युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
फाल्गुनस्यासिते पक्षे किन्नामैकादशीभवेत्
कथयस्व प्रसादेन वासुदेव ममाग्रतः ॥ १ ॥
मूलम्
फाल्गुनस्यासिते पक्षे किन्नामैकादशीभवेत्
कथयस्व प्रसादेन वासुदेव ममाग्रतः ॥ १ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच-
नारदः परिपप्रच्छ ब्रह्माणं कमलासनम्
फाल्गुनस्यासिते पक्षे विजयानाम नामतः
तस्याः पुण्यं द्विजश्रेष्ठ कथयस्व प्रसादतः ॥ २ ॥
मूलम्
श्रीकृष्ण उवाच-
नारदः परिपप्रच्छ ब्रह्माणं कमलासनम्
फाल्गुनस्यासिते पक्षे विजयानाम नामतः
तस्याः पुण्यं द्विजश्रेष्ठ कथयस्व प्रसादतः ॥ २ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
शृणु नारद वक्ष्यामि कथां पापहराम्पराम्
यन्न कस्यचिदाख्यातं मयैतद्विजयाव्रतम् ॥ ३ ॥
मूलम्
ब्रह्मोवाच-
शृणु नारद वक्ष्यामि कथां पापहराम्पराम्
यन्न कस्यचिदाख्यातं मयैतद्विजयाव्रतम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
पुरातनं व्रतं ह्येतत्पवित्रं पापनाशनम्
जयं ददाति विजया नृपाणां वै न संशयः ॥ ४ ॥
मूलम्
पुरातनं व्रतं ह्येतत्पवित्रं पापनाशनम्
जयं ददाति विजया नृपाणां वै न संशयः ॥ ४ ॥
विश्वास-प्रस्तुतिः
पुरा रामो वनं यातो वर्षाण्येव चतुर्दश
न्यवसत्पञ्चवट्यां तु सहसीतः सलक्ष्मणः ॥ ५ ॥
मूलम्
पुरा रामो वनं यातो वर्षाण्येव चतुर्दश
न्यवसत्पञ्चवट्यां तु सहसीतः सलक्ष्मणः ॥ ५ ॥
विश्वास-प्रस्तुतिः
तत्रैव वसतस्तस्य रामस्य विजयात्मनः
रावणेन हृता लौल्याद्भार्या सीता यशस्विनी ॥ ६ ॥
मूलम्
तत्रैव वसतस्तस्य रामस्य विजयात्मनः
रावणेन हृता लौल्याद्भार्या सीता यशस्विनी ॥ ६ ॥
विश्वास-प्रस्तुतिः
तेन दुःखेन रामोऽपि मोहमभ्यागतस्तदा
भ्रमन्जटायुषमथो ददर्श विगतायुषम् ॥ ७ ॥
मूलम्
तेन दुःखेन रामोऽपि मोहमभ्यागतस्तदा
भ्रमन्जटायुषमथो ददर्श विगतायुषम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
कबन्धो निहतः पश्चाद्भ्रमतारण्यमध्यतः
सुग्रीवेण समं तस्य सखित्वं समपद्यत ॥ ८ ॥
मूलम्
कबन्धो निहतः पश्चाद्भ्रमतारण्यमध्यतः
सुग्रीवेण समं तस्य सखित्वं समपद्यत ॥ ८ ॥
विश्वास-प्रस्तुतिः
वानराणामनीकानि रामार्थंसङ्गतानि च
ततो हनुमता दृष्टा लङ्कोद्याने तु जानकी ॥ ९ ॥
मूलम्
वानराणामनीकानि रामार्थंसङ्गतानि च
ततो हनुमता दृष्टा लङ्कोद्याने तु जानकी ॥ ९ ॥
विश्वास-प्रस्तुतिः
रामसञ्ज्ञापनं तस्यै दत्तं कर्म महत्कृतम्
पुनः समेत्य रामेण सर्वं तत्र निवेदितम् ॥ १० ॥
मूलम्
रामसञ्ज्ञापनं तस्यै दत्तं कर्म महत्कृतम्
पुनः समेत्य रामेण सर्वं तत्र निवेदितम् ॥ १० ॥
विश्वास-प्रस्तुतिः
अथ श्रुत्वा रामचन्द्रो वाक्यं चैव हनूमतः
सुग्रीवानुमतेनैव प्रस्थानं समरोचयत् ॥ ११ ॥
मूलम्
अथ श्रुत्वा रामचन्द्रो वाक्यं चैव हनूमतः
सुग्रीवानुमतेनैव प्रस्थानं समरोचयत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
सौमित्रेकेन पुण्येन तीर्यते वरुणालयः
अगाधो नितरामेष यादोभिश्च समाकुलः
उपायं नैव पश्यामि येनासौ सुतरो भवेत् ॥ १२ ॥
मूलम्
सौमित्रेकेन पुण्येन तीर्यते वरुणालयः
अगाधो नितरामेष यादोभिश्च समाकुलः
उपायं नैव पश्यामि येनासौ सुतरो भवेत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
लक्ष्मण उवाच-
आदिदेवस्त्वमेवासि पुराणपुरुषोत्तमः
बकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः ॥ १३ ॥
मूलम्
लक्ष्मण उवाच-
आदिदेवस्त्वमेवासि पुराणपुरुषोत्तमः
बकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
अस्मात्स्थानाद्योजनार्द्धमाश्रमस्तस्य राघव
अन्ये च ब्राह्मणास्तत्र बहवो रघुनन्दन ॥ १४ ॥
मूलम्
अस्मात्स्थानाद्योजनार्द्धमाश्रमस्तस्य राघव
अन्ये च ब्राह्मणास्तत्र बहवो रघुनन्दन ॥ १४ ॥
विश्वास-प्रस्तुतिः
तं पृच्छ गत्वा राजेन्द्र पुराणमृषिपुङ्गवम्
इति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम् ॥ १५ ॥
मूलम्
तं पृच्छ गत्वा राजेन्द्र पुराणमृषिपुङ्गवम्
इति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
जगाम राघवो द्रष्टुं बकदाल्भ्यं महामुनिम्
प्रणनाम मुनिं मूर्ध्ना रामो विष्णुमिवामरः ॥ १६ ॥
मूलम्
जगाम राघवो द्रष्टुं बकदाल्भ्यं महामुनिम्
प्रणनाम मुनिं मूर्ध्ना रामो विष्णुमिवामरः ॥ १६ ॥
विश्वास-प्रस्तुतिः
ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुषोत्तमम्
केनापि कारणेनैव प्रविष्टो मानुषीं तनुम् ॥ १७ ॥
मूलम्
ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुषोत्तमम्
केनापि कारणेनैव प्रविष्टो मानुषीं तनुम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
उवाच स ऋषिस्तुष्टः कुतो राम तवागमः ॥ १८ ॥
मूलम्
उवाच स ऋषिस्तुष्टः कुतो राम तवागमः ॥ १८ ॥
विश्वास-प्रस्तुतिः
राम उवाच-
त्वत्प्रसादादहं विप्र तीरं नदनदीपतेः
आगतोऽस्मि ससैन्योऽत्र लङ्कां जेतुं सराक्षसाम् ॥ १९ ॥
मूलम्
राम उवाच-
त्वत्प्रसादादहं विप्र तीरं नदनदीपतेः
आगतोऽस्मि ससैन्योऽत्र लङ्कां जेतुं सराक्षसाम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
भवतश्चानुकूलत्वात्तीर्यतेऽब्धिर्यथा मया
तमुपायं वद मुने प्रसादं कुरु साम्प्रतम् ॥ २० ॥
मूलम्
भवतश्चानुकूलत्वात्तीर्यतेऽब्धिर्यथा मया
तमुपायं वद मुने प्रसादं कुरु साम्प्रतम् ॥ २० ॥
विश्वास-प्रस्तुतिः
एतस्मात्कारणादेव द्रष्टुं त्वाहमिहागतः
रामस्य वचनं श्रुत्वा बकदाल्भ्यो महामुनिः ॥ २१ ॥
मूलम्
एतस्मात्कारणादेव द्रष्टुं त्वाहमिहागतः
रामस्य वचनं श्रुत्वा बकदाल्भ्यो महामुनिः ॥ २१ ॥
विश्वास-प्रस्तुतिः
उवाच सुप्रसन्नात्मा रामं राजीवलोचनम्
कर्तव्यमद्य ते राम व्रतानां व्रतमुत्तमम् ॥ २२ ॥
मूलम्
उवाच सुप्रसन्नात्मा रामं राजीवलोचनम्
कर्तव्यमद्य ते राम व्रतानां व्रतमुत्तमम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
कृतेन येन सहसा विजयस्ते भविष्यति
लङ्कां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि ॥ २३ ॥
मूलम्
कृतेन येन सहसा विजयस्ते भविष्यति
लङ्कां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि ॥ २३ ॥
विश्वास-प्रस्तुतिः
एकाग्रमानसो भूत्वा व्रतमेतत्समाचर
फाल्गुनस्यासिते पक्षे विजयैकादशी भवेत् ॥ २४ ॥
मूलम्
एकाग्रमानसो भूत्वा व्रतमेतत्समाचर
फाल्गुनस्यासिते पक्षे विजयैकादशी भवेत् ॥ २४ ॥
विश्वास-प्रस्तुतिः
तस्या व्रतेन हे राम विजयस्ते भविष्यति
निःसंशयं समुद्रं त्वं तरिष्यसि सवानरः ॥ २५ ॥
मूलम्
तस्या व्रतेन हे राम विजयस्ते भविष्यति
निःसंशयं समुद्रं त्वं तरिष्यसि सवानरः ॥ २५ ॥
विश्वास-प्रस्तुतिः
विधिस्तु श्रूयतां राजन्व्रतस्यास्य फलप्रदः
दशम्यां दिवसे प्राप्ते कुम्भमेकं तु कारयेत् ॥ २६ ॥
मूलम्
विधिस्तु श्रूयतां राजन्व्रतस्यास्य फलप्रदः
दशम्यां दिवसे प्राप्ते कुम्भमेकं तु कारयेत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
हैमं वा राजतं वापि ताम्रं वाप्यथ मृन्मयम्
स्थापयेच्छोभितं चैव जलपूर्णं सपल्लवम् ॥ २७ ॥
मूलम्
