युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
साधु कृष्ण जगन्नाथ आदिदेव जगत्पते
कथयस्व प्रसादेन कृपां कुरु ममोपरि ॥ १ ॥
मूलम्
साधु कृष्ण जगन्नाथ आदिदेव जगत्पते
कथयस्व प्रसादेन कृपां कुरु ममोपरि ॥ १ ॥
विश्वास-प्रस्तुतिः
माघस्य कृष्णपक्षे तु का वा चैकादशी भवेत्
किं नाम को विधिस्तस्या एतद्विस्तरतो वद ॥ २ ॥

श्रीभगवानुवाच-
शृणु त्वं नृपशार्दूल कृष्णमाघस्य या भवेत्
षट्तिला नाम विख्याता सर्वपापप्रणाशिनी ॥ १ ॥

षट्तिलायाः शृणुष्व त्वं कथां पापहरां शुभाम्
यां पुलस्त्यो मुनिश्रेष्ठो दालभ्यं प्रति चोक्तवान् ॥ २ ॥

दालभ्य उवाच-
मर्त्यलोकमनुप्राप्ताः पापं कुर्वन्ति जन्तवः
ब्रह्महत्यादिपापैश्च युक्ता ये विविधादिभिः ॥ ३ ॥

परद्रव्यापहाराश्च परव्यसनमोहिताः
कथं न यान्ति नरकं ब्रह्मंस्तद्ब्रूहि तत्त्वतः ॥ ४ ॥

अनायासेन भगवन्दानेनाल्पेन केनचित्
पापं प्रशमनं याति एतन्मे वक्तुमर्हसि ॥ ५ ॥

पुलस्त्य उवाच-
साधुसाधु महाभाग गुह्यमेतत्सुदुर्ल्लभम्
यन्न कस्यचिदाख्यातं विष्णुब्रह्मेन्द्रदैवतैः ॥ ६ ॥

तदहं कथयिष्यामि त्वया पृष्टो द्विजोत्तम
माघमासे तु सम्प्राप्ते शुचिस्नातो जितेन्द्रियः ॥ ७ ॥

कामक्रोधाभिमानेर्ष्यालोभ पैशुन्य वर्जितः
देवदेवं च संस्मृत्य पादौ प्रक्षाल्य वारिभिः ॥ ८ ॥

भूमावपतितं गृह्य गोमयं तत्र मानवः
तिलान्प्रक्षिप्य कार्पांसं पिण्डिकाश्चैव कारयेत् ॥ ९ ॥

अष्टोत्तरशतं चैव नात्र कार्या विचारणा
ततो माघे च सम्प्राप्ते ह्याषाढर्क्षं भवेद्यदि ॥ १० ॥

मूलं वा कृष्णपक्षस्यैकादशी नियमांस्ततः
गृह्णीयात्पुण्यकाले च विधानं तत्र मे शृणु ॥ ११ ॥

देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः
कृष्णनामानि सङ्कीर्त्य पुनः प्रस्खलितादिषु ॥ १२ ॥

रात्रौ जागरणं कुर्यादादौ होमं च कारयेत्
अर्चयेद्देवदेवेशं द्वितीयेऽह्नि पुनर्हरिम् ॥ १३ ॥

चन्दनागुरुकर्पूरैर्नैवेद्यं कृसरं तथा
संस्मृत्य नाम्ना च ततः कृष्णाख्येन पुनः पुनः ॥ १४ ॥

कूष्माण्डैर्नारिकेरैश्च ह्यथवा बीजपूरकैः
सर्वाभावेऽपि विप्रेन्द्र शस्तपूगफलैर्वृतम्
अर्घं दद्याद्विधानेन पूजयित्वा जनार्दनम् ॥ १५ ॥

कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव
संसारार्णव मग्नानां प्रसीद पुरुषोत्तम ॥ १६ ॥

नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन
सुब्रह्मण्य नमस्तेऽस्तु महापुरुषपूर्वज
गृहाणार्घ्यं मया दत्तं लक्ष्म्या सह जगत्पते ॥ १७ ॥

इत्यर्घमन्त्रः
ततस्तु पूजयेद्विप्रमुदकुम्भं प्रदापयेत्
छत्रोपानहवस्त्रैश्च कृष्णो मे प्रीयतामिति ॥ १८ ॥

कृष्णा धेनुः प्रदातव्या यथाशक्ति द्विजोत्तमे
तिलपात्रं द्विजश्रेष्ठ दद्यात्पात्रविचक्षणः ॥ १९ ॥

स्नाने प्राशनके शस्तास्तथा कृष्णतिला मुने
तान्प्रदद्यात्प्रयत्नेन यथाशक्ति द्विजोत्तमे
तिलप्ररोहजाः क्षत्रे यावत्सङ्ख्यास्तिला द्विज ॥ २० ॥

तावद्वर्षसहस्राणि स्वर्गलोके महीयते
तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदकी ॥ २१ ॥

तिलदाता च भोक्ता च षट्तिलाः पापनाशनाः
नारद उवाच-
कृष्णकृष्ण महाबाहो नमस्ते विश्वभावन ॥ २२ ॥

षट्तिलैकादशीभूतं कीदृशं फलमस्ति वै
सोपाख्यानं मम ब्रूहि यदि तुष्टोऽसि यादव
श्रीकृष्ण उवाच
शृणु राजन्यथावृत्तं दृष्टं तत्कथयामि ते
मर्त्यलोके पुरा ह्यासीद्ब्राह्मण्येका च नारद
व्रतचर्यारता नित्यं देवपूजारता सदा ॥ २३ ॥

