०३९

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

वन्दे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहम्
विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम् ॥ १ ॥

मूलम्

पृच्छामि देवदेवेश संशयोऽस्ति महान्मम
लोकानां च हितार्थाय पापानां क्षयहेतवे ॥ २ ॥

मार्गशीर्षेसिते पक्षे भवेदेकादशी तु या
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते
एतदाचक्ष्व मे स्वामिन्विस्तरेण यथातथम् ॥ ३ ॥

श्रीकृष्ण उवाच-
साधु पृष्टं त्वया राजन्साधु ते विमलं यशः
कथयिष्यामि राजेन्द्र हरिवासरमुत्तमम् ॥ ४ ॥

उत्पन्ना चासिते पक्षे द्वादशी मम वल्लभा
मार्गशीर्षोत्पत्तिरिति मम देह समुद्भवा ॥ ५ ॥

सुरासुरवधार्थाय ह्युत्पन्ना भरतर्षभ
कथिता च मया सा वै तवाग्रे राजसत्तम ॥ ६ ॥

पूर्वा चैकादशी राजंस्त्रैलोक्ये सचराचरे
मार्गशीर्षे सिते पक्षे उत्पत्तिरिति नामतः ॥ ७ ॥

अतः परं प्रवक्ष्यामि मार्गशीर्षे सिता तु या
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ॥ ८ ॥

मोक्षा नामेति सा प्रोक्ता सर्वपापहरा परा
देवं दामोदरं राजन्पूजयेच्च प्रयत्नतः ॥ ९ ॥

तुलस्या मञ्जरीभिश्च धूपैर्दीपैः प्रयत्नतः
पूर्वेण विधिना चैव दशम्येकादशी तथा ॥ १० ॥

मोक्षा चैकादशी नाम्ना महापातकनाशिनी
रात्रौ जागरणं कार्यं नृत्यगीतस्तवैर्मम ॥ ११ ॥

शृणु राजन्प्रवक्ष्यामि दिव्यां पौराणिकीकथाम्
यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥ १२ ॥

अधोयोनिगतश्चैव पितरो यस्य पापतः
अस्याश्च पुण्यदानेन मोक्षं यान्ति न संशयः ॥ १३ ॥

चम्पके नगरे रम्ये वैष्णवैश्च विभूषिते
वैखानसो नाम नृपः पुत्रवत्पालयेत्प्रजाः ॥ १४ ॥

वसन्ति बहवो विप्रा वेदवेदाङ्गपारगाः
ऋद्धिमत्यः प्रजास्तस्य राज्ञो वैखानसस्य हि ॥ १५ ॥

एवं राज्यं प्रकुर्वाणो रात्रौ स्वप्नस्य मध्यतः
स्वकीयपितरो दृष्ट्वा अधोयोनिगता नृप ॥ १६ ॥

एवं दृष्ट्वा च तान्सर्वान्विस्मयाविष्टमानसः
कथयामास वृत्तान्तं स्वप्नजातं द्विजान्प्रति ॥ १७ ॥

राजोवाच-
मया स्वपितरो दृष्ट्वा नरकोपगता द्विजाः
तारयेति तनूजत्वमस्मान्निरयसागरात् ॥ १८ ॥

एवं ब्रुवाणास्ते नूनं रोदमाना मुहुर्मुहुः
मया दृष्टा द्विजश्रेष्ठा एतस्माच्च न मे सुखम् ॥ १९ ॥

एतद्राज्यं मम महत्सुखदायि न विद्यते
अश्वा गजास्तथा सर्वे रोचन्ते मे न भो द्विजाः ॥ २० ॥

न दारा न सुता मह्यं रोचन्ते द्विजसत्तमाः
किं करोमि क्व गच्छामि हृदयं मेऽवरुध्यते ॥ २१ ॥

तद्व्रतं तं तपोयोगं येनैव मम पूर्वजाः
मोक्षं प्रयान्ति सद्यो वै कथ्यतां च द्विजोत्तमाः ॥ २२ ॥

पुत्रे तु जीवितप्राये बलीयसि महात्मनि
पितास्ति नरके घोरे तस्य पुत्रस्य किं फलम् ॥ २३ ॥

ब्राह्मणा ऊचुः -
पर्वतस्य मुने राजन्निकटे चाश्रमो महान्
गम्यतां राजशार्दूल भूतं भव्यं विजानतः ॥ २४ ॥

तेषां श्रुत्वा ततो वाक्यं राजा वैखानसो महान्
जगाम चाशु तत्रैव चाश्रमं पर्वतस्य च ॥ २५ ॥

