नारद उवाच-
विश्वास-प्रस्तुतिः
त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः
यच्छ्रुत्वा मुच्यते लोकः कर्मबन्धनतः क्षणात् ॥ १ ॥
मूलम्

महादेव उवाच-
सर्वपापौघशमनं महादुःखविनाशनम्
शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम् ॥ २ ॥

कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम्
त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम ॥ ३ ॥

प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः
त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने ॥ ४ ॥

न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत्
त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः ॥ ५ ॥

नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः
बहुभिर्व्रतसङ्घैश्च पूजितैस्त्रिदशैरपि ॥ ६ ॥

मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि
मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः ॥ ७ ॥

द्विजानां दुर्विदं साङ्ख्यं कलिकाले विशेषतः
अनिग्रहश्चेन्द्रियाणां स्थिरत्वं मनसो नहि ॥ ८ ॥

विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम्
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी ॥ ९ ॥

मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे
क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा ॥ १० ॥

त्रिस्पृशां ये करिष्यन्ति विषयैरपि संयुताः
तेषामपि मया दत्तो मोक्षः साङ्ख्यविवर्जिनाम् ॥ ११ ॥

कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी
बहुभिर्मुनिसङ्घैश्च कृतेयं च महामुने ॥ १२ ॥

कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि
सोमेन सोमजेनापि पापकोटिविनाशिनी ॥ १३ ॥

यस्या उपोषणकृतो हत्यायुक्त महेशितुः
हस्ताद्ब्रह्मकपालं तु तत्क्षणात्पतितं भुवि ॥ १४ ॥

कलिकल्मषकोट्यौघैर्मुक्ता देवी त्रिमार्गगा
उपदेशान्माधवस्य त्रिस्पृशा समुपोषणात् ॥ १५ ॥

हत्याष्टौ बाहुवीर्यस्य पूर्वजाता महामुने
गता भृगूपदेशेन त्रिस्पृशा समुपोषणात् ॥ १६ ॥

शतायुधेन विप्रेन्द्र निहतो ब्राह्मणो वने
ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशा समुपोषणात् ॥ १७ ॥

जीवोपदेशाच्छक्रस्य हत्या नमुचिसम्भवा
विनष्टा मुनिमुख्येन्द्र त्रिस्पृशा समुपोषणात् ॥ १८ ॥

ब्रह्महत्यादि पापानि त्रिस्पृशासमुपोषणात्
विलयं यान्ति विप्रेन्द्र पापेष्वन्येषु का कथा ॥ १९ ॥

न प्रयागे न काश्यां तु गोमत्यां कृष्णसन्निधौ
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा यदि नो कृता ॥ २० ॥

मरणाच्च प्रयागे तु गोमत्यां कृष्णसन्निधौ
स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती ॥ २१ ॥

गृहेपि जायते मुक्तिस्त्रिस्पृशा समुपोषणात्
विषये वर्त्तमानस्य कामभोगान्वितस्य च ॥ २२ ॥

निवृत्तविषयस्यापि मुक्तिः साङ्ख्येन दुर्ल्लभा
तस्मात्कुरुष्व विप्रेन्द्र त्रिस्पृशां मोक्षदायिनीम् ॥ २३ ॥

कीदृशं तत्सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम्
मुक्तिदं यद्दिवजातीनां त्वया प्रोक्तं ममाधुना ॥ २४ ॥

जाह्नव्यै सा पुरा विप्र त्रिस्पृशा माधवेन तु
प्राची सरस्वती तीरे कथिता त्वनुकम्पया ॥ २५ ॥

जाह्नव्युवाच-
कलिकल्मष कोट्यौघैर्ब्रह्महत्यादिकैर्युताः
कलिकाले हृषीकेश स्नानं कुर्वन्ति मज्जले ॥ २६ ॥

तेषां पापशतैर्दोषैर्देहो मे कलुषी कृतः
कथं यास्यति मे देव पातकं गरुडध्वज ॥ २७ ॥

प्राचीमाधव उवाच-
कथयामि न सन्देहो मा पुत्रि रोदनङ्कुरु
श्यामोवटस्तु मे स्थानं प्राचीदेवी ममाग्रतः ॥ २८ ॥

