युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
कथिता वै त्वया कृष्ण सफलैकादशी शुभा
कथयस्व प्रसादेन शुक्लपक्षस्य या भवेत् ॥ १ ॥
मूलम्

किन्नाम को विधिस्तस्याः को देवस्तत्र पूज्यते
कस्मै तुष्टो हृषीकेशस्त्वमेव पुरुषोत्तमः ॥ २ ॥

श्रीकृष्ण उवाच-
शृणु राजन्प्रवक्ष्यामि शुक्ला पौषस्य या भवेत्
कथयामि महाराज लोकानां हितकाम्यया ॥ ३ ॥

पूर्वेण विधिना राजन्कर्त्तव्यैषा प्रयत्नतः
पुत्रदा नाम नाम्ना सा सर्वपापहरा परा ॥ ४ ॥

नारायणोऽधिदेवोऽस्या कामदः सिद्धिदायकः
नातः परतरा काचित्त्रैलोक्ये सचराचरे ॥ ५ ॥

विद्यावन्तं यशस्वन्तं करोति च नरं हरिः
शृणु राजन्प्रवक्ष्यामि कथां पापहरां पराम् ॥ ६ ॥

भद्रावत्यां पुरा ह्यासीत्पुर्यां राजा सुकेतुमान्
तस्य राज्ञस्तथाराज्ञी चम्पका नाम वर्त्तते ॥ ७ ॥

पुत्रहीनेन राज्ञा च काले नीतो मनोरथैः
नैवात्मजं नृपो लेभे वंशकर्त्तारमेव च ॥ ८ ॥

तेनैव राज्ञा धर्मेण चिन्तितं बहुकालतः
किं करोमि क्व गच्छामि सुतप्राप्तिः कथं भवेत् ॥ ९ ॥

न राष्ट्रे न पुरे सौख्यं लेभे राजा सुकेतुमान्
साध्व्य स्वकान्तया सार्द्धं प्रत्यहं दुःखितोऽभवत् ॥ १० ॥

तावुभौ दम्पती नित्यं चिन्ताशोकपरायणौ
पितरोऽस्य जलं दत्तं कवोष्णमुपभुञ्जते ॥ ११ ॥

राज्ञः पश्चान्न पश्यामो योऽस्मान्सन्तर्पयिष्यति
इत्येवं संस्मरन्तोऽस्य दुःखिताः पितरोऽभवन् ॥ १२ ॥

न बान्धवा न मित्राणि नामात्याः सुहृदस्तथा
रोचयन्त्यस्य भूपस्य न गजाश्वाः पदातयः ॥ १३ ॥

नैराश्यं भूपतेस्तस्य नित्यं मनसि वर्त्तते
नरस्य पुत्रहीनस्य नास्ति वै जन्मनः फलम् ॥ १४ ॥

अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा
पितृदेवमनुष्याणां नानृणत्वं सुतं विना ॥ १५ ॥

तस्मात्सर्वप्रयत्नेन सुतमुत्पादयेन्नरः
इह लोके यशस्तेषां परलोके शुभा गतिः ॥ १६ ॥

येषां तु पुण्यकर्तॄणां पुत्रजन्मगृहे भवेत्
आयुरारोग्यसम्पत्तिस्तेषां गेहे प्रवर्तते ॥ १७ ॥

पुत्रजन्म गृहे येषां लोकानां पुण्यकारिणाम्
पुण्यं विना न च प्राप्तिर्विष्णुभक्तिं विना नृप ॥ १८ ॥

पुत्राश्च सम्पदो वापि निश्चयादिति मे मतिः
एवं विचिन्त्यमानोऽसौ न शर्म लभते नृपः ॥ १९ ॥

प्रत्यूषे चिन्तयद्राजा निशीथे चिन्तयत्ततः
स्वयमात्मविनाशं च चिन्तयामास केतुमान् ॥ २० ॥

आत्मघाते दुर्गतिं च चिन्तयित्वा तदा नृपः
दृष्ट्वात्मदेहं पतितमपुत्रत्वं तथैव च ॥ २१ ॥

पुनर्विचार्यात्मबुद्ध्या आत्मनो हितकारणम्
अश्वारूढस्ततो राजा जगाम गहनं वनम् ॥ २२ ॥

पुरोहितादयः सर्वे न जानन्ति गतं नृपम्
गम्भीरे विपिने राजा मृगपक्षिनिषेविते ॥ २३ ॥

विचचार तदा राजा वनवृक्षान्विलोकयन्
वटानश्वत्थबिल्वांश्च खर्जूरान्पनसांस्तथा ॥ २४ ॥

बकुलान्सप्तपर्णांश्च तिन्दुकांस्तिलकानपि
शालांस्तालांस्तमालांश्च ददर्श सरलान्नृपः ॥ २५ ॥

इङ्गुदी ककुभांश्चैव श्लेष्मातकनगांस्तथा
शल्लकान्करमर्दांश्च पाटलान्बदरानपि ॥ २६ ॥

अशोकांश्च पलाशांश्च शृगालाञ्शशकानपि
वनमार्जारमहिषान्शल्लकांश्चमरानपि ॥ २७ ॥
मूलम्
अशोकांश्च पलाशांश्च शृगालाञ्शशकानपि
वनमार्जारमहिषान्शल्लकांश्चमरानपि ॥ २७ ॥
विश्वास-प्रस्तुतिः
ददर्श भुजगान्राजा वल्मीकादर्द्धनिःसृतान्
तथा वनगजान् मत्तान् कलभैः सह सङ्गतान् ॥ २८ ॥

