श्रीकृष्ण उवाच-
विश्वास-प्रस्तुतिः
माहात्म्यं विजयायाश्च श्रुतं कृष्ण महत्फलम्
फाल्गुनस्यार्जुने पक्षे यन्नाम्नी तां वदाधुना ॥ १ ॥
मूलम्

धर्मपुत्र महाभाग शृणु वक्ष्यामितेऽधुना
योक्ता पृष्टेन मान्धात्रा वसिष्ठेन महात्मना ॥ २ ॥

फाल्गुनस्य विशेषेण विशेषः कथितो नृप
आमलकीव्रतं पुण्यं विष्णुलोकफलप्रदम् ॥ ३ ॥

आमलक्यास्तले गत्वा जागरं तत्र कारयेत्
कृत्वा जागरणं रात्रौ गोसहस्रफलं लभेत् ॥ ४ ॥

मान्धातोवाच -
आमलकी कदा ह्येषा उत्पन्ना द्विजसत्तम
एतत्सर्वं ममाचक्ष्व परं कौतूहलं हि मे ॥ ५ ॥

कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी
कस्माज्जागरणं कृत्वा गोसहस्रफलं लभेत् ॥ ६ ॥

वसिष्ठ उवाच-
कथयामि महाभाग यथेयमभवत्क्षितौ
आमलकी महावृक्षः सर्वपापप्रणाशनः ॥ ७ ॥
मूलम्
वसिष्ठ उवाच-
कथयामि महाभाग यथेयमभवत्क्षितौ
आमलकी महावृक्षः सर्वपापप्रणाशनः ॥ ७ ॥
विश्वास-प्रस्तुतिः
एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे ॥ ८ ॥

तत्र देवादिदेवेशः परमात्मा सनातनः
जगाम ब्रह्मपरममात्मनः पदमव्ययम् ॥ ९ ॥
मूलम्
तत्र देवादिदेवेशः परमात्मा सनातनः
जगाम ब्रह्मपरममात्मनः पदमव्ययम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
ततोऽस्य जाग्रतो ब्रह्ममुखाच्छशिसमप्रभः
ष्ठीवनाद्बिन्दुरुत्पन्नः स भूमौ निपपात ह ॥ १० ॥

तस्माद्बिन्दोः समुत्पन्नः स्वयं धात्री नगो महान्
शाखाप्रशाखाबहुलः फलभारेण नामितः ॥ ११ ॥

सर्वेषां चैव वृक्षाणामादिरोहः प्रकीर्तितः
ब्रह्मणाथ ततः पश्चात्संसृष्टाश्च इमाः प्रजाः ॥ १२ ॥

देवदानवगन्धर्वयक्षराक्षसपन्नगान्
असृजद्भगवान्देवो महर्षींश्च तथामलान् ॥ १३ ॥

आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया
तां दृष्ट्वा ते महाभाग परं विस्मयमागताः ॥ १४ ॥

न जानीम इमं वृक्षं चिन्तयन्तोऽभिसंस्थिताः
एवं चिन्तयतां तेषां वागुवाचाशरीरिणी ॥ १५ ॥

आमलकी नगो ह्येष प्रवरो वैष्णवो मतः
अस्य संस्मरणादेव लभेद्गोदानजं फलम् ॥ १६ ॥

स्पर्शनाद्द्विगुणं पुण्यं त्रिगुणं धारणात्तथा
तस्मात्सर्वप्रयत्नेन सेव्या आमलकी सदा ॥ १७ ॥

सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी
तस्या मूले स्थितो विष्णुस्तदूर्ध्वे च पितामहः ॥ १८ ॥

स्कन्धे च भगवान्रुद्रः संस्थितः परमेश्वरः
शाखासु मुनयः सर्वे प्रशाखासु च देवताः ॥ १९ ॥

पर्णेषु चासते देवाः पुष्पेषु मरुतस्तथा
प्रजानां पतयः सर्वे फलेष्वेव व्यवस्थिताः ॥ २० ॥