वहते ब्रह्मतनया दृष्ट्वाग्रे च सुरेश्वरीम्
स्नानं कुरुष्व नित्यं त्वं त्वत्र पूता भविष्यसि ॥ २९ ॥

यत्र ब्रह्मसुता प्राची तत्राहं नात्र संशयः
तीर्थकोटिशतैर्युक्तः सुरैः सह वसाम्यहम् ॥ ३० ॥

पवित्रं मत्प्रियं स्थानं हत्याकोटिविनाशनम्
सन्तुष्टेन मया दत्तं यस्मात्प्राणाधिकासि मे ॥ ३१ ॥

तीर्थकोटिसहस्राणि नित्यं तिष्ठन्ति जाह्नवि
प्राचीसरस्वती तोये सर्वदैव ममाज्ञया ॥ ३२ ॥

ब्रह्मवधात्सुरापानात्गोधवाद्वृषलीवधात्
ब्रह्मस्वहरणादेव मातापित्रोस्त्वपूजनात् ॥ ३३ ॥

चक्रियानाद्गुरुद्रोहादभक्ष्यस्य च भक्षणात्
सर्वपापस्य करणात्प्राची ब्रह्मसुता सुते ॥ ३४ ॥

व्यपोहयति पापानि सकृत्स्नानेन मेऽग्रतः
कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि ॥ ३५ ॥
मूलम्
व्यपोहयति पापानि सकृत्स्नानेन मेऽग्रतः
कुरु स्नानं सरिच्छ्रेष्ठे विपापा त्वं भविष्यसि ॥ ३५ ॥
विश्वास-प्रस्तुतिः
जाह्नव्युवाच-
नाहं शक्नोमि देवेश आगन्तुं नित्यमेव हि
कथं नश्यन्ति पापानि कथयस्वेह माधव ॥ ३६ ॥
मूलम्
जाह्नव्युवाच-
नाहं शक्नोमि देवेश आगन्तुं नित्यमेव हि
कथं नश्यन्ति पापानि कथयस्वेह माधव ॥ ३६ ॥
विश्वास-प्रस्तुतिः
प्राचीमाधव उवाच-
न शक्नोषि यदागन्तुं नित्यमेव हि जाह्नवि
तदान्यत्सम्प्रवक्ष्यामि यस्मान्मत्पादसम्भवा ॥ ३७ ॥

सरस्वत्यधिका या च तीर्थकोटिशताधिका
मखकोट्यधिका वापि व्रतदानाधिका च या ॥ ३८ ॥

जपहोमाधिका या च चतुर्वर्गफलप्रदा
साङ्ख्ययोगाधिका या च त्रिस्पृशा क्रियतां शुभा ॥ ३९ ॥

यस्मिन्मासे समायाति सिता च यदि वासिता
कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात्प्रमुच्यते ॥ ४० ॥
मूलम्
यस्मिन्मासे समायाति सिता च यदि वासिता
कर्तव्या सा सरिच्छ्रेष्ठे कृते पापात्प्रमुच्यते ॥ ४० ॥
विश्वास-प्रस्तुतिः
जाह्नव्युवाच-
कीदृशी त्रिस्पृशा देव ममाख्याहि सुमाधव
ईदृशो महिमा यस्यास्त्वया प्रोक्तो ममाधुना ॥ ४१ ॥

दशम्येकादशीभद्रा दिनैकस्मिन्यदा भवेत्
त्रिस्पृशा सा भवेद्देव वान्यथा वद मे प्रभो ॥ ४२ ॥

कृष्ण उवाच-
आसुरी त्रिस्पृशा देवी या त्वया परिकीर्तिता
वर्जनीया प्रयत्नेन वृत्तिहीनो यथा पतिः ॥ ४३ ॥

असुराणां तु सा प्रोक्ता आयुर्बलविनाशिनी
वर्जनीया प्रयत्नेन यथा नारी रजस्वला ॥ ४४ ॥

स्वजातिं च परित्यज्य या गताधमजातिषु
सैव त्याज्यं विशेषेण दशमीयुक्तं हि मद्दिनम् ॥ ४५ ॥

यथा रजस्वलासङ्गाद्दूष्यन्ते ज्ञानवर्जिताः
तथैव दशमीयुक्तं मद्दिनं दूषितं नृणाम् ॥ ४६ ॥