यूथपांश्च चतुर्दन्तान्करिणीयूथमध्यगान्
तान्दृष्ट्वा चिन्तयामास आत्मनः स गजान्नृपः ॥ २९ ॥

तेषां स विचरन्मध्ये राजा शोभामवाप ह
महदाश्चर्यसंयुक्तं ददृशे विपिनं नृपः ॥ ३० ॥

मार्गे शिवारुतान्शृण्वन्नुलूकविरुतं तथा
तांस्तानृक्षमृगान्पश्यन्बभ्राम वनमध्यतः ॥ ३१ ॥

एवं ददर्श गहनं नृपो मध्यगते रवौ
क्षुत्तृड्भ्यां पीडितो राजा इतश्चेतश्च धावति ॥ ३२ ॥

नृपतिश्चिन्तयामास संशुष्कगलकन्धरः
मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृशम् ॥ ३३ ॥

मया वै तोषिता देवा यज्ञैः पूजाभिरेव च
तथैव ब्राह्मणा दानैस्तोषिता मिष्टभोजनैः ॥ ३४ ॥

प्रजाश्चैव सदा कालं पुत्रवत्पालिता भृशम्
कस्माद्दुःखं मया प्राप्तमीदृशं दारुणं महत् ॥ ३५ ॥

इति चिन्तापरो राजा जगामैवाग्रतो वनम्
सुकृतस्य प्रभावेन सरो दृष्टमनुत्तमम् ॥ ३६ ॥

मीनसंस्पर्शमानं च पद्मैश्चापरशोभितम्
कारण्डैश्चक्रवाकैश्च राजहंसैश्च शोभितम् ॥ ३७ ॥

मकरैर्बहुभिर्मत्स्यैरन्यैर्जलचरैर्युतम्
समीपे सरसस्तस्य मुनीनामाश्रमान्बहून् ॥ ३८ ॥

ददर्श राजा लक्ष्मीवान्शकुनैः शुभशंसिभिः
दक्षिणं प्रास्फुरन्नेत्रमथ सव्येतरः करः ॥ ३९ ॥

प्रास्फुरन्नृपतेस्तस्य कथयञ्शोभनं फलम्
तस्य तीरे मुनीन्दृष्ट्वा कुर्वाणन्नैगमं जपम् ॥ ४० ॥

हर्षेण महताविष्टो बभूव नृपनन्दनः
अवतीर्य हयात्तस्मान्मुनीनामग्रतः स्थितः ॥ ४१ ॥

पृथक्पृथग्ववन्देऽसौ मुनींस्तान्शंसितव्रतान्
कृताञ्जलिपुटो भूत्वा दण्डवच्च पुनः पुनः ॥ ४२ ॥

प्रत्यूचुस्तेऽपि मुनयः प्रसन्ना नृपते वयम्
राजोवाच-
के भवन्तोऽत्र कथ्यन्तां का चाख्या भवतामपि
किमर्थं सङ्गता यूयं सत्यं वदत मेऽग्रतः ॥ ४३ ॥

मुनय ऊचुः-
विश्वेदेवा वयं राजन्स्नानार्थमिह चागताः
माघो निकटमायात एतस्मात्पञ्चमेऽहनि ॥ ४४ ॥

अद्य चैकादशी राजन्पुत्रदा नाम नामतः
पुत्रं ददात्यसौ विष्णुः पुत्रदा कारिणां नृणाम् ॥ ४५ ॥

एष वै संशयो मह्यं पुत्रस्योत्पादने महान्
यदि तुष्टा भवन्तो वै पुत्रं मे दीयतां तदा ॥ ४६ ॥

मुनिरुवाच-
अद्यैव दिवसे राजन्पुत्रदा नाम वर्तते
एकादशीति विख्यातं क्रियतां व्रतमुत्तमम् ॥ ४७ ॥

अभिषेकात्ततोऽस्माकं केशवस्य प्रसादतः
अवश्यं तव राजेन्द्र पुत्रप्राप्तिर्भविष्यति ॥ ४८ ॥

इत्येवं वचनात्तेषां कृतं राज्ञा व्रतोत्तमम्
मुनीनामुपदेशेन पुत्रदा या विधानतः ॥ ४९ ॥

द्वादश्यां पारणं कृत्वा मुनीन्नत्वा पुनः पुनः
आजगाम गृहं राजा राज्ञी गर्भमथादधौ 6.41.॥ ५० ॥

पुत्रो जातः सूतिकाले तेजस्वी पुण्यकर्मणा
पितरं तोषयामास प्रजापालो बभूव सः ॥ ५१ ॥

तस्माद्राजन्प्रकर्त्तव्यं पुत्रदा व्रतमुत्तमम्
लोकानां तु हितार्थाय तवाग्रे कथितं मया ॥ ५२ ॥

एकचित्तास्तु ये मर्त्याः कुर्वन्ति पुत्रदा व्रतम्
पुत्रान्प्राप्येह लोके तु मृतास्ते स्वर्गगामिनः
पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ॥ ५३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पौषशुक्लपुत्रदैकादशीनाम एकचत्वारिंशोऽध्यायः ४१