महादेव उवाच-
विश्वास-प्रस्तुतिः
शृणु नारद वक्ष्यामि माहात्म्यं जागरस्य च
यच्छ्रुत्वा मुक्तिमाप्नोति महापापी न संशयः ॥ १ ॥
मूलम्

नारद उवाच-
अहो विश्वेश्वरो विष्णुः पवित्रीकरणः सदा
तस्योपवासमाहात्म्यं श्रुतं हि त्वन्मुखाच्छिव ॥ २ ॥

तथापि श्रोतुमिच्छामि माहात्म्यं जागरस्य तु
कीदृक्जागरमाहात्म्यं रात्रो भक्तिस्तु कीदृशी ॥ ३ ॥

प्रहरेषु च या पूजा वद विश्वेश्वर प्रभो
त्वं लोकेषु सदा पूज्यस्त्वं हि देवो जनार्दनः
त्वं हि विश्वेश्वरो देवो यतो भक्तिर्जनार्दने ॥ ४ ॥

सर्वेषां चैव भक्तानां त्वं च श्रेष्ठ उमापतिः
लोकेस्मिन्सर्वदा भक्त्या तवाख्या वर्त्तते सदा ॥ ५ ॥

अतो येन प्रकारेण लोकानां मुक्तिरेव च
विश्वेश्वर वद त्वं तु माहात्म्यं जागरस्य तु ॥ ६ ॥

एकादश्यां जनो विष्णुं रात्रौ सम्पूज्य भक्तितः
कुर्याज्जागरणं विष्णोः पुरतो वैष्णवैः सह ॥ ७ ॥

गीतं वाद्यं तथा नृत्यं पुराणपठनं तथा
धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम् ॥ ८ ॥

फलमर्घं तथा श्रद्धा दानमिन्द्रियसंयमम्
सत्यान्वितं च विप्रेन्द्र वचोयुक्तं क्रियान्वितम् ॥ ९ ॥

विनिद्रं च मुदायुक्तो यः करोति नरः सदा
सर्वपापविनिर्मुक्तो जायते विष्णुवल्लभः ॥ १० ॥

रात्रौ जागरणे प्राप्ते निद्रां कुर्वन्ति वैष्णवाः
हारितं चोपवासं तैर्व्रतं वै विष्णुसञ्ज्ञकम् ॥ ११ ॥

ये कुर्वन्ति नराः प्राज्ञ जागरे विष्णुसञ्ज्ञके
जागरं कृष्णभावेन न स्वपन्ति कदाचन ॥ १२ ॥

कृष्णस्य नाम मनसा वदन्ति च पुनः पुनः
ते तु धन्यतमा ज्ञेया अस्यां रात्रौ विशेषतः ॥ १३ ॥

क्षणेक्षणे तु गोदानं घट्यां चैव चतुर्गुणम्
प्रहरे कोटिगुणितं चतुर्यामेष्वसङ्ख्यकम् ॥ १४ ॥

जागरे निमिषार्द्धे तु केशवाग्रे विशेषतः
तत्फलं कोटिगुणितं तस्य सङ्ख्या न विद्यते ॥ १५ ॥

नर्त्तनं कुरुते यस्तु केशवाग्रे नरोत्तमः
न फलं हीयते तस्य आजन्ममरणान्तिकम् ॥ १६ ॥

साश्चर्यं चैव सोत्साहं पापालापादिवर्जितम्
प्रदक्षिणसमायुक्तं नमस्कारपुरःसरम् ॥ १७ ॥

नीराजनसमायुक्तमनिर्विण्णेन चेतसा
यामेयामे महाभाग कुर्यादारार्तिकं हरेः ॥ १८ ॥

षड्विंशगुणसंयुक्तमेकादश्यां च जागरम्
यः करोति नरो भक्त्या न पुनर्जायते भुवि ॥ १९ ॥

य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः
जागरं वासरे विष्णोर्लीयते परमात्मनि ॥ २० ॥

धनवान्वित्तशाठ्येन यः करोति प्रजागरम्
तेनात्माहारितो नूनं कितवेन दुरात्मना ॥ २१ ॥

विष्णुजागरणे प्राप्ते उपहासं करोति यः
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ २२ ॥

वेदविद्ब्राह्मणो यस्तु नर्त्तनेन विशेषतः
उपहासपरः प्राप्तः स वै चाण्डाल उच्यते ॥ २३ ॥

निमिषं निमिषार्द्धं वा यः करोति प्रजागरम्
धर्मार्थकाममोक्षाणां प्राप्नोति पदमव्ययम् ॥ २४ ॥

वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः
रात्रौ जागरणे प्राप्ते निन्दां कुर्वन्व्रजत्यधः ॥ २५ ॥

मम पूजां प्रकुर्वाणो विष्णुनिन्दासु तत्परः
एकविंशत्कुलेनैव नरकं प्रतिपद्यते ॥ २६ ॥

विष्णुः शिवः शिवो विष्णुरेकमूर्तिर्द्विधा स्थिताः
तस्मात्सर्वप्रकारेण नैव निन्दां प्रकारयेत्
दष्टाः कलिभुजङ्गेन स्वपन्ति मधुहाहनि ॥ २७ ॥

कुर्वन्ति जागरं नैव मायया ते च मोहिताः
प्राप्ता एकादशी येषां कलौ जागरणं विना ॥ २८ ॥

ते विनष्टा न सन्देहो यस्माज्जीवितमध्रुवम्
उद्धृतं नेत्रयुग्मं तु दत्त्वा वै वैष्णवं पदम् ॥ २९ ॥

कृतं ये नैव पश्यन्ति पापिनो हरिजागरम्
अभावे वाचकस्याथ गीतं नृत्यं तु कारयेत् ॥ ३० ॥

वाचके सति देवर्षे पुराणं प्रथमं पठेत्
अश्वमेधसहस्रस्य वाजपेयायुतस्य च ॥ ३१ ॥
मूलम्
वाचके सति देवर्षे पुराणं प्रथमं पठेत्
अश्वमेधसहस्रस्य वाजपेयायुतस्य च ॥ ३१ ॥
विश्वास-प्रस्तुतिः
पुण्यं कोटिगुणं वत्स विष्णोर्जागरणे कृते
पितृपक्षे मातृपक्षे भार्यापक्षे तु वाडव ॥ ३२ ॥

कुलानुद्धरते चैतान्कृत्वा जागरणं हरेः
उपोषणदिने विद्धे जागरं पूजनं हरेः ॥ ३३ ॥

वृथादानादिकं सर्वं कृतघ्नेषु कृतं यथा
उपोषणदिने विद्धे प्रारब्धे जागरे स्थितिम् ॥ ३४ ॥

विहाय स्थानं तद्विष्णुः शापं दत्वा प्रगच्छति
अविद्धे वासरे विष्णोर्ये कुर्वन्ति प्रजागरम् ॥ ३५ ॥

तेषां मध्ये तु तुष्टः सन्नृत्यं तु कुरुते हरिः
यावद्दिनानि कुरुते जागरं केशवाग्रतः ॥ ३६ ॥

युगानि तानि तावन्ति विष्णुलोके महीयते
यावद्दिनानि वसते विना जागरणं हरेः ॥ ३७ ॥

तावद्वर्षसहस्राणि रौरवान्न निवर्तते
एकदश्यां शयानस्तु विना जागरणं हरेः ॥ ३८ ॥

मूकवत्तिष्ठते यो वै गानं पाठं न वाचरेत्
सप्तजन्मानि मूकत्वं जायतेऽजागरे हरेः ॥ ३९ ॥

यो न नृत्यति मूढात्मा पुरतो जागरे हरेः
पङ्गुत्वं तस्य जानीयात्सप्तजन्मानि वाडव ॥ ४० ॥

यः पुनः कुरुते गीतं नृत्यं जागरणं हरेः
ब्राह्मं पदं मदीयं च सत्यं वै तस्य वैष्णवम् ॥ ४१ ॥

यः प्रबोधयते लोकान्विष्णोर्जागरणे रतः
वसेच्चिरं तु वैकुण्ठे पितृभिः सह वैष्णवः ॥ ४२ ॥

मतिं प्रयच्छते यस्तु हरेर्जागरणं प्रति
षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः ॥ ४३ ॥

यत्किञ्चित्क्रियते पापं कोटिजन्मनि मानवैः
श्रीकृष्णजागरे सर्वं रात्रौ नश्यति वाडव ॥ ४४ ॥

शालग्रामशिलाग्रे ये कुर्वन्ति प्रतिजागरम्
यामेयामे फलं प्रोक्तं कोट्यैन्दवसमुद्भवम् ॥ ४५ ॥

सम्प्राप्ते वासरे विष्णोर्ये न कुर्वन्ति जागरम्
वृथा स्यात्तत्कृतं तेषां वैष्णवानां च निन्दया ॥ ४६ ॥

