महादेव उवाच-
विश्वास-प्रस्तुतिः
दृष्ट्वा शतक्रतुं सिद्धं समाप्तवरदक्षिणम्
मघवा जातसङ्कल्पः पर्यपृच्छद्बृहस्पतिम् ॥ १ ॥
मूलम्

भगवन्केन दानेन सर्वतः सुखमेधते
यदक्षयं महार्घं च तन्मे ब्रूहि महातपः ॥ २ ॥

एवमिन्द्रेण चोक्तोऽसौ देवदेवः पुरोहितः
प्रहस्य तं महाप्राज्ञो बृहस्पतिरुवाचह ॥ ३ ॥

हिरण्यदानं गोदानं भूमिदानं च वासव
एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥ ४ ॥

सुवर्णं रजतं वस्त्रं मणिरत्नं च वासव
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ॥ ५ ॥

फालकृष्टां महीं दत्वा सबीजां सस्यमालिनीम्
यावत्सूर्यकृतालोकस्तावत्स्वर्गेमहीयते ॥ ६ ॥

यत्किञ्चित्कुरुते पापं पुरुषो वृत्तिकर्षितः
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥ ७ ॥

दशहस्तेन दण्डोऽत्र त्रिंशद्दण्डानि वर्तनम्
दशतान्येव गोचर्म ब्रह्मगोचर्मलक्षणम् ॥ ८ ॥

सवृषं गोसहस्रं तु यत्र तिष्ठत्ययन्त्रितम्
बालवत्सप्रसूतानां तद्गोचर्म इति स्मृतम् ॥ ९ ॥

विप्राय दद्याच्च गुणान्विताय तपोयुताय प्रजितेन्द्रियाय
यावन्मही तिष्ठति सागरान्ता तावत्फलं तस्य भवेदनन्तम् ॥ १० ॥

यथाप्सु पतितः शक्र तैलबिन्दुः प्रसर्पति
एवम्भूमिकृतं दानं सस्ये सस्ये प्रसर्पति ॥ ११ ॥

यथाबीजानि रोहन्ति प्रचीर्णानि महीतले
एवं कामान्प्ररोहन्ति भूमिदानसमन्विताः ॥ १२ ॥

अन्नदाः सुखिनो नित्यं वस्त्रदो रूपवान्भवेत्
स नरः सर्वदो भूयो यो ददाति वसुन्धराम् ॥ १३ ॥

यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी
एवं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम् ॥ १४ ॥

शङ्खो भद्रासनं छत्रं वराश्ववरवारणाः
भूमिदानस्य पुण्यस्य फलं स्वर्गः पुरन्दर ॥ १५ ॥

आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः
शूलपाणिश्च भगवानभिनन्दन्ति भूमिदम् ॥ १६ ॥

आस्फोटयन्ति पितरो वर्णयन्ति पितामहाः
भूमिदाता कुले जातः स नस्त्राता भविष्यति ॥ १७ ॥

त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती
नरकादुद्धरन्त्येते जपवापनदोहनात् ॥ १८ ॥
मूलम्
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती
नरकादुद्धरन्त्येते जपवापनदोहनात् ॥ १८ ॥
विश्वास-प्रस्तुतिः
दुर्गतिं तारयन्त्येते विद्वद्भिर्विप्रधारणैः
प्रावृता वस्त्रदा यान्ति नग्ना यान्तित्ववस्त्रदाः ॥ १९ ॥

तृप्ता यान्त्यन्नदातारः क्षुधिता यान्त्यनन्नदाः
काङ्क्षन्ति पितरः सर्वे नरकाद्भयभीरवः ॥ २० ॥

गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ २१ ॥

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्
लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पाण्डुरः ॥ २२ ॥

श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते
नीलः पाण्डुरलाङ्गूलस्तोयमुद्धरते तु यः ॥ २३ ॥

षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः
यच्च शृङ्गगतं पङ्कं कुलं तिष्ठति चोद्धृतम् ॥ २४ ॥

