०४३

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

साधु कृष्ण त्वया प्रोक्तमादिदेवो भवान्प्रभो
स्वेदजा अण्डजाश्चैव उद्भिज्जाश्च जरायुजाः ॥ १ ॥

मूलम्

साधु कृष्ण त्वया प्रोक्तमादिदेवो भवान्प्रभो
स्वेदजा अण्डजाश्चैव उद्भिज्जाश्च जरायुजाः ॥ १ ॥

विश्वास-प्रस्तुतिः

तेषां कर्त्ता विकर्त्ता त्वं पालकः क्षयकारकः
माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया ॥ २ ॥

मूलम्

तेषां कर्त्ता विकर्त्ता त्वं पालकः क्षयकारकः
माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया ॥ २ ॥

विश्वास-प्रस्तुतिः

शुक्ले च का भवेद्देव कथयस्व प्रसादतः
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ॥ ३ ॥

मूलम्

शुक्ले च का भवेद्देव कथयस्व प्रसादतः
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ॥ ३ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
कथयिष्यामि राजेन्द्र शुक्ले माघस्य या भवेत्
जया नामेति विख्याता सर्वपापहरा परा ॥ ४ ॥

मूलम्

श्रीकृष्ण उवाच-
कथयिष्यामि राजेन्द्र शुक्ले माघस्य या भवेत्
जया नामेति विख्याता सर्वपापहरा परा ॥ ४ ॥

विश्वास-प्रस्तुतिः

पवित्रा पापहन्त्री च कामदा मोक्षदा नृणाम्
ब्रह्महत्यापहन्त्री च पिशाचत्वविनाशिनी ॥ ५ ॥

मूलम्

पवित्रा पापहन्त्री च कामदा मोक्षदा नृणाम्
ब्रह्महत्यापहन्त्री च पिशाचत्वविनाशिनी ॥ ५ ॥

विश्वास-प्रस्तुतिः

नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणाम्
नातः परतरा काचित्पापघ्नी मोक्षदायिनी ॥ ६ ॥

मूलम्

नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणाम्
नातः परतरा काचित्पापघ्नी मोक्षदायिनी ॥ ६ ॥

विश्वास-प्रस्तुतिः

एतस्मात्कारणाद्राजन्कर्त्तव्या सा प्रयत्नतः
श्रूयतां राजशार्दूल कथा पौराणिकी शुभा ॥ ७ ॥

मूलम्

एतस्मात्कारणाद्राजन्कर्त्तव्या सा प्रयत्नतः
श्रूयतां राजशार्दूल कथा पौराणिकी शुभा ॥ ७ ॥

विश्वास-प्रस्तुतिः

पङ्कजे च पुराणेऽस्या महिमा कथितो मया
एकदा नाकलोके वै इन्द्रो राज्यं चकार ह ॥ ८ ॥

मूलम्

पङ्कजे च पुराणेऽस्या महिमा कथितो मया
एकदा नाकलोके वै इन्द्रो राज्यं चकार ह ॥ ८ ॥

विश्वास-प्रस्तुतिः

देवास्तत्र सुखेनैव निवसन्ति मनोरमे
पीयूषपाननिरता अप्सरोगणसेविताः ॥ ९ ॥

मूलम्

देवास्तत्र सुखेनैव निवसन्ति मनोरमे
पीयूषपाननिरता अप्सरोगणसेविताः ॥ ९ ॥

विश्वास-प्रस्तुतिः

नन्दनं तु वनं तत्र पारिजातोपसेवितम्
रमयन्ति रमन्तेऽत्र अप्सरोभिर्दिवौकसः ॥ १० ॥

मूलम्

नन्दनं तु वनं तत्र पारिजातोपसेवितम्
रमयन्ति रमन्तेऽत्र अप्सरोभिर्दिवौकसः ॥ १० ॥

विश्वास-प्रस्तुतिः

एकदा रममाणोऽसौ देवेन्द्रः स्वेच्छया नृप
नर्त्तयामास वै हर्षात्पञ्चाशत्कोटिनायकः ॥ ११ ॥

मूलम्

एकदा रममाणोऽसौ देवेन्द्रः स्वेच्छया नृप
नर्त्तयामास वै हर्षात्पञ्चाशत्कोटिनायकः ॥ ११ ॥