मासोपवासनिरता मम भक्ता च सर्वदा
कृष्णोपवाससंयुक्ता मम पूजापरायणा ॥ २४ ॥
मूलम्
मासोपवासनिरता मम भक्ता च सर्वदा
कृष्णोपवाससंयुक्ता मम पूजापरायणा ॥ २४ ॥
विश्वास-प्रस्तुतिः
शरीरं क्लेशितं चैव उपवासैर्द्विजोत्तम
देवानां ब्राह्मणानां च कुमारीणां च भक्तितः ॥ २५ ॥

गृहादिकं प्रयच्छन्ती सर्वकालं महासती
अतिकृच्छ्ररता सा तु सर्वकालं तु वै द्विज ॥ २६ ॥

न दत्ता भिक्षुके भिक्षा ब्राह्मणा न च तर्पिताः ॥ २७ ॥

ततः कालेन महता मया वै चिन्तितं द्विज
शुद्धमस्याः शरीरं हि व्रतैः कृच्छ्रैर्न संशयः ॥ २८ ॥

अर्चितो वैष्णवो लोकः कायक्लेशेन वै तया
न दत्तमन्नदानं हि येन तृप्तिः परा भवेत् ॥ २९ ॥

एवं ज्ञात्वा अहं ब्रह्मन्मर्त्यलोकमुपागतः
कापालं रूपमास्थाय भिक्षापात्रे च याचिता ॥ ३० ॥

कस्मात्त्वमागतो ब्रह्मन्क्व यासि वद मेऽग्रतः
पुनरेव मया प्रोक्तं देहि भिक्षां च सुन्दरि ॥ ३१ ॥

तया कोपेन महता मृत्पिण्डस्ताम्रभाजने
क्षिप्तो यावदहं ब्रह्मन्पुनः स्वर्गं गतो द्विज ॥ ३२ ॥

ततः कालेन महता तापसी सुमहाव्रता
सदेहा स्वर्गमायाता व्रतचर्या प्रभावतः ॥ ३३ ॥

मृत्पिण्डिकाप्रदानेन गृहं प्राप्तं मनोरमम्
सञ्जातं चैव विप्रर्षे धान्यराशि विवर्जितम् ॥ ३४ ॥

गृहं यावन्निरीक्षेत न किञ्चित्तत्र पश्यति
तावद्गृहाद्विनिष्क्रान्ता ममान्ते चागता द्विज ॥ ३५ ॥

क्रोधेन महताविष्टमिदं वचनमब्रवीत्
मया व्रतैश्च कृच्छ्रैश्च उपवासैरनेकशः ॥ ३६ ॥

पूजयाराधितो देवः सर्वलोकस्य पालकः
न तत्र दृश्यते किञ्चिद्गृहे मम जनार्दन ॥ ३७ ॥

ततश्चोक्तं मया तस्यै गृहं गच्छ महाव्रते
आगमिष्यन्ति सुतरां कौतूहल समन्विताः ॥ ३८ ॥

देवपत्न्यो हि द्रष्टुं त्वां विस्मयाभिसमन्विताः
द्वारं नोद्घाटय विना षट्तिलापुण्यवाचनात् ॥ ३९ ॥

एवमुक्ता मया सा तु गता वै मानुषी तदा
अत्रान्तरे समायाता देवपत्न्यश्च वाडव ॥ ४० ॥

ताभिश्च कथितं तत्र त्वां द्रष्टुं हि समागताः
द्वारमुद्घाटयस्वाद्य त्वां प्रपश्याम शोभने ॥ ४१ ॥

मानुष्युवाच-
यदि मद्दर्शनं कार्यं सत्यं वाच्यं विशेषतः
षट्तिलाया व्रतं पुण्यं द्वारोद्घाटनकारणात् ॥ ४२ ॥

श्रीकृष्ण उवाच-
एकापिनावदत्तत्र षट्तिलैकादशीव्रतम्
अन्यया कथितं तत्र द्रष्टव्या मानुषी मया ॥ ४३ ॥

ततो द्वारं समुद्घाट्य दृष्टा ताभिश्च मानुषी
न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥ ४४ ॥

दृष्टा पूर्वं तथा नारी यादृशीयं द्विजर्षभ
देवीनामुपदेशेन षट्तिलाया व्रतं कृतम् ॥ ४५ ॥

मानुष्या सत्यव्रतया भुक्तिमुक्तिफलप्रदम्
रूपकान्तिसमायुक्ता क्षणेन समवाप सा ॥ ४६ ॥

धनं धान्यं च वस्त्रादि सुवर्णं रौप्यमेव च
भवनं सर्वसम्पन्नं षट्तिलायाः प्रभावतः ॥ ४७ ॥

रूपकान्तिसमायुक्ता क्षणेन समपद्यत ॥ ४८ ॥

अतितृष्णा न कर्त्तव्या वित्तशाठ्यं विवर्जयेत्
आत्मवित्तानुसारेण तिलान्वस्त्राणि दापयेत् ॥ ४९ ॥

लभते चैवमारोग्यं नरो जन्मनि जन्मनि
न दारिद्र्यं न कष्टत्वं न च दौर्भाग्यमेव च 6.42.॥ ५० ॥

सम्भवेद्वै द्विजश्रेष्ठ षट्तिलासमुपोषणात्
अनेन विधिना भूप तिलदाता न संशयः ॥ ५१ ॥

मुच्यते पातकैः सर्वैरनायासेन मानवः
दानं च विधिवत्पात्रे सर्वपातकनाशनम्
नानर्थः कश्चिन्नायासः शरीरे नृपसत्तम ५२