महादेव उवाच-
विश्वास-प्रस्तुतिः
अतस्त्वां सम्प्रवक्ष्यामि उन्मीलनीमनुत्तमाम्
यस्याः श्रवणमात्रेण जन्मसंसारबन्धनात् ॥ १ ॥
मूलम्

पापात्मा मुच्यते पापैः स्वर्गलोके महीयते
देवताः पितरश्चैव तस्या गतिमवाप्नुयुः ॥ २ ॥

विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात्
तस्या व्रतान्न सन्देहः स्वर्गलोके महीयते ॥ ३ ॥

स्वस्थानं तत्र वै प्राप्तः शिवलोके महीयते
अतस्त्वं कुरुषे राजन्वैष्णवानां तु पूजनम् ॥ ४ ॥

वैष्णवानां तु ये राजन्सेवा कुर्वन्ति नित्यशः
तेषां दण्डं च कुरुषे नो वा तेषां नराधिपः ॥ ५ ॥

भोजनानन्तरं तेषां भोजनं कुरुते नृप
तैरेव पूजितो विष्णुर्यैर्भक्त्या तु प्रपूजितः ॥ ६ ॥

शालग्रामशिलाभूतां दत्त्वा मूर्द्धनि प्रत्यहम्
त्वं धारयसि भूपाल कण्ठे नित्यं सुभक्तितः ॥ ७ ॥

धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूपते
आरार्तिकं सदा कृत्वा भक्तानां वेदयेर्नृप ॥ ८ ॥

शङ्खोदकं हरेर्मूर्ध्नि भ्रामयित्वा तु भक्तितः
नित्यं बिभर्षि शिरसि शेषं यच्छसि वैष्णवान् ॥ ९ ॥

नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम्
विष्वक्सेनाय दत्वा वै स्वयं भुनक्षि वाडव ॥ १० ॥

विष्णोर्निवेदितं चान्नं वैष्णवैः सह भुज्यते
नित्यं नामसहस्रेण भक्त्या स्तौषि जनार्दनम् ॥ ११ ॥

दीपार्घदानं वै विष्णोः कुरुषे गीतनर्तनम्
श्यामाङ्कुरैः पूजयसे पूज्यन्ते नृपसत्तम ॥ १२ ॥

श्यामाङ्कुरैः सदा वत्स पूजनं चाति दुर्ल्लभम्
पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते ॥ १३ ॥

अतो वै नास्ति लोकेऽस्मिन्दूर्वायाः सदृशं भुवि
तया वै पूजनं कार्यं विष्णुसायुज्यमिच्छता ॥ १४ ॥

अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह
यवाक्षतैर्विशेषेण पूजनं कुरुषेन वा ॥ १५ ॥

पक्षेपक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम्
यत्कृतं तु महाराज महापापप्रणाशनम् ॥ १६ ॥

मोक्षदं सुखदं चैव तथायुष्यप्रदं सदा
एतद्विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम् ॥ १७ ॥

गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम्
सर्वरोगादिशमनं पवित्रं कायशोधनम् ॥ १८ ॥
मूलम्
गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम्
सर्वरोगादिशमनं पवित्रं कायशोधनम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
व्रतमेतच्च कुरुषे नो वा चैव नराधिप
दशमीवेधरहितं कुरुषे जागरान्वितम् ॥ १९ ॥
मूलम्
व्रतमेतच्च कुरुषे नो वा चैव नराधिप
दशमीवेधरहितं कुरुषे जागरान्वितम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम्
गोपीचन्दनजं पत्रं भाले वा नृपसत्तम ॥ २० ॥

धारितं सर्वलोकानां पवित्रीकरणं नृप
अतस्त्वं च धारयसे गोपीचन्दनसम्भवम् ॥ २१ ॥

ब्रह्महा हेमहारी च मद्यपानी तथैव च
अगम्यगो महापापी तथा ह्यनृतभाषितः ॥ २२ ॥
मूलम्
ब्रह्महा हेमहारी च मद्यपानी तथैव च
अगम्यगो महापापी तथा ह्यनृतभाषितः ॥ २२ ॥
विश्वास-प्रस्तुतिः
ते सर्वे मुक्तिमायान्ति तिलकं धारणादृताः
बिभर्षि कण्ठे नित्यं त्वं धात्रीफलसमुद्भवाम् ॥ २३ ॥