ब्राह्मणैर्वेष्टितो राजा राजभिश्च समन्वितः
आश्रमं विपुलं तस्य सम्प्राप्तो राजसत्तमः ॥ २६ ॥

तत्रर्ग्वेद यजुर्वेद सामाध्ययनकोविदैः
वेष्टितं मुनिभिश्चैव द्वितीयं ब्रह्मणो यथा ॥ २७ ॥

दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तथा
दण्डवत्प्रणतिं कृत्वा पस्पर्श चरणौ मुनेः ॥ २८ ॥

पप्रच्छ कुशलं तस्य सप्तस्वङ्गेष्वसौ मुनिः
राज्ये निष्कण्टकत्वं च राज्ञः सौख्यसमन्वितम् ॥ २९ ॥

राजोवाच -
तव प्रसादाद्भो स्वामिन्कुशलं मेऽङ्गसप्तसु
भक्ता ये विष्णुविप्रेषु कथं तेषां च विघ्नता ॥ ३० ॥

मया स्वपितरो दृष्टाः स्वप्ने च नरके स्थिताः
कस्य पुण्यस्य सामर्थ्यान्मोक्षं यान्ति द्विजोत्तम ॥ ३१ ॥

अयं मे संशयः स्वामिन्प्रष्टुं तं त्वामुपागतः
उपायः कश्चिदेवात्र कर्तव्यो मुनिसत्तम ॥ ३२ ॥

एतद्वाक्यं ततः श्रुत्वा पर्वतो मुनिसत्तमः
ध्यानस्तिमितनेत्रोऽभूत्तपस्वी ब्रह्मसन्निभः ॥ ३३ ॥

मुहूर्तमेकं ध्यानस्थो भूपतिं प्रत्युवाच ह
ज्ञातं हि तव राजेन्द्र पितॄणां पूर्वचेष्टितम् ॥ ३४ ॥

पूर्वजन्मनि तातस्ते क्षत्रियो राज्यगर्वितः
सपत्न्या ऋतुकाले तु राजधर्मप्रवर्तितः ॥ ३५ ॥

गतो ग्रामे तु तां त्यक्त्वा कार्यार्थी निजयोषितम्
तव पित्रा तु तस्याश्च न दत्तमृतुदानकम् ॥ ३६ ॥

तेन पापप्रभावेन नरके पितृभिः सह
पतितो राजशार्दूल तव तातः सुदारुणे ॥ ३७ ॥

ततः पुनरुवाचेदं राजा वैखानसो मुनिम्
केन व्रतप्रभावेन मोक्षस्तेषां भवेन्मुने ॥ ३८ ॥

मुनिरुवाच-
मार्गशीर्षे सिते पक्षे मोक्षा नामेति नामतः
सर्वैश्चेतद्व्रतं कार्यं पित्रे पुण्यं प्रदीयताम् ॥ ३९ ॥

तेन पुण्यप्रभावेन मोक्षस्तेषां भविष्यति
सत्यमेतन्महाभाग ब्रह्मणो वचनं यथा ॥ ४० ॥

मुनेर्वाक्यं ततः श्रुत्वा स्वगृहं पुनरागतः
मार्गशीर्षस्तथा मासः प्राप्तः कष्टेन तेन वै ॥ ४१ ॥

मुनेर्वाक्येन तत्कृत्वा व्रतं वैखानसो नृपः
अददत्पुण्यमखिलैः सार्द्धं पित्रे स भूमिपः ॥ ४२ ॥

दत्ते पुण्यक्षणेनैव पुष्पवृष्टिरभूद्दिवि
वैखानसस्य तातो वै पितृभिर्मोक्षमाविशत् ॥ ४३ ॥

राजानं चान्तरिक्षे स गिरं पुण्यामुवाच ह
स्वस्तिस्वस्तीति ते पुत्र प्रोच्य चैवं दिवं गतः ॥ ४४ ॥

एवं यः कुरुते राजन्मोक्षामेकादशीं शुभाम्
तस्य पापानि नश्यन्ति मृतो मोक्षमवाप्नुयात् ॥ ४५ ॥

नातः परतरा काचित्मोक्षदैकादशी भवेत्
पुण्यसङ्ख्यां न जानामि राजन्मे प्रियकृद्व्रतम् ॥ ४६ ॥

चिन्तामणिसमा ह्येषा नृणां मोक्षप्रदायिनी
पठनाच्छ्रवणादस्या वाजपेयफलं लभेत् ॥ ४७ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां उत्तरखण्डे उमापतिनारदसंवादे मार्गशीर्षशुक्ल मोक्षदा
एकादशीनामैकोनचत्वारिंशोऽध्यायः ३९