विश्वास-प्रस्तुतिः

गन्धर्वास्तत्र गायन्ति गन्धर्वः पुष्पदन्तकः
चित्रसेनस्तु तत्रैव चित्रसेनसुता तथा ॥ १२ ॥

मूलम्

गन्धर्वास्तत्र गायन्ति गन्धर्वः पुष्पदन्तकः
चित्रसेनस्तु तत्रैव चित्रसेनसुता तथा ॥ १२ ॥

विश्वास-प्रस्तुतिः

मालिनीति च नाम्ना तु चित्रसेनस्य योषिता
मालिन्यास्तु समुत्पन्ना पुष्पदन्ती च नामतः ॥ १३ ॥

मूलम्

मालिनीति च नाम्ना तु चित्रसेनस्य योषिता
मालिन्यास्तु समुत्पन्ना पुष्पदन्ती च नामतः ॥ १३ ॥

विश्वास-प्रस्तुतिः

पुष्पदन्तस्य पुत्रोऽसौ माल्यवान्नाम नामतः
पुष्पदन्त्याश्च रूपेण माल्यवानतिमोहितः ॥ १४ ॥

मूलम्

पुष्पदन्तस्य पुत्रोऽसौ माल्यवान्नाम नामतः
पुष्पदन्त्याश्च रूपेण माल्यवानतिमोहितः ॥ १४ ॥

विश्वास-प्रस्तुतिः

तया ह्येवं कटाक्षैश्च माल्यवांश्च वशीकृतः
लावण्यं रूपसम्पन्नं तस्या रूपं निशामय ॥ १५ ॥

मूलम्

तया ह्येवं कटाक्षैश्च माल्यवांश्च वशीकृतः
लावण्यं रूपसम्पन्नं तस्या रूपं निशामय ॥ १५ ॥

विश्वास-प्रस्तुतिः

बाहू तस्याश्च कामेन कण्ठपाशौ कृताविव
कर्णायते तु नयने रक्तान्ते घूर्णिते तथा ॥ १६ ॥

मूलम्

बाहू तस्याश्च कामेन कण्ठपाशौ कृताविव
कर्णायते तु नयने रक्तान्ते घूर्णिते तथा ॥ १६ ॥

विश्वास-प्रस्तुतिः

कर्णौ तु शोभनौ तस्याः कुण्डलाभ्यां नृपोत्तम
कम्बुग्रीवायुता सैव दिव्याभरणभूषिता ॥ १७ ॥

मूलम्

कर्णौ तु शोभनौ तस्याः कुण्डलाभ्यां नृपोत्तम
कम्बुग्रीवायुता सैव दिव्याभरणभूषिता ॥ १७ ॥

विश्वास-प्रस्तुतिः

पीनोन्नतौ कुचौ तस्यास्तौ हेमकलशाविव
मध्यं क्षामं च चार्वङ्ग्या मुष्टिग्राह्यमनुत्तमम् ॥ १८ ॥

मूलम्

पीनोन्नतौ कुचौ तस्यास्तौ हेमकलशाविव
मध्यं क्षामं च चार्वङ्ग्या मुष्टिग्राह्यमनुत्तमम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

नितम्बौ विस्तृतौ चास्या विस्तीर्णा जघनस्थली
चरणौ शोभमानौ च रक्तोत्पलसमद्युती ॥ १९ ॥

मूलम्

नितम्बौ विस्तृतौ चास्या विस्तीर्णा जघनस्थली
चरणौ शोभमानौ च रक्तोत्पलसमद्युती ॥ १९ ॥

विश्वास-प्रस्तुतिः

ईदृश्या पुष्पवत्या स माल्यवानतिमोहितः
शक्रस्य परितोषाय नृत्यार्थं तौ समागतौ ॥ २० ॥

मूलम्

ईदृश्या पुष्पवत्या स माल्यवानतिमोहितः
शक्रस्य परितोषाय नृत्यार्थं तौ समागतौ ॥ २० ॥

विश्वास-प्रस्तुतिः

गायमानौ तु तौ तत्र अप्सरोगणसेवितौ
मदनाभिपरीताङ्गौ पुष्पदन्ती च माल्यवान् ॥ २१ ॥

मूलम्

गायमानौ तु तौ तत्र अप्सरोगणसेवितौ
मदनाभिपरीताङ्गौ पुष्पदन्ती च माल्यवान् ॥ २१ ॥

विश्वास-प्रस्तुतिः

परस्परानुरागेण व्यामोहवशमागतौ
न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ ॥ २२ ॥

