नारदउवाच-
विश्वास-प्रस्तुतिः
देवदेव जगन्नाथ भक्तानामभयप्रद
व्रतं ब्रूहि महादेव कृपां कृत्वा ममोपरि ॥ १ ॥
मूलम्

श्रीमहादेव उवाच-
सार्वभौमः पुरा ह्यासीद्धरिश्चन्द्रो महीपतिः
तस्यतुष्टोऽददद्ब्रह्मा पुरीं कामदुघां शुभाम् ॥ २ ॥

सर्वरत्नमयीं दिव्यां बालार्कसदृशप्रभाम्
तत्र स्थितो महीपालो सप्तद्वीपां वसुन्धराम् ॥ ३ ॥

पालयामास धर्मेण पिता पुत्रमिवौरसम्
प्रभूतधनधान्यस्तु पुत्रदौहित्रवान्नृपः ॥ ४ ॥

स पालयन्शुभं राज्यं परं विस्मयमागतः
न तादृशमभूत्पूर्वं राज्यं कस्य हि कर्हिचित् ॥ ५ ॥

न चेदृशं नरैरन्यैर्विमानमधिरोहितम्
कस्येह कर्मणो व्यष्टिर्येनाहं सुरराडिव ॥ ६ ॥

इति चिन्तापरो भूत्वा विमानवरमास्थितः
ददर्श पार्थिववरो मेरुं शिखरिणां वरम् ॥ ७ ॥

तत्रास्ते च महात्मासौ द्वितीय इव भास्करः
आसीनं पर्वतवरे शैलपट्टे हिरण्मये ॥ ८ ॥

सनत्कुमारं ब्रह्मर्षिं ज्ञानयोगपरायणम्
दृष्ट्वा ह्यवातरद्राजा प्रष्टुकामोऽथ विस्मयम् ॥ ९ ॥

ववन्दे चरणौ हृष्टस्तेनापि स च नन्दितः
सुखोपविष्टस्तु नृपः पप्रच्छ मुनिपुङ्गवम् ॥ १० ॥

भगवन्दुर्ल्लभा लोके सम्पच्चेयं यथा मम
कर्मणा केन लभ्येत कश्चाहं पूर्वजन्मनि ॥ ११ ॥

तत्त्वं कथय मे सर्वमनुग्राह्योऽस्मि ते यदि
सनत्कुमार उवाच-
शृणु राजन्प्रवक्ष्यामि पूर्ववृत्तस्य कारणम् ॥ १२ ॥

येन कृत्वा विशेषेण तव चानुग्रहोऽभवत्
त्वमासीः पूर्वजनुषि सुवैश्यः सत्यवाक्शुचिः ॥ १३ ॥

स्वं कर्म ते परित्यक्तं ततस्त्यक्तस्तु बान्धवैः
सत्वं वृत्तिपरिक्षीणो भार्ययानुगतस्तथा ॥ १४ ॥

निर्गतः स्वजनांस्त्यक्त्वा परप्रेषणलिप्सया
न च प्रेषणदो ह्यासीत्काले दुर्भिक्षपीडितः ॥ १५ ॥

ततः कदाचिद्गहने सरश्चोत्फुल्लपङ्कजम्
दृष्ट्वा तत्र कृतो भावो गृह्णीवः पङ्कजानि वै ॥ १६ ॥

एतावदुक्त्वा पुष्पाणि तान्यादाय पदे पदे
आस्थितौ नगरीं पुण्यां नाम्ना वाराणसीं शुभाम् ॥ १७ ॥

ततो विक्रयतः कश्चिनैव गृह्णाति पङ्कजम्
तन्मठान्निर्गतः कश्चित्तत्रैव प्राङ्गणे स्थितः ॥ १८ ॥

तत्र स्थाने प्रविशता श्रुतो वादित्रनिस्वनः
कस्मिंश्च श्रूयते ह्येष वादित्रस्य च निस्वनः ॥ १९ ॥

इति पृष्टे तदा तूर्ये तेनोक्ते प्रस्थितोन्तरम्
काशिराजस्तु विख्यात इन्द्रद्युम्नस्तु पार्थिवः ॥ २० ॥

तस्यास्ति दुहिता ख्याता नाम्ना चन्द्रावती सती
उपोषिता महाभागा जयन्तीमष्टमीं शुभाम् ॥ २१ ॥

तत्रागतोऽसौ वैश्यस्तु यत्र तिष्ठति सा शुभा
सन्तुष्टचित्तः स तदा हर्षस्तत्रागतो महान् ॥ २२ ॥

तत्र स्थाने त्वया दृष्टो देव वैतानिको विधिः
आदित्यसहितो यत्र पूज्यते भगवान्हरिः ॥ २३ ॥