हैमं वा राजतं वापि ताम्रं वाप्यथ मृन्मयम्
स्थापयेच्छोभितं चैव जलपूर्णं सपल्लवम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सप्तधान्यान्यधस्तस्य यवानुपरि विन्यसेत्
तस्योपरि न्यसेद्देवं हैमं नारायणं प्रभुम् ॥ २८ ॥
मूलम्
सप्तधान्यान्यधस्तस्य यवानुपरि विन्यसेत्
तस्योपरि न्यसेद्देवं हैमं नारायणं प्रभुम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
एकादशीदिने प्राप्ते प्रातः स्नानं समाचरेत्
निश्चलं स्थापयेत्कुम्भं कण्ठमाल्यानुलेपनैः ॥ २९ ॥
मूलम्
एकादशीदिने प्राप्ते प्रातः स्नानं समाचरेत्
निश्चलं स्थापयेत्कुम्भं कण्ठमाल्यानुलेपनैः ॥ २९ ॥
विश्वास-प्रस्तुतिः
पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतः
गन्धैर्धूपैश्चदीपैश्च नैवेद्यैर्विविधैरपि ॥ ३० ॥
मूलम्
पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतः
गन्धैर्धूपैश्चदीपैश्च नैवेद्यैर्विविधैरपि ॥ ३० ॥
विश्वास-प्रस्तुतिः
कुम्भाग्रे तद्दिनं राम नीयते सत्कथादिभिः
रात्रौ जागरणं चैव तस्याग्रे कारयेद्बुधः ॥ ३१ ॥
मूलम्
कुम्भाग्रे तद्दिनं राम नीयते सत्कथादिभिः
रात्रौ जागरणं चैव तस्याग्रे कारयेद्बुधः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
प्रकाशयेद्घृतदीपमखण्डव्रतहेतवे
द्वादशीदिवसे प्राप्ते मार्तण्डस्योदये सति ॥ ३२ ॥
मूलम्
प्रकाशयेद्घृतदीपमखण्डव्रतहेतवे
द्वादशीदिवसे प्राप्ते मार्तण्डस्योदये सति ॥ ३२ ॥
विश्वास-प्रस्तुतिः
नीत्वा कुम्भं जलोद्देशे नद्याः प्रस्रवणे तथा
तडागे स्थापयित्वा तं पूजयित्वा यथाविधि ॥ ३३ ॥
मूलम्
नीत्वा कुम्भं जलोद्देशे नद्याः प्रस्रवणे तथा
तडागे स्थापयित्वा तं पूजयित्वा यथाविधि ॥ ३३ ॥
विश्वास-प्रस्तुतिः
दद्यात्सदेवं तं कुम्भं ब्राह्मणे वेदपारगे
कुम्भेन सह राजेन्द्र महादानानि दापयेत् ॥ ३४ ॥
मूलम्
दद्यात्सदेवं तं कुम्भं ब्राह्मणे वेदपारगे
कुम्भेन सह राजेन्द्र महादानानि दापयेत् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अनेनविधिना राम यूथपैः सह सङ्गतः
कुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति ॥ ३५ ॥
मूलम्
अनेनविधिना राम यूथपैः सह सङ्गतः
कुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति ॥ ३५ ॥
विश्वास-प्रस्तुतिः
इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदा
कृते व्रते स विजयी बभूव रघुनन्दनः ॥ ३६ ॥
मूलम्
इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदा
कृते व्रते स विजयी बभूव रघुनन्दनः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्राप्ता सीता जिता लङ्का पौलस्त्यो निहतो रणे
अनेनविधिना पुत्र ये कुर्वन्ति नरा व्रतम् ॥ ३७ ॥
मूलम्
प्राप्ता सीता जिता लङ्का पौलस्त्यो निहतो रणे
अनेनविधिना पुत्र ये कुर्वन्ति नरा व्रतम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
इहलोकजयप्राप्तिः परलोकस्तथाक्षयः
एतस्मात्कारणात्पुत्र कर्तव्यं विजयाव्रतम् ॥ ३८ ॥
मूलम्
इहलोकजयप्राप्तिः परलोकस्तथाक्षयः
एतस्मात्कारणात्पुत्र कर्तव्यं विजयाव्रतम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनम्
पठनाच्छ्रवणाच्चैव वाजपेयफलं लभेत् ॥ ३९ ॥
मूलम्
विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनम्
पठनाच्छ्रवणाच्चैव वाजपेयफलं लभेत् ॥ ३९ ॥
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे फाल्गुनकृष्णाविजयामाहात्म्यन्नाम चतुश्चत्वारिंशोऽध्यायः ४४