०४०

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेत्
किं नाम को विधिस्तस्या एतद्विस्तरतो वद
एतदाख्याहि भो स्वामिन्को देवस्तत्र पूज्यते ॥ १ ॥

मूलम्

पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेत्
किं नाम को विधिस्तस्या एतद्विस्तरतो वद
एतदाख्याहि भो स्वामिन्को देवस्तत्र पूज्यते ॥ १ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच-
कथयिष्यामि राजेन्द्र भवतः स्नेहबन्धनात्
तुष्टिर्मे न तथा राजन्यज्ञैर्बहुलदक्षिणैः ॥ २ ॥

मूलम्

श्रीकृष्ण उवाच-
कथयिष्यामि राजेन्द्र भवतः स्नेहबन्धनात्
तुष्टिर्मे न तथा राजन्यज्ञैर्बहुलदक्षिणैः ॥ २ ॥

विश्वास-प्रस्तुतिः

यथा मे तुष्टिरायाति ह्येकादशीव्रतेन वै
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो हरिवासरः ॥ ३ ॥

मूलम्

यथा मे तुष्टिरायाति ह्येकादशीव्रतेन वै
तस्मात्सर्वप्रयत्नेन कर्त्तव्यो हरिवासरः ॥ ३ ॥

विश्वास-प्रस्तुतिः

सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद
पौषस्य कृष्णपक्षे या सफला नाम नामतः ॥ ४ ॥

मूलम्

सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद
पौषस्य कृष्णपक्षे या सफला नाम नामतः ॥ ४ ॥

विश्वास-प्रस्तुतिः

तस्यां नारायणं देवं पूजयेच्च यथाविधि
पूर्वेणैव विधानेन कर्त्तव्यैकादशी शुभा ॥ ५ ॥

मूलम्

तस्यां नारायणं देवं पूजयेच्च यथाविधि
पूर्वेणैव विधानेन कर्त्तव्यैकादशी शुभा ॥ ५ ॥

विश्वास-प्रस्तुतिः

नागानां च यथा शेषो पक्षिणां पन्नगाशनः
देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः ॥ ६ ॥

मूलम्

नागानां च यथा शेषो पक्षिणां पन्नगाशनः
देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः ॥ ६ ॥

विश्वास-प्रस्तुतिः

व्रतानां च यथा राजन्श्रेष्ठा चैकादशी तिथिः
ते जनाश्चैव भो राजन्पूज्या वै सर्वदा मम ॥ ७ ॥

मूलम्

व्रतानां च यथा राजन्श्रेष्ठा चैकादशी तिथिः
ते जनाश्चैव भो राजन्पूज्या वै सर्वदा मम ॥ ७ ॥

विश्वास-प्रस्तुतिः

हरिवासरसंलीनाः कुर्वन्त्येकादशीव्रतम्
इहैव धनसंयुक्ता मृता मोक्षं लभन्ति ते ॥ ८ ॥

मूलम्

हरिवासरसंलीनाः कुर्वन्त्येकादशीव्रतम्
इहैव धनसंयुक्ता मृता मोक्षं लभन्ति ते ॥ ८ ॥

विश्वास-प्रस्तुतिः

सफलायां फलै राजन्पूजयेन्नामतो हरिम्
नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः ॥ ९ ॥

मूलम्

सफलायां फलै राजन्पूजयेन्नामतो हरिम्
नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः ॥ ९ ॥

विश्वास-प्रस्तुतिः

जम्बीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः
लवङ्गैर्बदरीभिश्च तथाम्रैश्च विशेषतः ॥ १० ॥

मूलम्

जम्बीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः
लवङ्गैर्बदरीभिश्च तथाम्रैश्च विशेषतः ॥ १० ॥

विश्वास-प्रस्तुतिः

पूजयेद्देवदेवेशं धूपदीपैस्तथैव च
सफलायां विशेषेण दीपदानं तु कारयेत् ॥ ११ ॥

मूलम्

पूजयेद्देवदेवेशं धूपदीपैस्तथैव च
सफलायां विशेषेण दीपदानं तु कारयेत् ॥ ११ ॥

विश्वास-प्रस्तुतिः

रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः
यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि ॥ १२ ॥