सर्वदेवमयी ह्येषा धात्री च कथिता मया
तस्मात्पूज्यतमा ह्येषा विष्णुभक्तिपरायणैः ॥ २१ ॥

ऋषय ऊचुः -
को भवान्न हि जानीमः कस्मात्कारणतां गतः
देवो वा यदि वा चान्यः कथयस्व यथातथम् ॥ २२ ॥

वागुवाच -
यः कर्ता सर्वभूतानां भुवनानां च सर्वशः
विस्मितान्विदुषः प्रेक्ष्य सोऽहं विष्णुः सनातनः ॥ २३ ॥

तच्छ्रुत्वा देवदेवस्य भाषितं ब्रह्मणः सुताः
अनादिनिधनं देवं स्तोतुं तत्र प्रचक्रमुः ॥ २४ ॥

नमो भूतात्मभूताय आत्मने परमात्मने
अच्युताय नमो नित्यमनन्ताय नमो नमः ॥ २५ ॥

दामोदराय कवये यज्ञेशाय नमो नमः
एवं स्तुतस्तु ऋषिभिस्तुतोष भगवान्हरिः ॥ २६ ॥

प्रत्युवाच महर्षींस्तानभीष्टं किं ददामि वः
ऋषय ऊचुः
यदि तुष्टोऽसि भगवन्नस्माकं हितकाम्यया ॥ २७ ॥

व्रतं किञ्चित्समाख्याहि स्वर्गमोक्षफलप्रदम्
धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारकम् ॥ २८ ॥

अल्पायासं बहुफलं व्रतानामुत्तमं व्रतम्
कृतेन येन देवेश विष्णुलोके महीयते ॥ २९ ॥

विष्णुरुवाच-
फाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि
भवेत्सा च महापुण्या महापातकनाशिनी ॥ ३० ॥

विशेषस्तत्र कर्त्तव्यः शृणुध्वं द्विजसत्तमाः
आमलकीं च सम्प्राप्य जागरं तत्र कारयेत् ॥ ३१ ॥

सर्वपापविनिर्मुक्तो गोसहस्रफलं लभेत्
एतद्वः कथितं विप्रा व्रतानां व्रतमुत्तमम्
अर्चयित्वाच्युतं तस्यां विष्णुलोकान्न मुच्यते ॥ ३२ ॥

व्रतस्यास्य विधिं ब्रूहि परिपूर्णं कथं भवेत्
के मन्त्राः के नमस्काराः देवता का प्रकीर्तिता ॥ ३३ ॥

कथं दानं कथं स्नानं कश्च पूजाविधिः स्मृतः
अर्घार्चनस्य मन्त्रं तु कथयस्व यथातथम् ॥ ३४ ॥

श्रूयतां यो विधिः सम्यग्व्रतस्यास्य द्विजर्षभाः
एकादश्यां निराहारः स्थित्वा चैव परेऽहनि ॥ ३५ ॥

भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत
इति कृत्वा तु नियमं दन्तधावनपूर्वकम् ॥ ३६ ॥

नालपेत्पतितांश्चौरांस्तथा पाषण्डिनो नरान्
दुर्वृत्तान्भिन्नमर्यादान्गुरुदारप्रधर्षकान् ॥ ३७ ॥

अपराह्णे ततः स्नानं विधिना कारयेद्बुधः
नद्यां तडागे कूपे वा गृहे वा नियतात्मवान् ॥ ३८ ॥

मृत्तिकालम्भनं पूर्वं ततः स्नानं च कारयेत्
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥ ३९ ॥

मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ४० इति मृत्तिकामन्त्रः -
त्वमम्बु सर्वभूतानां जीवनं तनुरक्षकम्
स्वेदजोद्भिज्जजातीनां रसानां पतये नमः ॥ ४१ ॥

स्नातोऽहं सर्वतीर्थेषु ह्रदप्रस्रवणेषु च
नदीषु देवखातेषु इदं स्नानं तु मे भवेत् ४२ इति स्नानमन्त्रः
जामदग्न्यं मुनिं चैव कारयित्वा हिरण्मयम्
माषकस्य सुवर्णस्य तदर्द्धार्द्धेन वा पुनः ॥ ४३ ॥