पितरस्तस्य चाश्नन्ति सोमलोकं महाद्युतिम्
आसीद्राज्ञो दिलीपस्य नृगस्य नहुषस्य च ॥ २५ ॥

अन्येषां तु नरेन्द्राणां पुनरन्यो न गच्छति
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ॥ २६ ॥

यस्य यस्य यदा भूमिस्तस्यतस्य तदा फलम्
ब्रह्मघ्नो वाथ स्त्रीहन्ता बालघ्नः पतितोऽथवा ॥ २७ ॥

गवां शतसहस्राणि हन्ता तत्तस्यदुःष्कृतम्
स्वदत्तां परदत्तां वा यो हरेत्तु वसुन्धराम् ॥ २८ ॥

स च विष्ठाकृमिर्भूत्वा पितृभिः सह पच्यते
षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ॥ २९ ॥

प्रहर्ता चानुमन्ता च तावद्वै नरकं व्रजेत्
भूमिदाद्भूमिहर्तुश्च नापरः पुण्यपापवान् ॥ ३० ॥

उर्द्ध्वाधस्तौ च तिष्ठेते यावदाभूतसम्प्लवम् ॥ ३१ ॥

अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुतास्तु गावः
तेषाम्मनन्तं फलमश्नुवीत यः काञ्चनं गां च महीं च दद्यात् ॥ ३२ ॥

भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति
उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥ ३३ ॥

अन्यायेन हृता भूमिर्यैर्नरैरपहारिता
हरन्तो हारयन्तश्च हन्युस्ते सप्तमं कुलम् ॥ ३४ ॥

हरेद्धारयते यस्तु मन्दबुद्धिस्तमोवृतः
स बद्धो वारुणैः पाशैस्तिर्यग्योनिषु जायते ॥ ३५ ॥

अश्रुभिः पतितैस्तेषां दानानामवकीर्त्तनम्
ब्राह्मणस्य हृते क्षेत्रे हतं त्रिपुरुषं कुलम् ॥ ३६ ॥

वापीकूपसहस्रेण अश्वमेधशतेन च
गवाङ्कोटिप्रदानेन भूमिहर्ता न शुद्ध्यति ॥ ३७ ॥

कृतं दत्तं तपोऽधीतं यत्किञ्चिद्धर्मसंस्थितम्
अर्द्धाङ्गुलस्य सीमाया हरणेन प्रणश्यति ॥ ३८ ॥

गोतीर्थं ग्रामरथ्यां च श्मशानग्राममेव च
सम्पीड्य नरकं याति यावदाभूतसम्प्लवम् ॥ ३९ ॥

पञ्चकन्यानृते हन्ति दश हन्ति गवानृते
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ४० ॥

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्
सर्वं भूम्यनृते हन्ति मास्म भूम्यनृतं वद ॥ ४१ ॥

ब्रह्मस्वे नो रतिं कुर्यात्प्राणैः कण्ठगतैरपि
अग्निदग्धाः प्ररोहन्ति ब्रह्मदग्धो न रोहति ॥ ४२ ॥

अग्निदग्धाः प्ररोहन्ति सूर्यदग्धास्तथैव च
राजदण्डहताश्चैव ब्रह्मशापहता हताः ॥ ४३ ॥

ब्रह्मस्वेन च पुष्टानि अङ्गानि च मुहुर्महुः
कार्यकालेविशीर्यन्ते सिकताभि तपो यथा ॥ ४४ ॥

ब्रह्मस्वहरणं कुर्वन्नरो यातीह रौरवम्
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ॥ ४५ ॥

विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रिकम्
लोहचूर्णं चाश्मचूर्णं विषं सञ्जरयेन्नरः ॥ ४६ ॥

ब्रह्मस्वं त्रिषु लोकेषु कः पुमान्जरयिष्यति
ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः ॥ ४७ ॥

तद्धनं कुलनाशाय भवत्यात्मविनाशनम्
ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य तु यद्धनम् ॥ ४८ ॥

गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेत्
श्रोत्रियाय कुलीनाय दरिद्राय च वासव ॥ ४९ ॥

सन्तुष्टाय विनीताय सर्वस्वसहिताय च
वेदाभ्यास तपो ज्ञानेन्द्रियसंयमशालिने 6.32.॥ ५० ॥

ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम्
आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ॥ ५१ ॥

भिनत्ति पात्रं दौर्बल्यान्न च पात्रं विनश्यति
एवं गां च हिरण्यं च वस्त्रमन्नं मही तिलान् ॥ ५२ ॥

अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत्
यस्तडागं नवं कुर्यात्पुराणं वापि खानयेत् ॥ ५३ ॥

सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते
वापीकूपतडागानि उद्यानप्रभवानि च ॥ ५४ ॥
मूलम्
सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते
वापीकूपतडागानि उद्यानप्रभवानि च ॥ ५४ ॥
विश्वास-प्रस्तुतिः
पुनर्नीतानि संस्कारं ददते मौक्तिकं फलम्
निदाघकाले पानीय यस्य तिष्ठति वासव ॥ ५५ ॥

स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुयात्
एकाहं तु स्थितं तोयं पृथिव्यां देवसत्तम ॥ ५६ ॥

कुलानि तारयेत्तस्य सप्तसप्त परानपि
दीपालोकप्रदानेन वपुष्मान्स भवेन्नरः ॥ ५७ ॥

दक्षिणायाः प्रदानेन स्मृतिं मेधां च विन्दति
कृत्वापि पातकं कर्म यो दद्यादनुसन्धिने ॥ ५८ ॥

ब्राह्मणाय विशेषेण न स पापैर्हि लिप्यते
भूमेर्गावस्तथादासः प्रसह्य प्रहृता यदा ॥ ५९ ॥

न निवेदयते यस्तु तमाहुर्ब्रह्मघातकम्
उपस्थिते विवाहे च यज्ञे दाने च वासव ॥ ६० ॥

मोहाच्चरति विघ्नं यः स मृतो जायते कृमिः
धनं फलति दानेन जीवितं जीवरक्षणात् ॥ ६१ ॥

रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते
फलमूलाशनात्पूजां स्वर्गः सत्येन लभ्यते ॥ ६२ ॥

प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते
सुखाट्यः शक्रदीक्षायां सुगामी च तृणाशनः ॥ ६३ ॥

रूपी त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत्
नित्यस्नायी भवेद्दक्षः सन्ध्यावेदजपान्वितः ॥ ६४ ॥

अहिंस्रो याति वैराज्यं नाकपृष्ठमनाशकम्
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ॥ ६५ ॥

रसानां प्रतिसंहारे पशून्पुत्रांश्च विन्दति
नाके चिरं स वसति उपवासी च यो भवेत् ॥ ६६ ॥

सततं भूमिशायी यः स लभेदीप्सितां गतिम्
वीरासनं वीरशयं वीरस्थानमुपासतः ॥ ६७ ॥
मूलम्
सततं भूमिशायी यः स लभेदीप्सितां गतिम्
वीरासनं वीरशयं वीरस्थानमुपासतः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
अक्षयास्तस्यलोकाः स्युः सर्वकामगमास्तथा
उपवासं च दीक्षां च अभिषेकं च वासव ॥ ६८ ॥

कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते
पावनं चरते धर्मं स्वर्गलोके महीयते ॥ ६९ ॥

बृहस्पतिमतं पुण्यं ये पठन्ति द्विजोत्तमाः
तेषां चत्वारि वर्द्धन्ते आयुर्विद्यायशोबलम् ॥ ७० ॥

नारद उवाच-
इतीन्द्राय बृहस्पतिप्रणीतं धर्मशास्त्रकम्
मह्यं भक्ताय सम्प्रोक्तं महेशेनाखिलं नृप ॥ ७१ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे धर्मकथने द्वात्रिंशोऽध्यायः