मूलम्

रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः
यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि ॥ १२ ॥

विश्वास-प्रस्तुतिः

एकाग्रमनसो राजन्तस्य पुण्यं शृणुष्व हि
तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं नहि ॥ १३ ॥

मूलम्

एकाग्रमनसो राजन्तस्य पुण्यं शृणुष्व हि
तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं नहि ॥ १३ ॥

विश्वास-प्रस्तुतिः

सर्वव्रतानि राजेन्द्र कलां नार्हन्ति षोडशीम्
एवं वर्षसहस्राणि तपसा नैव यत्फलम् ॥ १४ ॥

मूलम्

सर्वव्रतानि राजेन्द्र कलां नार्हन्ति षोडशीम्
एवं वर्षसहस्राणि तपसा नैव यत्फलम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

तत्फलं समवाप्नोति यः करोति हि जागरम्
श्रूयतां राजशार्दूल सफलायाः कथा शुभा ॥ १५ ॥

मूलम्

तत्फलं समवाप्नोति यः करोति हि जागरम्
श्रूयतां राजशार्दूल सफलायाः कथा शुभा ॥ १५ ॥

विश्वास-प्रस्तुतिः

चम्पावतीति विख्याता पुरी माहिष्मतस्य च
बभूवुस्तस्य राजर्षेः पुत्राः पञ्च कुमारकाः ॥ १६ ॥

मूलम्

चम्पावतीति विख्याता पुरी माहिष्मतस्य च
बभूवुस्तस्य राजर्षेः पुत्राः पञ्च कुमारकाः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा
परदाराभिचारी च वेश्यासक्तश्च मद्यपः ॥ १७ ॥

मूलम्

तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा
परदाराभिचारी च वेश्यासक्तश्च मद्यपः ॥ १७ ॥

विश्वास-प्रस्तुतिः

पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा
असद्वृत्तिरतो नित्यं भूसुराणां तु निन्दकः ॥ १८ ॥

मूलम्

पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा
असद्वृत्तिरतो नित्यं भूसुराणां तु निन्दकः ॥ १८ ॥

विश्वास-प्रस्तुतिः

वैष्णवानां च देवानां नित्यं निन्दां करोति सः
ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः ॥ १९ ॥

मूलम्

वैष्णवानां च देवानां नित्यं निन्दां करोति सः
ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः ॥ १९ ॥

विश्वास-प्रस्तुतिः

नाम्ना तु लुम्पक इति राजपुत्रेषु चापठत्
राज्यान्निष्कासितस्तेन पित्रा चैव तु बन्धुभिः ॥ २० ॥

मूलम्

नाम्ना तु लुम्पक इति राजपुत्रेषु चापठत्
राज्यान्निष्कासितस्तेन पित्रा चैव तु बन्धुभिः ॥ २० ॥

विश्वास-प्रस्तुतिः

स चैवं परिवारैस्तु त्यक्तश्च परिपन्थिवत्
लुम्पकोऽपि तथा त्यक्तश्चिन्तयामास वै तदा ॥ २१ ॥

मूलम्

स चैवं परिवारैस्तु त्यक्तश्च परिपन्थिवत्
लुम्पकोऽपि तथा त्यक्तश्चिन्तयामास वै तदा ॥ २१ ॥

विश्वास-प्रस्तुतिः

त्यक्तोऽहं बान्धवैः पित्रा राज्यान्निष्कासितः किल
इति सञ्चिन्त्यमानोऽसौ मतिं पापे तदाकरोत् ॥ २२ ॥

मूलम्

त्यक्तोऽहं बान्धवैः पित्रा राज्यान्निष्कासितः किल
इति सञ्चिन्त्यमानोऽसौ मतिं पापे तदाकरोत् ॥ २२ ॥

विश्वास-प्रस्तुतिः

मया गन्तव्यमेवास्तु दारुणे गहने वने
तस्माच्चैव पुरं सर्वं लुम्पयिष्यामि वै पितुः ॥ २३ ॥

मूलम्

मया गन्तव्यमेवास्तु दारुणे गहने वने
तस्माच्चैव पुरं सर्वं लुम्पयिष्यामि वै पितुः ॥ २३ ॥

