०३६

नारद उवाच-

विश्वास-प्रस्तुतिः

कीदृशी स्यान्महादेव पक्षवर्द्धनिसञ्ज्ञका
यया वै कृतया जन्तुर्महपापात्प्रमुच्यते ॥ १ ॥

मूलम्

श्रीमहादेव उवाच-
अमा वा यदि वा पूर्णा सम्पूर्णा जायते तदा
भूत्वा वै नाडिकाषष्ठिर्जायते प्रतिपद्दिने
अश्वमेधायुतैस्तुल्या सा भवेत्पक्षवर्द्धिनी ॥ २ ॥

पूजाविधिं तु पृच्छामि साम्प्रतं देवसत्तम
यत्कृते तु महादेव महाफलमवाप्नुयात् ॥ ३ ॥

महादेव उवाच-
पूजाविधिं प्रवक्ष्यामि साम्प्रतं द्विजनन्दन
पूजिते चार्चिते विष्णौ फलं प्राप्नोत्यसंशयः ॥ ४ ॥

येन पूजाविधानेन तुष्टिं प्राप्नोति माधवः
अव्रणं जलपूर्णं च कुम्भं चन्दनचर्चितम् ॥ ५ ॥

पञ्चरत्नसमायुक्तं पुष्पमालाभिवेष्टितम्
स्थाप्यं ताम्रमयं पात्रं सगोधूमं घटोपरि ॥ ६ ॥

सौवर्णं कारयेद्देवं माससञ्ज्ञाभिनामकम्
पञ्चामृतेन विधिना स्नपनं सुमनोरमम् ॥ ७ ॥

कारयेद्देवदेवेशं जगन्नाथं जगत्पतिम्
विलेपनं तु कर्त्तव्यं कुङ्कुमागरुचन्दनैः ॥ ८ ॥

वस्त्रयुग्मं च दातव्यं छत्रोपानहसंयुतम्
पूजयेद्देवताधीशं कुम्भपात्रोपरिस्थितम् ॥ ९ ॥

पद्मनाभाय वै पादौ जानुनी विश्वमूर्त्तये
ऊरू वै ज्ञानगम्याय कटी दानप्रदाय च ॥ १० ॥

उदरं विश्वनाथाय हृदयं श्रीधराय च
कण्ठं कौस्तुभकण्ठाय बाहू क्षत्रान्तकारिणे ॥ ११ ॥

ललाटं व्योममूर्ध्ने तु शिरो वै सर्वरूपिणे
स्वनाम्ना चैव कमलां सर्वाङ्गीं दिव्यरूपिणीम् ॥ १२ ॥

एवं विधिवत्सम्पूज्य ततोऽर्घं दापयेत्सुधीः
नालिकेरेण शुभ्रेण देवदेवस्य चक्रिणः ॥ १३ ॥

अनेनैवार्घदानेन सम्पूर्णं जायते व्रतम्
संसारार्णवमग्नं मां समुद्धर जगत्पते ॥ १४ ॥

त्वमीशः सर्वलोकानां त्वं साक्षाच्च जगत्पतिः
गृहाणार्घं मया दत्तं पद्मनाभ नमोस्तु ते ॥ १५ ॥

नैवेद्यानि सुहृद्यानि षड्रसानि विशेषतः
देयानि तु विशेषेण केशवाय सुभक्तितः ॥ १६ ॥

नागपत्रं सकर्पूरं दद्याद्देवस्य भक्तितः
घृतेन दीपकं कुर्यात्तिलतैलेन वा पुनः ॥ १७ ॥

कृत्वा सम्यग्विधानेन गुरोः पूजां प्रकारयेत्
वस्त्राणि चैव चोष्णीषं कञ्चुकं च प्रदापयेत् ॥ १८ ॥

दक्षिणां च यथाशक्त्या गुरुवे सम्प्रदापयेत्
भोजनं चैव ताम्बूलं दत्त्वा चार्घं प्रदापयेत् ॥ १९ ॥

स्ववित्तस्यानुमानेन यथाशक्त्या तु निर्द्धनैः
कार्या सम्यक्प्रयत्नेन द्वादशी पक्षवर्द्धिनी ॥ २० ॥

ततो जागरणं कुर्याद्गीतनृत्यसमन्वितम्
पुराणपाठसहितं हास्याह्लादसमन्वितम् ॥ २१ ॥

स्तुवन्ति च प्रशंसन्ति जागरं चक्रपाणिनः
नित्योत्सवो भवेत्तेषां गृहे वै दशजन्मसु ॥ २२ ॥

अतो धन्यतमा चेयं कर्त्तव्या पक्षवर्द्धनी
कृत्वा तु सकलं पुण्यं फलं प्राप्नोत्यसंशयम् ॥ २३ ॥

पक्षवर्द्धनी माहात्म्यं ये शृण्वन्ति मनीषिणः
तैः कृतं सत्कृतं सर्वं यावदाभूतसम्प्लवम् ॥ २४ ॥

पञ्चाग्निसाधने पुण्यं यच्च स्यात्तीर्थसाधने
तत्पुण्यं समवाप्नोति विष्णोर्जागरकारणात् ॥ २५ ॥

पक्षवर्द्धनिका पुण्या पवित्रा पापनाशिनी
उपवासकृता विप्र हत्याकोटिविनाशिनी ॥ २६ ॥

वसिष्ठेन कृता पूर्वं भारद्वाजेन वै मुने
ध्रुवेण चाम्बरीषेण कृतेयं विष्णुवल्लभा ॥ २७ ॥

इयं काशीसमा पुण्या इयं वै द्वारका समा
उपोषिता च भक्तेन वाञ्छितं च ददात्यसौ ॥ २८ ॥

इयं धन्या धन्यतमा हत्यायुतविनाशिनी
कर्त्तव्या तु विशेषेण वैष्णवैर्ज्ञानतत्परैः ॥ २९ ॥

अहो सर्वेश्वरो देवः संसेव्यो व्रततत्परैः
किमन्यद्बहुनोक्तेन कर्तव्यं व्रतमुत्तमम् ॥ ३० ॥

यथा च वर्द्धते चन्द्रः सिते पक्षे विशेषतः
तथा वै वर्द्धते भक्त कारणात्पक्षवर्द्धिनी ॥ ३१ ॥

सूर्योदये यथा ध्वान्तं नश्यते तत्क्षणादपि
तथाघं नाशमाप्नोति करणात्पक्षवर्द्धिनी ॥ ३२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे-
उमापतिनारदसंवादे पक्षवर्द्धनी एकादशीमाहात्म्यन्नाम षट्त्रिंशोऽध्यायः ३६