तद्भक्त्या च त्वया पत्न्या सह पुष्पार्चनं कृतम्
शेषैस्तु प्रकरस्तत्र कृतः पुष्पमयस्तथा ॥ २४ ॥

तं दृष्ट्वा विस्मिता साह केनेहाभ्यर्चनं कृतम्
ज्ञात्वा तत्कर्मतत्सर्वं कृतं संरक्षणं तथा ॥ २५ ॥

ततस्तुष्टा तु सा तुभ्यं ददौ वित्तं बहुस्वयम्
त्वया वित्तं नो गृहीतं भोजनायानुमन्त्रितः ॥ २६ ॥

न गृहीतं भोजनं च न च वित्तं त्वया तदा
आदित्यो विष्णुसंयुक्तः पूजितोऽसौ यथाविधि ॥ २७ ॥

ततः प्रभातसमये रक्षमाणस्तया सदा
विश्रम्भयित्वा तान्सर्वान्निर्गतोऽसि यथेच्छया ॥ २८ ॥

तदेतदन्यजनुषि सुकृतं चार्जितं त्वया
पञ्चत्वं च त्वया प्राप्तं स्वीयकर्मानुयोगतः ॥ २९ ॥

तेन पुण्येन महता विमानमागमत्तदा
तत्फलं भुज्यते भूप पूर्वजन्मकृतं च यत् ॥ ३० ॥

हरिश्चन्द्र उवाच-
केनैव च विधानेन कस्मिन्मासे च सा तिथिः
कर्त्तव्या तन्ममाचक्ष्व अनुग्राह्योऽस्मि ते यदि ॥ ३१ ॥
मूलम्
हरिश्चन्द्र उवाच-
केनैव च विधानेन कस्मिन्मासे च सा तिथिः
कर्त्तव्या तन्ममाचक्ष्व अनुग्राह्योऽस्मि ते यदि ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सनत्कुमार उवाच-
शृणुष्वावहितो राजन्कथ्यमानं मया तव
श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप ॥ ३२ ॥

रोहिणी यदि लभ्येत जयन्ती नाम सा तिथिः
भूयोभूयो महाराज भवेज्जन्मनि कारणम् ॥ ३३ ॥

विधानमस्या वक्ष्यामि यथोक्तं ब्रह्मणा मम
यत्कृत्वा मुक्तपापस्तु विष्णुलोकं प्रगच्छति ॥ ३४ ॥

उपोषितस्ततः कृत्वा स्नानं कृष्णतिलैः सह
स्थापयेदव्रणं कुम्भं पञ्चरत्नसमन्वितम् ॥ ३५ ॥

वज्रमौक्तिकवैडूर्य पुष्परागेन्द्रनीलकम्
पञ्चरत्नं प्रशस्तं तु इति कात्यायनोऽब्रवीत् ॥ ३६ ॥

तस्योपरि न्यसेत्पात्रं सौवर्णं लक्षणान्वितम्
सौवर्णां विन्यसेत्तत्र यशोदां नन्दगेहिनीम् ॥ ३७ ॥

ददमानां तु पुत्रस्य स्तनं वै विस्मिताननाम्
पिबमानं स्तनं मातुरपरं पाणिना स्पृशत् ॥ ३८ ॥

आलोक्य मातरं प्रेम्णा सुखयन्तं मुहुर्मुहुः
सौवर्णं कारयेद्देवं यावच्छक्तिश्च विद्यते ॥ ३९ ॥

द्वि निष्कमात्रं कर्तव्यं यदि शक्तिश्च विद्यते
त्रिलोहेनैव कर्तव्यं सौवर्णेनाथवा पुनः ॥ ४० ॥

तद्वच्च रोहिणीं कुर्यात्सौवर्णी राजतः शशी
अङ्गुष्ठमात्रस्तु शशी रोहिणी चतुरङ्गुला ॥ ४१ ॥

कर्णयोः कुण्डले दद्यात्कण्ठाभरणकं गले
एवं कृत्वा तु गोविन्दं मात्रासार्द्धं जगत्पतिम् ॥ ४२ ॥

क्षीरादिस्नपनं कृत्वा चन्दनेनानुलेपयेत्
श्वेतवस्त्रयुगच्छत्रं पुष्पमालोपशोभितम् ॥ ४३ ॥

नैवेद्यैर्विविधैर्भक्षैः फलैर्नानाविधैरपि
दीपं च कारयेत्तत्र पुष्पमण्डपशोभितम् ॥ ४४ ॥

गीतं नृत्यं च वाद्यं च कारयेद्भक्तिमान्बुधैः
एवं कृत्वा विधानं तु यथाविभवसारतः
गुरुं सम्पूजयेत् पश्चात्पूजां तत्र समापयेत् ॥ ४५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे जन्माष्टमीव्रतन्नाम एकत्रिंशोऽध्यायः ३१