हत्यायुतशतं हन्ति त्रिस्पृशा समुपोषिता
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥ ४७ ॥

त्रिस्पृशा सा तु विज्ञेया दशमीसहिता न हि
कृत्वापराधं मुच्येत प्रायश्चित्ते कृते नरः ॥ ४८ ॥

दशमीवेधजं दोषं न क्षमामि सुरापगे
भुक्तं हालाहलं तेन विषस्य भक्षणं कृतम् ॥ ४९ ॥

दशमीमिश्रितं येन कृतमेकादशीव्रतम्
इति मत्वा न कर्त्तव्यं मद्दिनं दशमीयुतम् 6.34.॥ ५० ॥

जन्मकोटिकृतम्पुण्यं सन्तानं याति सङ्क्षयम्
पातयेत्स्वकुलं स्वर्गान्नयते रौरवादिकम् ॥ ५१ ॥

स्वदेहं शोधयित्वा तु कर्त्तव्यो मम वासरः
वृद्धौ त्याज्या विना वेधाच्छ्रवणादिषु संयुता ॥ ५२ ॥

जन्मपुण्यं क्षयं याति एकादश्युपवासिनाम्
संवृद्धौ तु विशेषेण सन्देहे समुपस्थिते ॥ ५३ ॥

ममाज्ञया च कर्त्तव्या द्वादशीवल्लभा मम ॥ ५४ ॥
मूलम्
ममाज्ञया च कर्त्तव्या द्वादशीवल्लभा मम ॥ ५४ ॥
विश्वास-प्रस्तुतिः
जाह्नव्युवाच-
करिष्येऽहं जगन्नाथ त्रिस्पृशां वचनात्तव
सर्वपापविनिर्मुक्ता भविष्यामि तवाज्ञया ॥ ५५ ॥

श्रीकृष्ण उवाच-
स्वस्थानं गच्छ भद्रं ते न भीः कार्या कदाचन
तव देवि सरिच्छ्रेष्ठे न पापं सङ्क्रमिष्यति ॥ ५६ ॥

स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम्
प्रणमन्ति जगन्नाथं ते यान्ति परमां गतिम् ॥ ५७ ॥
मूलम्
स्नात्वा सरस्वतीतोये येऽर्चयित्वा च माधवम्
प्रणमन्ति जगन्नाथं ते यान्ति परमां गतिम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
जाह्नव्युवाच-
विधानं ब्रूहि मे ब्रह्मन्सर्वस्वेन करोम्यहम्
प्रसादयामि देवेशं दामोदरमनामयम् ॥ ५८ ॥
मूलम्
जाह्नव्युवाच-
विधानं ब्रूहि मे ब्रह्मन्सर्वस्वेन करोम्यहम्
प्रसादयामि देवेशं दामोदरमनामयम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
प्राचीमाधव उवाच-
शृणु देवि प्रवक्ष्यामि त्रिस्पृशाया विधानकम्
यं श्रुत्वापि सरिच्छ्रेष्ठे मुच्यते पातकैर्नरः ॥ ५९ ॥

पलेन च पलार्धेन तदर्द्धेनापि वापगे
प्रतिमा मम सौवर्णा कार्या विभवसारतः ॥ ६० ॥

पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम्
सजलं तु घटं शुभ्रं पञ्चरत्नसमन्वितम् ॥ ६१ ॥

वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम्
न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च ॥ ६२ ॥

परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम्
मन्त्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः
पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः ॥ ६३ ॥

छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम्
निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि ॥ ६४ ॥

उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम्
वैणवं दापयेद्दण्डं सुरूपं सोन्नतं दृढम् ॥ ६५ ॥

दामोदराय वै पादौ जानुनी माधवाय च
गुह्यं कामप्रदायेति कटिं वामनमूर्तये ॥ ६६ ॥

पद्मनाभाय नाभिं तु जठरं विश्वयोनये
हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठगामिने ॥ ६७ ॥

सहस्रबाहवे बाहू चक्षुषी योगरूपिणे
सम्पूज्य विधिवद्भक्त्या दद्यादर्घं विधानतः ॥ ६८ ॥