कामार्थौ सम्पदः पुत्राः कीर्तिर्लोकाश्च शाश्वताः
यज्ञायुतैर्न लभ्यन्ते द्वादशीजागरं विना ॥ ४७ ॥

मतिर्न जायते यस्य द्वादश्यां जागरं प्रति
न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥ ४८ ॥

यावत्पदानि चलति केशवायतनं प्रति
अश्वमेधसमानि स्युः जागरार्थं प्रगच्छतः ॥ ४९ ॥

पादयोः पतितं यावद्धरण्यां पांशु गच्छताम्
तावद्वर्षसहस्राणि जागरो वसते दिवि 6.37.॥ ५० ॥

तस्माद्गृहात्प्रगन्तव्यं जागरे केशवालये
कलौ मलविनाशाय द्वादशीद्वादशीषु च ॥ ५१ ॥
मूलम्
तस्माद्गृहात्प्रगन्तव्यं जागरे केशवालये
कलौ मलविनाशाय द्वादशीद्वादशीषु च ॥ ५१ ॥
विश्वास-प्रस्तुतिः
परापवादसंयुक्तं मनः प्रासाद वर्जितम्
शास्त्रहीनमगान्धर्वं तथा दीपविवर्जितम् ॥ ५२ ॥

शक्त्योपचाररहितमुदासीनं सनिन्दनम्
कलियुक्तं विशेषेण जागरं नवधा मतम् ॥ ५३ ॥

सशास्त्रं जागरं यच्च नृत्यगान्धर्वसंयुतम्
सवाद्यं तालासंयुक्तं सदीपं मधुभिर्युतम् ॥ ५४ ॥

उच्चारैस्तु समायुक्तं यथोक्तैर्भक्तिभावितैः
प्रसन्नं तुष्टिजननं सम्मूढं लोकरञ्जनम् ॥ ५५ ॥

गुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियम्
कर्त्तव्यं तत्प्रयत्नेन पक्षयोः शुक्लकृष्णयोः ॥ ५६ ॥

किं व्रतैर्बहुभिश्चीर्णैस्तीर्थवासेन तस्य किम्
द्वादशीवासरे प्राप्ते न कुर्याज्जागरं हरेः ॥ ५७ ॥

प्रवासेन त्यजेद्यस्तु पथिस्विन्नोऽपि वाडव
जागरं वासुदेवस्य द्वादश्यां तु समे प्रियः ॥ ५८ ॥

मद्भक्तो न हरेः कुर्याज्जागरं पापमोहितः
व्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत् ॥ ५९ ॥

न शैवो न च सौरोऽसौ न शाक्तो गणसेवकः
यो भुङ्क्ते वासरे विष्णोर्ज्ञेयः पश्वधिको हि सः ॥ ६० ॥

विप्रियं च कृतं तेन दुष्टेनैव च पापिना
मद्भक्तिबलमाश्रित्य यो भुङ्क्ते वै हरेर्दिने ॥ ६१ ॥

सबाह्याभ्यन्तरं देहं वेष्टितं पापकोटिभिः
मुच्यन्ते वासरे विष्णोर्ये कुर्वन्ति प्रजागरम् ॥ ६२ ॥

कूर्परं यमदूतानां दत्तं तेन यमस्य च
कृत्वा जागरणं विष्णोरविद्धं द्वादशीव्रतम् ॥ ६३ ॥

स्वर्गापेक्षा मुनिश्रेष्ठ मुक्ता ते नैव संशयः
वाञ्छितं नारकं सौख्यं विद्धं कृत्वा हरेर्दिनम् ॥ ६४ ॥

निहताः पितरस्तेन देवानां वै वधः कृतः
दत्तं राज्यं तु दैत्यानां कृत्वा विद्धं हरेर्दिनम् ॥ ६५ ॥

यो नृत्यति प्रहृष्टात्मा कृत्वा वै करताडनम्
गीतं कुर्वन्मुखेनापि दर्शयन्कौतुकान्बहून् ॥ ६६ ॥

पुरतो वासुदेवस्य रात्रौ जागरणे स्थितः
पठन्कृष्णचरित्राणि रञ्जयन्वैष्णवान्गणान् ॥ ६७ ॥

मुखेन कुरुते वाद्यं सम्प्रहृष्टतनूरुहः
दर्शयन्विविधान्भृत्यान्स्वेच्छालापान्प्रकारयन् ॥ ६८ ॥

भावैरेतैर्नरो यस्तु कुरुते जागरे हरेः
निमिषेनिमिषे पुण्यं तीर्थकोटिफलं स्मृतम् ॥ ६९ ॥