मालां मुख्यायुतसमां तुलसीपत्रसम्भवाम्
शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम् ॥ २४ ॥

नित्यं पूजयसे भूप भुक्तिमुक्तिफलप्रदाम्
पद्मसञ्ज्ञं पुराणं वै पठसे पुरतो हरेः ॥ २५ ॥

चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपते
वासरं वासुदेवस्य सवेधं कुर्वतो नरान् ॥ २६ ॥

निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतः
सवेधं वासरं विष्णोर्यस्मिन्राष्ट्रे प्रवर्तते ॥ २७ ॥

लिप्यते तेन पापेन राजा भवति नारकी
वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम्
कुलकोटिं समुद्धृत्य विष्णुलोके महीयते ॥ २८ ॥

गौतम उवाच-
शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम्
यं श्रुत्वा पापिनः सर्वे मुक्तिमायान्ति तत्क्षणात् ॥ २९ ॥

द्वादशीसम्भवं पुण्यं मया ख्यातं न कस्यचित् ॥ ३० ॥

वैष्णवोऽसि महाराज भक्तो भागवते नृणाम्
वैष्णवं तु महागुह्यं तद्व्रतं त्वं निशामय ॥ ३१ ॥

उन्मीलनी नाम पुरा भक्त्या मे माधवेन तु
कथिता सुप्रसन्नेन तां ते भूप वदाम्यहम् ॥ ३२ ॥

एकादशी अहोरात्रं प्रभाते घटिका भवेत्
उन्मीलनी तु सा ज्ञेया विशेषेण हरिप्रिया ॥ ३३ ॥

त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च
कोट्यंशे नैव तुल्यानि मखा वेदास्तपांसि च ॥ ३४ ॥

उन्मीलनी समं किञ्चिन्न भूतं न भविष्यति
प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करः ॥ ३५ ॥

शैलो हिमाचलो नैव न मेरुर्गन्धमादनः
शैलो न नीलनिषधो न विन्ध्यो नैव नैमिषम् ॥ ३६ ॥

गोदावरी न कावेरी चन्द्रभागा न वेदिका
न तापी न पयोष्णी च न क्षिप्रा नैव चन्दना ॥ ३७ ॥

चर्मण्वती च सरयूश्चन्द्रभागा न गण्डिका
गोमती च विपाशा च शोणाख्यश्च महानदः ॥ ३८ ॥

किमत्र बहुनोक्तेन भूयोभूयो नराधिप
उन्मीलनीसमं किञ्चिन्न देवः केशवात्परः ॥ ३९ ॥

उन्मीलनीमनु प्राप्य यैः कृतं केशवार्चनम्
पापचक्रसमूहस्य राशयः पतिताः क्षणात् ॥ ४० ॥

यस्मिन्मासे महीपाल तिथिरुन्मीलनी भवेत्
तन्मासनाम्ना गोविन्दः पूजनीयः प्रयत्नतः ॥ ४१ ॥

जातरूपमयः कार्यं मासनाम्ना तु माधवः
स्वशक्त्या विश्वरूपस्तु श्रद्धाभक्तिसमन्वितः ॥ ४२ ॥

पवित्रोदकसंयुक्तं पञ्चरत्नसमन्वितम्
गन्धपुष्पाक्षतैर्युक्तं कुम्भं स्रग्दामभूषितम् ॥ ४३ ॥

पात्रं च सोदकं कार्यं गोधूमैश्चापि पूरितम्
नानारत्नैश्च संयुक्तं नानागन्धैः प्रपूजितम् ॥ ४४ ॥

मल्लिकामोदसंयुक्तं जातीपुष्पैः प्रपूजितम्
श्वेताख्यैस्तन्दुलैश्चैव पूरणीयः प्रयत्नतः ॥ ४५ ॥