विश्वास-प्रस्तुतिः

इत्येवं स मतिं कृत्वा लुम्पको दैवयोगतः
निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने ॥ २४ ॥

मूलम्

इत्येवं स मतिं कृत्वा लुम्पको दैवयोगतः
निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने ॥ २४ ॥

विश्वास-प्रस्तुतिः

जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः
सर्वं च नगरं तेन मुषितं पापकर्मणा ॥ २५ ॥

मूलम्

जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः
सर्वं च नगरं तेन मुषितं पापकर्मणा ॥ २५ ॥

विश्वास-प्रस्तुतिः

स्तेयाभिगामी नगरे गृहीतः स निशाचरैः
उवाच तान्सुतोऽहं वै राज्ञो माहिष्मतस्य च ॥ २६ ॥

मूलम्

स्तेयाभिगामी नगरे गृहीतः स निशाचरैः
उवाच तान्सुतोऽहं वै राज्ञो माहिष्मतस्य च ॥ २६ ॥

विश्वास-प्रस्तुतिः

स तैर्मुक्तः पापकर्मा चागतो विपिनं पुनः
आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे ॥ २७ ॥

मूलम्

स तैर्मुक्तः पापकर्मा चागतो विपिनं पुनः
आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे ॥ २७ ॥

विश्वास-प्रस्तुतिः

आश्रमस्तस्य दुष्टस्य वासुदेवस्य सन्निधौ
अश्वत्थो वर्त्तते तत्र जीर्णश्च बहुवार्षिकः ॥ २८ ॥

मूलम्

आश्रमस्तस्य दुष्टस्य वासुदेवस्य सन्निधौ
अश्वत्थो वर्त्तते तत्र जीर्णश्च बहुवार्षिकः ॥ २८ ॥

विश्वास-प्रस्तुतिः

देवत्वं तस्य वृक्षस्य विपिने वर्तते महत्
तत्रैव निवसंश्चैव लुम्पकः पापबुद्धिमान् ॥ २९ ॥

मूलम्

देवत्वं तस्य वृक्षस्य विपिने वर्तते महत्
तत्रैव निवसंश्चैव लुम्पकः पापबुद्धिमान् ॥ २९ ॥

विश्वास-प्रस्तुतिः

गते बहुतिथे काले कस्यचित्पुण्यसञ्चयात्
पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा ॥ ३० ॥

मूलम्

गते बहुतिथे काले कस्यचित्पुण्यसञ्चयात्
पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा ॥ ३० ॥

विश्वास-प्रस्तुतिः

फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः
लुम्पको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः ॥ ३१ ॥

मूलम्

फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः
लुम्पको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

पीड्यमानोऽतिशीतेन हरिवृक्षसमीपतः
न निद्रा न सुखं तस्य गतप्राण इवाभवत् ॥ ३२ ॥

मूलम्

पीड्यमानोऽतिशीतेन हरिवृक्षसमीपतः
न निद्रा न सुखं तस्य गतप्राण इवाभवत् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

आछाद्य दशनैरास्यमेवं नीता निशाखिला
भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा ॥ ३३ ॥

मूलम्

आछाद्य दशनैरास्यमेवं नीता निशाखिला
भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा ॥ ३३ ॥

विश्वास-प्रस्तुतिः

लुम्पको गतसञ्ज्ञस्तु सफलाया दिने तथा
रवौ मध्यङ्गते चैव सञ्ज्ञां लेभे स लुम्पकः ॥ ३४ ॥

मूलम्

लुम्पको गतसञ्ज्ञस्तु सफलाया दिने तथा
रवौ मध्यङ्गते चैव सञ्ज्ञां लेभे स लुम्पकः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

इतस्ततो विलोक्याथ व्यथितश्च तदासनात्
स्खलत्पद्भ्यां प्रचलितः खञ्जन्निव मुहुर्मुहुः ॥ ३५ ॥

मूलम्

इतस्ततो विलोक्याथ व्यथितश्च तदासनात्
स्खलत्पद्भ्यां प्रचलितः खञ्जन्निव मुहुर्मुहुः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवत्
न शक्तिर्जीवघाते तु लुम्पकस्य दुरात्मनः ॥ ३६ ॥

