०३३

नारद उवाच-

विश्वास-प्रस्तुतिः

शनिपीडा कथं याति तन्मे वद सुरोत्तम
त्वन्मुखाच्छ्रूयते यद्वै तेन जन्तुः प्रमुच्यते ॥ १ ॥

मूलम्

शनिपीडा कथं याति तन्मे वद सुरोत्तम
त्वन्मुखाच्छ्रूयते यद्वै तेन जन्तुः प्रमुच्यते ॥ १ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
देवर्षे शृणु वृत्तान्तं तेन मुच्येत बन्धनात्
ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः ॥ २ ॥

मूलम्

महादेव उवाच-
देवर्षे शृणु वृत्तान्तं तेन मुच्येत बन्धनात्
ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः ॥ २ ॥

विश्वास-प्रस्तुतिः

अयं तु देवो विख्यातः कालरूपी महाग्रहः
जटिलो वज्ररोमा च दानवानां भयङ्करः ॥ ३ ॥

मूलम्

अयं तु देवो विख्यातः कालरूपी महाग्रहः
जटिलो वज्ररोमा च दानवानां भयङ्करः ॥ ३ ॥

विश्वास-प्रस्तुतिः

तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो
मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा ॥ ४ ॥

मूलम्

तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो
मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा ॥ ४ ॥

विश्वास-प्रस्तुतिः

रघुवंशेऽति विख्यातो राजा दशरथः पुरा
चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत् ॥ ५ ॥

मूलम्

रघुवंशेऽति विख्यातो राजा दशरथः पुरा
चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत् ॥ ५ ॥

विश्वास-प्रस्तुतिः

कृत्तिकान्ते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः
रोहिणीं भेदयित्वा च शनिर्यास्यति साम्प्रतम् ॥ ६ ॥

मूलम्

कृत्तिकान्ते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः
रोहिणीं भेदयित्वा च शनिर्यास्यति साम्प्रतम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

शाकटं भेदमत्युग्रं सुरासुरभयङ्करम्
द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥ ७ ॥

मूलम्

शाकटं भेदमत्युग्रं सुरासुरभयङ्करम्
द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा ततो वाक्यं मन्त्रिभिः सह पार्थिवः
मन्त्रयामास किमिदं भयङ्करमुपस्थितम् ॥ ८ ॥

मूलम्

एतच्छ्रुत्वा ततो वाक्यं मन्त्रिभिः सह पार्थिवः
मन्त्रयामास किमिदं भयङ्करमुपस्थितम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम्
ब्रुवन्ति सर्वतो लोकाः क्षय एष समागतः ॥ ९ ॥

मूलम्

आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम्
ब्रुवन्ति सर्वतो लोकाः क्षय एष समागतः ॥ ९ ॥

विश्वास-प्रस्तुतिः

देशाः सनगरा ग्रामा भयभीताः समन्ततः
पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान् ॥ १० ॥

मूलम्

देशाः सनगरा ग्रामा भयभीताः समन्ततः
पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान् ॥ १० ॥

विश्वास-प्रस्तुतिः

संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः ॥ ११ ॥

मूलम्

संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः ॥ ११ ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच-
प्राजापत्यमृक्षमिदं तस्मिन्भिन्ने कुतः प्रजाः
अयं योगोह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा ॥ १२ ॥

मूलम्

वसिष्ठ उवाच-
प्राजापत्यमृक्षमिदं तस्मिन्भिन्ने कुतः प्रजाः
अयं योगोह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा ॥ १२ ॥

विश्वास-प्रस्तुतिः

इति सञ्चिन्त्य मनसा साहसं परमं महत्
समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् ॥ १३ ॥

मूलम्

इति सञ्चिन्त्य मनसा साहसं परमं महत्
समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् ॥ १३ ॥

विश्वास-प्रस्तुतिः

रथमारुह्य वेगेन गतो नक्षत्रमण्डलम्
सपादं योजनं लक्षं सूर्यस्योपरि संस्थितम् ॥ १४ ॥

मूलम्

रथमारुह्य वेगेन गतो नक्षत्रमण्डलम्
सपादं योजनं लक्षं सूर्यस्योपरि संस्थितम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

रोहिणीपृष्ठमास्थाय राजा दशरथः पुरा
रथे तु काञ्चने दिव्ये मणिरत्नविभूषिते ॥ १५ ॥

मूलम्

रोहिणीपृष्ठमास्थाय राजा दशरथः पुरा
रथे तु काञ्चने दिव्ये मणिरत्नविभूषिते ॥ १५ ॥

विश्वास-प्रस्तुतिः

हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये
दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः ॥ १६ ॥