प्रदद्याद्वस्त्रयुग्मं तु उपवीतं तु सोत्तरम्
उपानहौ तु राजर्षे आतपत्रं शिरोपरि ॥ ४६ ॥

भोजनं जलपात्रं च सप्तधान्यं तिलैः सह
रूप्यं चैव तु कार्पासं पायसं मुद्रिका हरेः ॥ ४७ ॥

धेनुर्वात्र तु दातव्या वत्सालङ्कारसंयुता
सुवर्णशृङ्गी रौप्यखुरी ताम्रपृष्ठी तथैव च ॥ ४८ ॥

कांस्यदोहीं रत्नपुच्छीं दद्याद्वै गुरवे तदा
शय्यां सोपस्करां दद्यात्साधवे भक्तिपूर्वकम् ॥ ४९ ॥

धूपं दीपं तु नैवेद्यं फलपत्रं निवेदयेत्
पूजनीयो महाभक्तैर्मन्त्रैरेभिस्तु केशवः 6.35.॥ ५० ॥

तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथा
मासनाम्नैव चरणौ जानुनी विष्णुरूपिणे ॥ ५१ ॥

गुह्ये तु गुह्यपतये कटे वै पीतवाससे
ब्रह्ममूर्तिभृते नाभावुदरे विश्वयोनये ॥ ५२ ॥

हृदये ज्ञानगम्याय कण्ठे वैकुण्ठमूर्तये
ऊर्द्ध्वगाय ललाटे तु बाहौ दक्षान्तकारिणे ॥ ५३ ॥

उत्तमाङ्गे सुरेशाय सर्वाङ्गे सर्वमूर्तये
स्वनाम्ना चायुधादीनि पूजनीयानि भक्तितः ॥ ५४ ॥

अर्घदानं प्रकर्तव्यं नालिकेरादिभिः समम्
शङ्खोपरि जले कृत्वा गन्धपुष्पाक्षतान्वितम् ॥ ५५ ॥

सूत्रेणावेष्टितं कृत्वा दद्यादर्घं विधानतः
देवदेव महादेव श्रीकेशव जनार्दन ॥ ५६ ॥

सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धन
शोकमोहमहापापान्मामुद्धर भवार्णवात् ॥ ५७ ॥

सुकृतं न कृतं किचिज्जन्मकोटिशतैरपि
तथापि मां महास्वामिन्मामुद्धर भवार्णवात् ॥ ५८ ॥

व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः
वियोनिं च गताश्चान्ये पापमृत्युवशं गताः ॥ ५९ ॥

ये भविष्यन्ति येऽतीताः प्रेतलोकान्समुद्धर
श्रान्तोस्म्यहमधीनस्य भक्तिरव्यभिचारिणी ॥ ६० ॥

दत्तमर्घं मया तुभ्यं भक्त्या गृह्ण गदाधर
दत्वार्घं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसम्भवैः ॥ ६१ ॥

स्तोत्रैर्नीराजनैर्गीतैर्भृत्यैः सन्तोषयेद्धरिम्
वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद्गुरुम् ॥ ६२ ॥

तथातथा विधातव्यं गुरुर्वै प्रीतिमाप्नुयात्
लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः ॥ ६३ ॥

अतो वै गुरुपूजा च कर्त्तव्या वै प्रयत्नतः
अहितं यो नाशयति स्वहितं दर्शयेत्सदा ॥ ६४ ॥

स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः
अकुर्वन्वित्तशाठ्यं तु गुरवे तं निवेदयेत् ॥ ६५ ॥

गुरोर्निवेदिते भूप परिपूर्णं भवेद्व्रतम्
कृत्वा दिवातनं कर्म भोजनं ब्राह्मणैः सह ॥ ६६ ॥

कर्त्तव्यं नृपशार्दूल दिनं नेयं कथानकैः
अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम् ॥ ६७ ॥

कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ ॥ ६८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादे उन्मीलनीव्रतन्नाम पञ्चत्रिंशोऽध्यायः ३५