मूलम्

परस्परानुरागेण व्यामोहवशमागतौ
न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ ॥ २२ ॥

विश्वास-प्रस्तुतिः

बद्धदृष्टी तथान्योन्यं कामबाणवशं गतौ
ज्ञात्वा लेखर्षभस्तत्र सङ्गतं मानसं तयोः ॥ २३ ॥

मूलम्

बद्धदृष्टी तथान्योन्यं कामबाणवशं गतौ
ज्ञात्वा लेखर्षभस्तत्र सङ्गतं मानसं तयोः ॥ २३ ॥

विश्वास-प्रस्तुतिः

तालक्रियामानलोपात्तथा गीतविसर्जनात्
चिन्तयित्वा तु मघवा ह्यवमानं तथात्मनः ॥ २४ ॥

मूलम्

तालक्रियामानलोपात्तथा गीतविसर्जनात्
चिन्तयित्वा तु मघवा ह्यवमानं तथात्मनः ॥ २४ ॥

विश्वास-प्रस्तुतिः

कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ
धिग्धिग्वां पतितौ मूढावाज्ञाभङ्ग कृतौ मम ॥ २५ ॥

मूलम्

कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ
धिग्धिग्वां पतितौ मूढावाज्ञाभङ्ग कृतौ मम ॥ २५ ॥

विश्वास-प्रस्तुतिः

युवां पिशाचौ भवतां दम्पतीभावधारिणौ
मर्त्यलोकमनुप्राप्तौ भुञ्जानौ कर्मणः फलम् ॥ २६ ॥

मूलम्

युवां पिशाचौ भवतां दम्पतीभावधारिणौ
मर्त्यलोकमनुप्राप्तौ भुञ्जानौ कर्मणः फलम् ॥ २६ ॥

विश्वास-प्रस्तुतिः

एवं मघवता शप्तावुभौ दुःखितमानसौ
हिमवन्तं गिरिं प्राप्ताविन्द्रशापाद्विमोहितौ ॥ २७ ॥

मूलम्

एवं मघवता शप्तावुभौ दुःखितमानसौ
हिमवन्तं गिरिं प्राप्ताविन्द्रशापाद्विमोहितौ ॥ २७ ॥

विश्वास-प्रस्तुतिः

उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च
सन्तप्तमानसौ तत्र हिमकृच्छ्रगतावुभौ ॥ २८ ॥

मूलम्

उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च
सन्तप्तमानसौ तत्र हिमकृच्छ्रगतावुभौ ॥ २८ ॥

विश्वास-प्रस्तुतिः

गन्धर्वत्वमप्सरस्त्वं न जानीतो विमौहितौ
पीड्यमानौ निदाघेन देहपातकजेन च ॥ २९ ॥

मूलम्

गन्धर्वत्वमप्सरस्त्वं न जानीतो विमौहितौ
पीड्यमानौ निदाघेन देहपातकजेन च ॥ २९ ॥

विश्वास-प्रस्तुतिः

न निशायां सुखं शान्तिं लभेते कर्मपीडितौ
परस्परं वादमानौ चेरतुर्गिरिगह्वरे ॥ ३० ॥

मूलम्

न निशायां सुखं शान्तिं लभेते कर्मपीडितौ
परस्परं वादमानौ चेरतुर्गिरिगह्वरे ॥ ३० ॥

विश्वास-प्रस्तुतिः

पीड्यमानौ तु शीतेन तुषारप्रभवेन तौ
दन्तघर्षं प्रकुर्वाणौ रोमाञ्चितवपुर्द्धरौ ॥ ३१ ॥

मूलम्

पीड्यमानौ तु शीतेन तुषारप्रभवेन तौ
दन्तघर्षं प्रकुर्वाणौ रोमाञ्चितवपुर्द्धरौ ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ऊचे पिशाचः स तदा तां पत्नीं स्वां पिशाचिकाम्
किमनल्पकृतं पापं दारुणं रोमहर्षणम् ॥ ३२ ॥