मूलम्

हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये
दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः ॥ १६ ॥

विश्वास-प्रस्तुतिः

बभ्राज स तदाकाशे द्वितीय इव भास्करः
आकर्णपूर्णा चापे तु संहारास्त्रं न्ययोजयत् ॥ १७ ॥

मूलम्

बभ्राज स तदाकाशे द्वितीय इव भास्करः
आकर्णपूर्णा चापे तु संहारास्त्रं न्ययोजयत् ॥ १७ ॥

विश्वास-प्रस्तुतिः

संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयङ्करम्
हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् ॥ १८ ॥

मूलम्

संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयङ्करम्
हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् ॥ १८ ॥

विश्वास-प्रस्तुतिः

शनिरुवाच -
पौरुषं तव राजेन्द्र परं रिपुभयङ्करम्
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ १९ ॥

मूलम्

शनिरुवाच -
पौरुषं तव राजेन्द्र परं रिपुभयङ्करम्
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥ १९ ॥

विश्वास-प्रस्तुतिः

मया विलोकिता राजन्भस्मसाच्च भवन्तिते
तुष्टोऽहं तव राजेन्द्र तपसा पौरुषेण च
वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि ॥ २० ॥

मूलम्

मया विलोकिता राजन्भस्मसाच्च भवन्तिते
तुष्टोऽहं तव राजेन्द्र तपसा पौरुषेण च
वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि ॥ २० ॥

विश्वास-प्रस्तुतिः

दशरथ उवाच-
रोहिणीं भेदयित्वा तु न गन्तव्यं कदाचन
सरितः सागरा यावत्यावच्चन्द्रार्कमेदिनी ॥ २१ ॥

मूलम्

दशरथ उवाच-
रोहिणीं भेदयित्वा तु न गन्तव्यं कदाचन
सरितः सागरा यावत्यावच्चन्द्रार्कमेदिनी ॥ २१ ॥

विश्वास-प्रस्तुतिः

याचितं तु मया सौरे नान्यमिच्छामि ते वरम्
एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम् ॥ २२ ॥

मूलम्

याचितं तु मया सौरे नान्यमिच्छामि ते वरम्
एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

पुनरेवाब्रवीत्तुष्टो वरं वरय सुव्रत
प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा ॥ २३ ॥

मूलम्

पुनरेवाब्रवीत्तुष्टो वरं वरय सुव्रत
प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा ॥ २३ ॥

विश्वास-प्रस्तुतिः

न भेत्तव्यं हि शकटं त्वया भास्करनन्दन

द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन ॥ २४ ॥

मूलम्

न भेत्तव्यं हि शकटं त्वया भास्करनन्दन

द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन ॥ २४ ॥

विश्वास-प्रस्तुतिः

शनिरुवाच-
द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति
कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति ॥ २५ ॥

मूलम्

शनिरुवाच-
द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति
कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति ॥ २५ ॥

विश्वास-प्रस्तुतिः

वरद्वयं तु सम्प्राप्य हृष्टरोमा च पार्थिवः
रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि ॥ २६ ॥

मूलम्

वरद्वयं तु सम्प्राप्य हृष्टरोमा च पार्थिवः
रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि ॥ २६ ॥

विश्वास-प्रस्तुतिः

ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम्
राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत् ॥ २७ ॥

मूलम्

ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम्
राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत् ॥ २७ ॥

विश्वास-प्रस्तुतिः

दशरथ उवाच-
नमः कृष्णाय नीलाय शितिकण्ठनिभाय च
नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥ २८ ॥

मूलम्

दशरथ उवाच-
नमः कृष्णाय नीलाय शितिकण्ठनिभाय च
नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥ २८ ॥

विश्वास-प्रस्तुतिः

नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च
नमो विशालनेत्राय शुष्कोदरभयाकृते ॥ २९ ॥

मूलम्

नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च
नमो विशालनेत्राय शुष्कोदरभयाकृते ॥ २९ ॥

विश्वास-प्रस्तुतिः

नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोस्तु ते ॥ ३० ॥

मूलम्

नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोस्तु ते ॥ ३० ॥

विश्वास-प्रस्तुतिः

नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः
नमो घोराय रौद्राय भीषणाय कपालिने ॥ ३१ ॥

मूलम्

नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः
नमो घोराय रौद्राय भीषणाय कपालिने ॥ ३१ ॥

विश्वास-प्रस्तुतिः

नमस्ते सर्वभक्षाय वलीमुख नमोस्तु ते
सूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च ॥ ३२ ॥

मूलम्

नमस्ते सर्वभक्षाय वलीमुख नमोस्तु ते
सूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अधोदृष्टे नमस्तेस्तु संवर्तक नमोस्तु ते
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोस्तु ते ॥ ३३ ॥