अनुद्विग्नमना यस्तु धूपनीराजनं हरेः
कुरुते जागरे रात्रौ सप्तद्वीपाधिपो भवेत् ॥ ७० ॥

यानि कानि च पापानि ब्रह्महत्यासमानि च
कृष्णा ह जागरात्तानि विलयं यान्ति खण्डशः ॥ ७१ ॥

एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः
एकतो देवदेवस्य जागरः कृष्णवल्लभः ॥ ७२ ॥
मूलम्
एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः
एकतो देवदेवस्य जागरः कृष्णवल्लभः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
तत्र काशी पुष्करं च प्रयागं नैमिषं गया
शालग्राममहाक्षेत्रमर्बुदारण्यमेव च ॥ ७३ ॥

पौष्करं मथुरा तत्र सर्वतीर्थानि चैव हि
यज्ञा वेदाश्च चत्वारो व्रजन्ति हरिजागरम् ॥ ७४ ॥

गङ्गा सरस्वती तापी यमुना च शतद्रुका
चन्द्रभागा वितस्ता च नद्यः सर्वास्तु तत्र वै ॥ ७५ ॥

सरांसि च ह्रदाः सर्वे समुद्राः सर्व एव हि
एकादश्यां द्विजश्रेष्ठ गच्छन्ति कृष्णजागरम् ॥ ७६ ॥

स्पृहणीया हि देवानां ये नराः कृष्णजागरे
नृत्यन्ति गीतं कुर्वन्ति वीणावाद्यप्रहर्षिताः ॥ ७७ ॥

एवं जागरणं कृत्वा सम्पूज्य च महाहरिम्
द्वादश्यां पारणं कृत्वा स्वशक्त्या वैष्णवैः सह ॥ ७८ ॥

शृणु ब्रह्मन्प्रवक्ष्यामि द्वादशीमाहात्म्यमुत्तमम्
द्वादशी तु सदा ज्ञेया पुत्रदा मोक्षदायिनी ॥ ७९ ॥

प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत्
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ॥ ८० ॥

प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव
पारणं च ततः कुर्याद्यथासम्भवमग्रतः ॥ ८१ ॥

अत ऊर्ध्वं यथेष्टं तु कारयेच्च यथाविधि
यदा तु द्वादशी स्वल्पा पारणेन भवेद्दिवज ॥ ८२ ॥

तदा रात्रौ तु कर्त्तव्यं पारणं मुक्तिमिच्छता
तदा न रात्रिदोषः स्यान्निषिद्धं न भवेत्क्वचित् ॥ ८३ ॥

यदुक्तं निशि न स्नायान्महानिशि न भोजयेत्
तत्पूर्वपरयामाभ्यां दिनवत्कर्म कारयेत् ॥ ८४ ॥

यदा भवति स्वल्पा तु द्वादशी पारणे दिने
उषःकाले द्वयं कुर्यात्प्रातर्मध्याह्निकं तथा ॥ ८५ ॥

द्वादशी साधिता येन नरेण भुवि सर्वदा
तस्य पुण्यमहं वक्तुं न समर्थो विशेषतः ॥ ८६ ॥

साधयित्वाखिलान्कामान्प्राप्नुयुश्च महाजनाः
अम्बरीषादयः सर्वे ये भक्ता भुवि विश्रुताः ॥ ८७ ॥

द्वादशीं साधयित्वा तु ते गता विष्णुसद्मनि
सत्यं सत्यं पुनः सत्यं यदुक्तं तु मया तव ॥ ८८ ॥

नास्ति विष्णुसमो देवो न तिथिर्द्वादशीसमा
अत्र दत्तं च भुक्तं च तथा पूजादिकं च यत् ॥ ८९ ॥

तत्सर्वं पूर्णतां याति पूजिते माधवे सति
किं पुनर्बहुनोक्तेन भक्तानां वल्लभो हरिः ॥ ९० ॥

प्रददात्यखिलान्कामान्यावदाभूतसम्प्लवम्
द्वादश्यां चैव यद्दत्तं तत्सर्वं सफलं भवेत् ॥ ९१ ॥

कुरुक्षेत्रेषु यद्दत्तं निष्फलं नैव जायते
तद्वच्च द्वादशीदत्तं भवेद्देवर्षिसत्तम ॥ ९२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे द्वादशीएकादशीजागरणमहिमानाम सप्तत्रिंशोऽध्यायः ३७