मूलम्

ऊचे पिशाचः स तदा तां पत्नीं स्वां पिशाचिकाम्
किमनल्पकृतं पापं दारुणं रोमहर्षणम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा
नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम् ॥ ३३ ॥

मूलम्

येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा
नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तस्मात्सर्वप्रयत्नेन पातकं न समाचरेत्
इति चिन्तापरौ तत्र तावास्तां दुःखकर्षितौ ॥ ३४ ॥

मूलम्

तस्मात्सर्वप्रयत्नेन पातकं न समाचरेत्
इति चिन्तापरौ तत्र तावास्तां दुःखकर्षितौ ॥ ३४ ॥

विश्वास-प्रस्तुतिः

दैवयोगात्तयोः प्राप्ता माघस्यैकादशी तिथिः
जयानामेति विख्याता तिथीनामुत्तमा तिथिः ॥ ३५ ॥

मूलम्

दैवयोगात्तयोः प्राप्ता माघस्यैकादशी तिथिः
जयानामेति विख्याता तिथीनामुत्तमा तिथिः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

तस्मिन्दिने तु सम्प्राप्ते तावाहारविवर्जितौ
आसाते तत्र नृपते जलपानविवर्जितौ ॥ ३६ ॥

मूलम्

तस्मिन्दिने तु सम्प्राप्ते तावाहारविवर्जितौ
आसाते तत्र नृपते जलपानविवर्जितौ ॥ ३६ ॥

विश्वास-प्रस्तुतिः

न कृतो जीवघातश्च न पत्रफलभक्षणम्
अश्वत्थस्य समीपे तौ सर्वदा दुःखसंयुतौ ॥ ३७ ॥

मूलम्

न कृतो जीवघातश्च न पत्रफलभक्षणम्
अश्वत्थस्य समीपे तौ सर्वदा दुःखसंयुतौ ॥ ३७ ॥

विश्वास-प्रस्तुतिः

रविरस्तङ्गतो राजंस्तथैव स्थितयोस्तयोः
प्राप्ता चैव निशा घोरा दारुणा प्राणहारिणी ॥ ३८ ॥

मूलम्

रविरस्तङ्गतो राजंस्तथैव स्थितयोस्तयोः
प्राप्ता चैव निशा घोरा दारुणा प्राणहारिणी ॥ ३८ ॥

विश्वास-प्रस्तुतिः

वेपमानौ ततस्तौ तु ततः सुषुपतः क्षितौ
परस्परेण संलग्नौ गात्रयोर्भुजयोरपि ॥ ३९ ॥

मूलम्

वेपमानौ ततस्तौ तु ततः सुषुपतः क्षितौ
परस्परेण संलग्नौ गात्रयोर्भुजयोरपि ॥ ३९ ॥

विश्वास-प्रस्तुतिः

न निद्रा न रतं तत्र न तौ सौख्यमविन्दताम्
एवं तौ राजशार्दूल शापेनेन्द्रस्य पीडितौ ॥ ४० ॥

मूलम्

न निद्रा न रतं तत्र न तौ सौख्यमविन्दताम्
एवं तौ राजशार्दूल शापेनेन्द्रस्य पीडितौ ॥ ४० ॥

विश्वास-प्रस्तुतिः

इत्थं तयोर्दुःखितयोर्निर्जगाम निशीथिनी
मार्तण्ड उदयं प्राप्तो द्वादशी दिवसागमे ॥ ४१ ॥

मूलम्

इत्थं तयोर्दुःखितयोर्निर्जगाम निशीथिनी
मार्तण्ड उदयं प्राप्तो द्वादशी दिवसागमे ॥ ४१ ॥

विश्वास-प्रस्तुतिः

मया तु राजशार्दूल तयोर्मुक्तिर्धृता हृदि
जयायाः सुव्रतं चीर्णं रात्रौ जागरणं कृतम् ॥ ४२ ॥

मूलम्

मया तु राजशार्दूल तयोर्मुक्तिर्धृता हृदि
जयायाः सुव्रतं चीर्णं रात्रौ जागरणं कृतम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तस्माद्व्रतप्रभावाच्च यथाजातं तथा शृणु
द्वादशीदिवसे प्राप्ते तथा चीर्णे जया व्रते ॥ ४३ ॥

मूलम्

तस्माद्व्रतप्रभावाच्च यथाजातं तथा शृणु
द्वादशीदिवसे प्राप्ते तथा चीर्णे जया व्रते ॥ ४३ ॥