शुभ्रेण नालिकेरेण शङ्खोपरि स्थितेन हि
सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि ॥ ६९ ॥

स्मृतो हरसि पापानि यदि नित्यं जनार्दन
दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता ॥ ७० ॥

नारकं तु भयं देव भयदुर्गतिसम्भवम्
यन्मम स्यान्महादेव ऐहिकं पारलौकिकम् ॥ ७१ ॥

तेन देवेश मां रक्ष गृहाणार्घं नमोस्तु ते
कृपादृष्टिः सदैवास्तु दामोदर ममोपरि ॥ ७२ ॥

धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं ततः
शीर्षोपरि सरिच्छ्रेष्ठे भ्रामयेद्वारिजं हरेः ॥ ७३ ॥

कृत्वा विधानमेतद्धि पूजयेत्स्वगुरुं ततः
दद्यात्सुवर्णं वस्त्राणि सोष्णीषं चैव कञ्चुकम् ॥ ७४ ॥

उपानहोऽपि छत्रं च मुद्रिकां च कमण्डलुम्
भोजनं चैव ताम्बूलं सप्तधान्यं च दक्षिणाम् ॥ ७५ ॥

गुरुं सम्पूज्य देवेशं कुर्याज्जागरणं हरेः
गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम् ॥ ७६ ॥

निशान्ते चैव देवाय दत्वा चार्घं विधानतः
स्नानादिकां क्रियां कृत्वा भुञ्जीयाद्वाडवैः सह ॥ ७७ ॥

शिव उवाच-
द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम्
श्रुत्वा तु लभते पुण्यं गङ्गां स्नानसमुद्भवम् ॥ ७८ ॥

अश्वमेधसहस्राणि वाजपेयशतानि च
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ॥ ७९ ॥

पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः
तैः सर्वैः सह सम्मुक्तो विष्णुलोके महीयते ॥ ८० ॥

तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम्
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ॥ ८१ ॥

ब्राह्मणा येऽपि कुर्वन्ति क्षत्रियाः कृष्णमानसाः
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः ॥ ८२ ॥

ते सर्वे मुक्तिमायान्ति भुवं त्यक्त्वा द्विजोत्तम
मन्त्राणां मन्त्रराजोऽथ यथा स्याद्द्वादशाक्षरः ॥ ८३ ॥

व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता
ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता ॥ ८४ ॥

अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी
अनेन विधिना ब्रह्मंस्त्रिस्पृशासम्भवं व्रतम् ॥ ८५ ॥

यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम्
गङ्गावगाहने ब्रह्मन्वाराणस्यां तु यत्फलम् ॥ ८६ ॥

मन्वन्तरसहस्रैस्तु त्रिस्पृशाकारको हि तत्
प्राची च यमुना स्नाने वर्षैर्यत्कोटिभिः फलम् ॥ ८७ ॥

तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः
तत्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः ॥ ८८ ॥

हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत्
पापकोटिसहस्राणि हत्याकोटिशतानि च ॥ ८९ ॥
मूलम्
हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत्
पापकोटिसहस्राणि हत्याकोटिशतानि च ॥ ८९ ॥
विश्वास-प्रस्तुतिः
एकेनैवोपवासेन क्रियते भस्मसाद्द्रुतम्
त्रिस्पृशाया व्रतं यत्तु अगतीनां गतिप्रदम् ॥ ९० ॥

गतिमिच्छन्ति विप्रर्षे महत्पापशतानि च
स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः ॥ ९१ ॥

प्रकाशयति यश्चेदं लिखित्वा वैष्णवं द्विजे
पापोघैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति ॥ ९२ ॥

पुण्यैरवाप्यते विद्वन्मन्वन्तरशतैरपि
त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः ॥ ९३ ॥

कलौ ये त्रिस्पृशां लब्ध्वा न कुर्वन्ति नराधमाः
तेषां जन्मफलं चैव जीवितं विफलं भवेत् ॥ ९४ ॥

प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुतैः
कृता यैस्त्रिस्पृशा विद्वन्सकृत्प्राप्य कलौ युगे ॥ ९५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे त्रिस्पृशाख्यानन्नाम चतुस्त्रिंशोऽध्यायः ३४