मूलम्

वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवत्
न शक्तिर्जीवघाते तु लुम्पकस्य दुरात्मनः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

फलानि च तदा राजन्नाजहार स लुम्पकः
यावत्समागतस्तत्र तावदस्तं गतो रविः ॥ ३७ ॥

मूलम्

फलानि च तदा राजन्नाजहार स लुम्पकः
यावत्समागतस्तत्र तावदस्तं गतो रविः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

किं भविष्यति तातेति स विलापं चकार ह
फलानि तत्र भूरीणि वृक्षमूले न्यवेशयत् ॥ ३८ ॥

मूलम्

किं भविष्यति तातेति स विलापं चकार ह
फलानि तत्र भूरीणि वृक्षमूले न्यवेशयत् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः
इत्युक्त्वा लुम्पकश्चैव निद्रां लेभे न वै निशि ॥ ३९ ॥

मूलम्

इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः
इत्युक्त्वा लुम्पकश्चैव निद्रां लेभे न वै निशि ॥ ३९ ॥

विश्वास-प्रस्तुतिः

रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः
फलैस्तु पूजनं मेने सफलायास्तथानघ ॥ ४० ॥

मूलम्

रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः
फलैस्तु पूजनं मेने सफलायास्तथानघ ॥ ४० ॥

विश्वास-प्रस्तुतिः

अकस्माद्व्रतमेवैतत्कृतवान्वै स लुम्पकः
तेन पुण्यप्रभावेन प्राप्तं राज्यमकण्टकम् ॥ ४१ ॥

मूलम्

अकस्माद्व्रतमेवैतत्कृतवान्वै स लुम्पकः
तेन पुण्यप्रभावेन प्राप्तं राज्यमकण्टकम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह
दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी ॥ ४२ ॥

मूलम्

सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह
दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी ॥ ४२ ॥

विश्वास-प्रस्तुतिः

राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः
तथेत्युक्ते तु वचसि दिव्यरूपधरोऽभवत् ॥ ४३ ॥

मूलम्

राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः
तथेत्युक्ते तु वचसि दिव्यरूपधरोऽभवत् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

मतिरासीत्ततस्तस्य परमा वैष्णवी नृप
दिव्याभरणशोभाढ्यो लेभे राज्यमकण्टकम् ॥ ४४ ॥

मूलम्

मतिरासीत्ततस्तस्य परमा वैष्णवी नृप
दिव्याभरणशोभाढ्यो लेभे राज्यमकण्टकम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

कृतं राज्यं तु तेनैवं वर्षाणि दशपञ्च च
मनोदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः ॥ ४५ ॥

मूलम्

कृतं राज्यं तु तेनैवं वर्षाणि दशपञ्च च
मनोदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च
गतः कृष्णस्य सान्निध्यं यत्र गत्वा न शोचति ॥ ४६ ॥

मूलम्

आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च
गतः कृष्णस्य सान्निध्यं यत्र गत्वा न शोचति ॥ ४६ ॥

विश्वास-प्रस्तुतिः

एवं यः कुरुते राजन्सफलाव्रतमुत्तमम्
इहलोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् ॥ ४७ ॥

मूलम्

एवं यः कुरुते राजन्सफलाव्रतमुत्तमम्
इहलोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

धन्यास्ते मानवा लोके सफलायां च ये रताः
तेषां च सफलं जन्म नात्र कार्या विचारणा ॥ ४८ ॥

मूलम्

धन्यास्ते मानवा लोके सफलायां च ये रताः
तेषां च सफलं जन्म नात्र कार्या विचारणा ॥ ४८ ॥

विश्वास-प्रस्तुतिः

पठनाच्छ्रवणाच्चैव करणाच्च विशाम्पते
राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ॥ ४९ ॥

मूलम्

पठनाच्छ्रवणाच्चैव करणाच्च विशाम्पते
राजसूयस्य यज्ञस्य फलमाप्नोति मानवः ॥ ४९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे पौषकृष्णासफलैकादशीनाम
चत्वारिंशोऽध्यायः ४०