मूलम्

अधोदृष्टे नमस्तेस्तु संवर्तक नमोस्तु ते
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोस्तु ते ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तपसा दग्धदेहाय नित्यं योगरताय च
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥ ३४ ॥

मूलम्

तपसा दग्धदेहाय नित्यं योगरताय च
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

ज्ञानचक्षुर्नमस्तेस्तु कश्यपात्मजसूनवे
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥ ३५ ॥

मूलम्

ज्ञानचक्षुर्नमस्तेस्तु कश्यपात्मजसूनवे
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः
त्वया विलोकिताः सर्वे नाशं यान्ति समूलतः ॥ ३६ ॥

मूलम्

देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः
त्वया विलोकिताः सर्वे नाशं यान्ति समूलतः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

प्रसादं कुरु मे देव वरार्होऽहमुपागतः
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ॥ ३७ ॥

मूलम्

प्रसादं कुरु मे देव वरार्होऽहमुपागतः
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिः
तुष्टोऽहं तव राजेन्द्र स्तवेनानेन सुव्रत
वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनन्दन ॥ ३८ ॥

मूलम्

अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिः
तुष्टोऽहं तव राजेन्द्र स्तवेनानेन सुव्रत
वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनन्दन ॥ ३८ ॥

विश्वास-प्रस्तुतिः

दशरथ उवाच-
अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित्
देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ॥ ३९ ॥

मूलम्

दशरथ उवाच-
अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित्
देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

शनिरुवाच-
गृह्णन्तीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताः
अदेयं याचितं राजन्किञ्चिद्युक्तं वदाम्यहम् ॥ ४० ॥

मूलम्

शनिरुवाच-
गृह्णन्तीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताः
अदेयं याचितं राजन्किञ्चिद्युक्तं वदाम्यहम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः
एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात् ॥ ४१ ॥

मूलम्

त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः
एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम्
मृत्युं मृत्युगतो दद्यां जन्मन्यन्ते चतुर्थके ॥ ४२ ॥

मूलम्

देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम्
मृत्युं मृत्युगतो दद्यां जन्मन्यन्ते चतुर्थके ॥ ४२ ॥

विश्वास-प्रस्तुतिः

यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः
शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ॥ ४३ ॥

मूलम्

यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः
शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ॥ ४३ ॥

विश्वास-प्रस्तुतिः

माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम्
कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये ॥ ४४ ॥

मूलम्

माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम्
कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये ॥ ४४ ॥

विश्वास-प्रस्तुतिः

मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत्
पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृताञ्जलि ॥ ४५ ॥

मूलम्

मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत्
पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृताञ्जलि ॥ ४५ ॥

विश्वास-प्रस्तुतिः

तस्य पीडा न चैवाहं करिष्यामि कदाचन
गोचरे जन्मलग्ने वा दशास्वन्तर्दशासु च ॥ ४६ ॥

मूलम्

तस्य पीडा न चैवाहं करिष्यामि कदाचन
गोचरे जन्मलग्ने वा दशास्वन्तर्दशासु च ॥ ४६ ॥

विश्वास-प्रस्तुतिः

रक्षामि सततं तस्य पीडां चापि ग्रहस्य च
अनेनैव विधानेन पीडामुक्तं जगद्भवेत् ॥ ४७ ॥

मूलम्

रक्षामि सततं तस्य पीडां चापि ग्रहस्य च
अनेनैव विधानेन पीडामुक्तं जगद्भवेत् ॥ ४७ ॥

विश्वास-प्रस्तुतिः

एवं युक्त्या मया दत्तो वरस्ते रघुनन्दन
वरत्रयं तु सम्प्राप्य राजा दशरथस्तदा ॥ ४८ ॥

मूलम्

एवं युक्त्या मया दत्तो वरस्ते रघुनन्दन
वरत्रयं तु सम्प्राप्य राजा दशरथस्तदा ॥ ४८ ॥

विश्वास-प्रस्तुतिः

मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम्
शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् ॥ ४९ ॥

मूलम्

मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम्
शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदा
य इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् 6.33.॥ ५० ॥

मूलम्

स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदा
य इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् 6.33.॥ ५० ॥

विश्वास-प्रस्तुतिः

पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च
नरः स मुच्यते पापात्स्वर्गलोके महीयते ॥ ५१ ॥

मूलम्

पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च
नरः स मुच्यते पापात्स्वर्गलोके महीयते ॥ ५१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे- उमापतिनारदसंवादे दशरथकृतशनिस्तोत्रन्नाम त्रयस्त्रिंशोऽध्यायः ३३