गृहमागत्य पूजायाः पूजाहोमं तु कारयेत्
ततश्चामलकीं गच्छेत्सर्वोपस्करसंयुतः ॥ ४४ ॥

आमलकीं ततो गत्वा परिशोध्य समन्ततः
स्थापयेत्सततं कुम्भमव्रणं मन्त्रपूर्वकम् ॥ ४५ ॥

पञ्चरत्नसमोपेतं दिव्यगन्धाधिवासितम्
छत्रोपानद्युगोपेतं सितचन्दनचर्चितम् ॥ ४६ ॥

स्रग्दामलम्बितग्रीवं सर्वधूपविधूपितम्
दीपमालाकुलं कुर्यात्सर्वतः सुमनोहरम् ॥ ४७ ॥

तस्योपरि न्यसेत्पात्रं दिव्यलाजैः प्रपूरितम्
पात्रोपरि न्यसेद्देवं जामदग्न्यं महाप्रभम् ॥ ४८ ॥

विशोकाय नमः पादौ जानुनी विश्वरूपिणे
उग्राय च ततोऽप्यूरू कटी दामोदराय च ॥ ४९ ॥

उदरं पद्मनाभाय उरः श्रीवत्सधारिणे
चक्रिणे वामबाहुं च दक्षिणं गदिने नमः 6.45.॥ ५० ॥

वैकुण्ठाय नमः कण्ठमास्यं यज्ञमुखाय वै
नासां विशोकनिधये वासुदेवाय चाक्षिणी ॥ ५१ ॥

ललाटं वामनायेति रामायेति भ्रुवौ नमः
सर्वात्मने तु तच्छीर्षं नम इत्यभिपूजयेत् ५२ इति पूजामन्त्रः
ततो देवाधिदेवाय अर्घं चैव प्रदापयेत्
फलेन चैव शुभ्रेण भक्तियुक्तेन चेतसा ॥ ५३ ॥

ततो जागरणं कुर्याद्भक्तियुक्तेन चेतसा
नृत्यैर्गीतैश्च वादित्रैर्द्धर्माख्यानैः स्तवैरपि ॥ ५४ ॥

वैष्णवैश्च तथाख्यानैः क्षपयेत्सर्वशर्वरीम्
प्रदक्षिणां ततः कुर्याद्धात्र्या वै विष्णुनामभिः ॥ ५५ ॥

अष्टाधिकं शतं चैव अष्टाविंशतिरेव वा
ततः प्रभाते समये कृत्वा नीराजनं हरेः ॥ ५६ ॥

ब्राह्मणं पूजयित्वा तु सर्वं तस्मै निवेदयेत्
जामदग्न्य घटे तत्र वस्त्रयुग्ममुपानहौ ॥ ५७ ॥

जामदग्न्यस्वरूपेण प्रीयतां मम केशवः
ततश्चामलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम् ॥ ५८ ॥

स्नानं कृत्वा विधानेन ब्राह्मणान्भोजयेत्ततः
ततश्च स्वयमश्नीयात्कुटुम्बेन समावृतः ॥ ५९ ॥

एवं कृतेन यत्पुण्यं तत्सर्वं कथयामि ते
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ॥ ६० ॥

सर्वयज्ञाधिकं चैव लभते नात्र संशयः
एतद्वः सर्वमाख्यातं व्रतानामुत्तमं व्रतम् ॥ ६१ ॥

एतावदुक्त्वा देवेशस्तत्रैवान्तरधीयत
ते चापि ऋषयः सर्वे चक्रुः सर्वमशेषतः ॥ ६२ ॥

तथा त्वमपि राजेन्द्र कर्तुमर्हसि सत्तम
व्रतमेतद्दुराधर्षं सर्वपापप्रमोचनम् ॥ ६३ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे फाल्गुनशुक्लामलक्येकादशीनाम पञ्चचत्वारिंशोऽध्यायः४५