ ॥
मूलम्
तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम्
शिवतत्वं गतं तस्य कामतत्त्ववशं गतः ॥ २२ ॥
विश्वास-प्रस्तुतिः
न निशां न दिनं सोऽपि रमन्जानाति कामुकः
बहुवर्षं गतः कालो मुनेराचारलोपतः ॥ २३ ॥
मूलम्
न निशां न दिनं सोऽपि रमन्जानाति कामुकः
बहुवर्षं गतः कालो मुनेराचारलोपतः ॥ २३ ॥
विश्वास-प्रस्तुतिः
मञ्जुघोषा देवलोकगमनायोपचक्रमे
गच्छन्ती तं प्रत्युवाच रमन्तं मुनिसत्तमम्
आदेशो दीयतां ब्रह्मन्स्वदेशगमनाय मे ॥ २४ ॥
मूलम्
मञ्जुघोषा देवलोकगमनायोपचक्रमे
गच्छन्ती तं प्रत्युवाच रमन्तं मुनिसत्तमम्
आदेशो दीयतां ब्रह्मन्स्वदेशगमनाय मे ॥ २४ ॥
विश्वास-प्रस्तुतिः
मेधाव्युवाच-
अद्यैव त्वं समायाता प्रदोषादौ वरानने
यावत्प्रभातसन्ध्या स्यात्तावत्तिष्ठ ममान्तिके
इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा ॥ २५ ॥
मूलम्
मेधाव्युवाच-
अद्यैव त्वं समायाता प्रदोषादौ वरानने
यावत्प्रभातसन्ध्या स्यात्तावत्तिष्ठ ममान्तिके
इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा ॥ २५ ॥
विश्वास-प्रस्तुतिः
पुनर्वै रमयामास तमृषिं नृपसत्तम
मुनेः शापभयाद्भीता बहुलान्परिवत्सरान् ॥ २६ ॥
मूलम्
पुनर्वै रमयामास तमृषिं नृपसत्तम
मुनेः शापभयाद्भीता बहुलान्परिवत्सरान् ॥ २६ ॥
विश्वास-प्रस्तुतिः
वर्षाणां पञ्चपञ्चाशन्नवमासदिनत्रयम्
सा रेमे मुनिना तस्य निशार्द्धमिव चाभवत् ॥ २७ ॥
मूलम्
वर्षाणां पञ्चपञ्चाशन्नवमासदिनत्रयम्
सा रेमे मुनिना तस्य निशार्द्धमिव चाभवत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम्
आदेशो दीयतां ब्रह्मन्गन्तव्यं स्वगृहे मया ॥ २८ ॥
मूलम्
सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम्
आदेशो दीयतां ब्रह्मन्गन्तव्यं स्वगृहे मया ॥ २८ ॥
विश्वास-प्रस्तुतिः
मेधाव्युवाच-
प्रभातमधुना चास्ते श्रूयतां वचनं मम
सन्ध्या यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव ॥ २९ ॥
मूलम्
मेधाव्युवाच-
प्रभातमधुना चास्ते श्रूयतां वचनं मम
सन्ध्या यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव ॥ २९ ॥
विश्वास-प्रस्तुतिः
इति वाक्यं मुनेः श्रुत्वा जातानन्दसमाकुला
स्मितं कृत्वा तु सा किञ्चित्प्रत्युवाच शुचिस्मिता ॥ ३० ॥
मूलम्
इति वाक्यं मुनेः श्रुत्वा जातानन्दसमाकुला
स्मितं कृत्वा तु सा किञ्चित्प्रत्युवाच शुचिस्मिता ॥ ३० ॥
विश्वास-प्रस्तुतिः
अप्सरा उवाच-
कियत्प्रमाणा विप्रेन्द्र तव सन्ध्या गतानघ
मयि प्रसादं कृत्वा तु गतकालो विचार्यताम् ॥ ३१ ॥
मूलम्
अप्सरा उवाच-
कियत्प्रमाणा विप्रेन्द्र तव सन्ध्या गतानघ
मयि प्रसादं कृत्वा तु गतकालो विचार्यताम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः
गतकालस्य विप्रेन्द्र प्रमाणमकरोत्तदा ॥ ३२ ॥
मूलम्
इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः
गतकालस्य विप्रेन्द्र प्रमाणमकरोत्तदा ॥ ३२ ॥
विश्वास-प्रस्तुतिः
समाश्च सप्तपञ्चाशद्गतास्तस्य तया सह
चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह ॥ ३३ ॥
मूलम्
समाश्च सप्तपञ्चाशद्गतास्तस्य तया सह
चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह ॥ ३३ ॥
विश्वास-प्रस्तुतिः
नेत्राभ्यां विस्फुलिङ्गान्स मुञ्चमानोऽतिकोपनः
कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम् ॥ ३४ ॥
मूलम्
नेत्राभ्यां विस्फुलिङ्गान्स मुञ्चमानोऽतिकोपनः
कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
दुःखार्जितं क्षयं नीतं तपोदृष्ट्वातयासह
सकम्पोष्ठो मुनिस्तत्रप्रत्युवाचाकुलेन्द्रियः ॥ ३५ ॥
मूलम्
दुःखार्जितं क्षयं नीतं तपोदृष्ट्वातयासह
सकम्पोष्ठो मुनिस्तत्रप्रत्युवाचाकुलेन्द्रियः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तां शशापाथमेधावी त्वं पिशाची भवेति च
धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये ॥ ३६ ॥
मूलम्
तां शशापाथमेधावी त्वं पिशाची भवेति च
धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तस्य शापेन सा दग्धा विनयावनता स्थिता
उवाच वचनं सुभ्रूः प्रसादं वाञ्छती मुनिम्
प्रसादं कुरु विप्रेन्द्र शापस्यानुग्रहं कुरु ॥ ३७ ॥
मूलम्
तस्य शापेन सा दग्धा विनयावनता स्थिता
उवाच वचनं सुभ्रूः प्रसादं वाञ्छती मुनिम्
प्रसादं कुरु विप्रेन्द्र शापस्यानुग्रहं कुरु ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सतां सङ्गो हि भवति वचोभिः सप्तभिः पदैः
त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः
एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत ॥ ३८ ॥
मूलम्
सतां सङ्गो हि भवति वचोभिः सप्तभिः पदैः
त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः
एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत ॥ ३८ ॥
विश्वास-प्रस्तुतिः
मुनिरुवाच-
शृणु मे वचनं भद्रे शापानुग्रहकारकम्
किं करोमि त्वया पापे क्षयं नीतं महत्तपः ॥ ३९ ॥
मूलम्
मुनिरुवाच-
शृणु मे वचनं भद्रे शापानुग्रहकारकम्
किं करोमि त्वया पापे क्षयं नीतं महत्तपः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा
पापमोचनिका नाम सर्वपापक्षयङ्करी ॥ ४० ॥
मूलम्
चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा
पापमोचनिका नाम सर्वपापक्षयङ्करी ॥ ४० ॥
विश्वास-प्रस्तुतिः
तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति
इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम् ॥ ४१ ॥
मूलम्
तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति
इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तमागतं समालोक्य च्यवनः प्रत्युवाचतम्
किमेतद्विहितं पुत्र त्वया पुण्यं क्षयं कृतम् ॥ ४२ ॥
मूलम्
तमागतं समालोक्य च्यवनः प्रत्युवाचतम्
किमेतद्विहितं पुत्र त्वया पुण्यं क्षयं कृतम् ॥ ४२ ॥
विश्वास-प्रस्तुतिः
मेधाव्युवाच-
पातकं वै कृतं तात रमिता चाप्सरा मया
प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ॥ ४३ ॥
मूलम्
मेधाव्युवाच-
पातकं वै कृतं तात रमिता चाप्सरा मया
प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ॥ ४३ ॥
विश्वास-प्रस्तुतिः
च्यवन उवाच-
चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी
अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत् ॥ ४४ ॥
मूलम्
च्यवन उवाच-
चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी
अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम्
गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः ॥ ४५ ॥
मूलम्
इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम्
गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
साप्येवं मञ्जुघोषा च कृत्वैतद्व्रतमुत्तमम्
पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकाव्रतात्
दिव्यरूपधरा सा वै गता नाके वराप्सराः ॥ ४६ ॥
मूलम्
साप्येवं मञ्जुघोषा च कृत्वैतद्व्रतमुत्तमम्
पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकाव्रतात्
दिव्यरूपधरा सा वै गता नाके वराप्सराः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
लोमश उवाच-
पापमोचनिकां राजन्ये कुर्वन्ति नरोत्तमाः
तेषां पापं च यत्किञ्चित्तत्सर्वं च क्षयं व्रजेत् ॥ ४७ ॥
मूलम्
लोमश उवाच-
पापमोचनिकां राजन्ये कुर्वन्ति नरोत्तमाः
तेषां पापं च यत्किञ्चित्तत्सर्वं च क्षयं व्रजेत् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ ४८ ॥
मूलम्
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
व्रतस्य चास्य करणात्पापमुक्ता भवन्ति ते
बहुपुण्यप्रदं ह्येतत्करणाद्व्रतमुत्तमम् ॥ ४९ ॥
मूलम्
व्रतस्य चास्य करणात्पापमुक्ता भवन्ति ते
बहुपुण्यप्रदं ह्येतत्करणाद्व्रतमुत्तमम् ॥ ४९ ॥
इति श्री पाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे चैत्रकृष्णैकादशी पापमोचनीनाम षट्चत्वारिंशोऽध्यायः ४६