विश्वास-प्रस्तुतिः

विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम्
पुष्पदन्ती माल्यवतौ पूर्वरूपौ बभूवतुः ॥ ४४ ॥

मूलम्

विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम्
पुष्पदन्ती माल्यवतौ पूर्वरूपौ बभूवतुः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

पुरातनस्नेहयुतौ पूर्वालङ्कारधारिणौ
विमानमधिरूढौ तौ गतौ नाके मनोरमे ॥ ४५ ॥

मूलम्

पुरातनस्नेहयुतौ पूर्वालङ्कारधारिणौ
विमानमधिरूढौ तौ गतौ नाके मनोरमे ॥ ४५ ॥

विश्वास-प्रस्तुतिः

देवेन्द्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा
तथाविधौ तु तौ दृष्ट्वा मघवा विस्मितोऽब्रवीत् ॥ ४६ ॥

मूलम्

देवेन्द्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा
तथाविधौ तु तौ दृष्ट्वा मघवा विस्मितोऽब्रवीत् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

इन्द्र उवाच-
वद तं केन पुण्येन पिशाचत्वं हि वां गतौ
मम शापं च सम्प्राप्तौ केन देवेन मोचितौ ॥ ४७ ॥

मूलम्

इन्द्र उवाच-
वद तं केन पुण्येन पिशाचत्वं हि वां गतौ
मम शापं च सम्प्राप्तौ केन देवेन मोचितौ ॥ ४७ ॥

विश्वास-प्रस्तुतिः

माल्यवानुवाच-
वासुदेवप्रसादेन जयायास्तु व्रतेन च
पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः ॥ ४८ ॥

मूलम्

माल्यवानुवाच-
वासुदेवप्रसादेन जयायास्तु व्रतेन च
पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

इति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा
पवित्रौ पावनौ जातौ वन्दनीयौ ममापि च ॥ ४९ ॥

मूलम्

इति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा
पवित्रौ पावनौ जातौ वन्दनीयौ ममापि च ॥ ४९ ॥

विश्वास-प्रस्तुतिः

हरिवासरकर्तारौ विष्णुभक्तिपरायणौ
हरिवासरसल्ँलीना ये च कृष्णपरायणाः 6.43.॥ ५० ॥

मूलम्

हरिवासरकर्तारौ विष्णुभक्तिपरायणौ
हरिवासरसल्ँलीना ये च कृष्णपरायणाः 6.43.॥ ५० ॥

विश्वास-प्रस्तुतिः

अस्माकमपि मर्त्यास्ते पूज्याश्चैव न संशयः
विहरस्व यथासौख्यं पुष्पदन्त्या सुरालये ॥ ५१ ॥

मूलम्

अस्माकमपि मर्त्यास्ते पूज्याश्चैव न संशयः
विहरस्व यथासौख्यं पुष्पदन्त्या सुरालये ॥ ५१ ॥

विश्वास-प्रस्तुतिः

कृष्ण उवाच-
एतस्मात्कारणाद्राजन्कर्त्तव्यो हरिवासरः
जया तु राजशार्दूल ब्रह्महत्यापहारिणी ॥ ५२ ॥

मूलम्

कृष्ण उवाच-
एतस्मात्कारणाद्राजन्कर्त्तव्यो हरिवासरः
जया तु राजशार्दूल ब्रह्महत्यापहारिणी ॥ ५२ ॥

विश्वास-प्रस्तुतिः

सर्वदानानि तेनैव सर्वयज्ञा अशेषतः
दत्तानि कारिताश्चैव जयायास्तु व्रतं कृतम् ॥ ५३ ॥

मूलम्

सर्वदानानि तेनैव सर्वयज्ञा अशेषतः
दत्तानि कारिताश्चैव जयायास्तु व्रतं कृतम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

कल्पकोटिर्भवेत्तावद्वैकुण्ठे मोदते ध्रुवम्
पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ॥ ५४ ॥

मूलम्

कल्पकोटिर्भवेत्तावद्वैकुण्ठे मोदते ध्रुवम्
पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ॥ ५४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे माघशुक्लजयैकादशीमाहात्म्यन्नाम त्रिचत्वारिंशोऽध्यायः ४३