०३०

नारद उवाच-

विश्वास-प्रस्तुतिः

ब्रह्मन्संवत्सराख्यस्य दीपस्य विधिमुत्तमम्
सर्वव्रतप्रधानस्य माहात्म्यं प्रवदस्व मे ॥ १ ॥

मूलम्

ब्रह्मन्संवत्सराख्यस्य दीपस्य विधिमुत्तमम्
सर्वव्रतप्रधानस्य माहात्म्यं प्रवदस्व मे ॥ १ ॥

विश्वास-प्रस्तुतिः

येन व्रतानि सर्वाणि कृतान्येव न संशयः
सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत् ॥ २ ॥

मूलम्

येन व्रतानि सर्वाणि कृतान्येव न संशयः
सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत् ॥ २ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच -
वदामि तव देवर्षे रहस्यं पापनाशनम्
यच्छ्रुत्वा ब्रह्महा गोघ्नो मित्रघ्नो गुरुतल्पगः ॥ ३ ॥

मूलम्

महादेव उवाच -
वदामि तव देवर्षे रहस्यं पापनाशनम्
यच्छ्रुत्वा ब्रह्महा गोघ्नो मित्रघ्नो गुरुतल्पगः ॥ ३ ॥

विश्वास-प्रस्तुतिः

विश्वासघाती क्रूरात्मा मुक्तिमाप्नोति शाश्वतीम्
शतं कुलानामुद्धृत्य विष्णोर्लोकं स गच्छति ॥ ४ ॥

मूलम्

विश्वासघाती क्रूरात्मा मुक्तिमाप्नोति शाश्वतीम्
शतं कुलानामुद्धृत्य विष्णोर्लोकं स गच्छति ॥ ४ ॥

विश्वास-प्रस्तुतिः

तदहं कथयिष्यामि दीपव्रतमनुत्तमम्
संवत्सरप्रमाणस्य विधिं माहात्म्यमेव च ॥ ५ ॥

मूलम्

तदहं कथयिष्यामि दीपव्रतमनुत्तमम्
संवत्सरप्रमाणस्य विधिं माहात्म्यमेव च ॥ ५ ॥

विश्वास-प्रस्तुतिः

हेमन्ते प्रथमे मासि प्राप्य ह्येकादशीं शुभाम्
ब्राह्मे मुहूर्त्ते चोत्थाय कामक्रोधविवर्जितः ॥ ६ ॥

मूलम्

हेमन्ते प्रथमे मासि प्राप्य ह्येकादशीं शुभाम्
ब्राह्मे मुहूर्त्ते चोत्थाय कामक्रोधविवर्जितः ॥ ६ ॥

विश्वास-प्रस्तुतिः

नदीसङ्गमतीर्थेषु तडागेषु सरित्सु च
स्नानं समाचरेत्तत्र गृहे वा नियतात्मवान् ॥ ७ ॥

मूलम्

नदीसङ्गमतीर्थेषु तडागेषु सरित्सु च
स्नानं समाचरेत्तत्र गृहे वा नियतात्मवान् ॥ ७ ॥

विश्वास-प्रस्तुतिः

स्नातोऽहं सर्वतीर्थे तत्स्नानं देहि मे सदा ॥ ८ ॥

मूलम्

स्नातोऽहं सर्वतीर्थे तत्स्नानं देहि मे सदा ॥ ८ ॥

विश्वास-प्रस्तुतिः

स्नानमन्त्रः
देवान्पितॄंश्च सन्तर्प्य कृतजप्यो जितेन्द्रियः
ततः सम्पूजयेद्देवं लक्ष्मीनारायणं प्रभुम्
पञ्चामृतेन संस्नाप्य ततो गन्धोदकेन च ॥ ९ ॥

मूलम्

स्नानमन्त्रः
देवान्पितॄंश्च सन्तर्प्य कृतजप्यो जितेन्द्रियः
ततः सम्पूजयेद्देवं लक्ष्मीनारायणं प्रभुम्
पञ्चामृतेन संस्नाप्य ततो गन्धोदकेन च ॥ ९ ॥

विश्वास-प्रस्तुतिः

स्नातोऽसि लक्ष्म्या सहितो देवदेव जगत्पते
मां समुद्धर देवेश घोरात्संसारबन्धनात् ॥ १० ॥

मूलम्

स्नातोऽसि लक्ष्म्या सहितो देवदेव जगत्पते
मां समुद्धर देवेश घोरात्संसारबन्धनात् ॥ १० ॥

विश्वास-प्रस्तुतिः

ततः सम्पूजयेद्देवं लक्ष्म्या सह जनार्दनम्
मन्त्रैस्तु वैदिकैर्भक्त्या तथा पौराणिकैरपि ॥ ११ ॥

मूलम्

ततः सम्पूजयेद्देवं लक्ष्म्या सह जनार्दनम्
मन्त्रैस्तु वैदिकैर्भक्त्या तथा पौराणिकैरपि ॥ ११ ॥

विश्वास-प्रस्तुतिः

अतो देवेति गन्धादि पौरुषेणापि वा पुनः
नमो मत्स्याय देवाय कूर्मदेवाय वै नमः ॥ १२ ॥

मूलम्

अतो देवेति गन्धादि पौरुषेणापि वा पुनः
नमो मत्स्याय देवाय कूर्मदेवाय वै नमः ॥ १२ ॥

विश्वास-प्रस्तुतिः

नमो वाराहदेवाय नरसिंहाय वै नमः
नमोऽस्तु बुद्धदेवाय कल्किने च नमोनमः ॥ १३ ॥

मूलम्

नमो वाराहदेवाय नरसिंहाय वै नमः
नमोऽस्तु बुद्धदेवाय कल्किने च नमोनमः ॥ १३ ॥

विश्वास-प्रस्तुतिः

नमोऽस्तु रामदेवाय विष्णुदेवाय ते नमः
नमः सर्वात्मने तुभ्यं शि रइत्यभिपूजयेत्
केशवादीनि नामानि तैर्वा सम्पूजयेद्धरिम् ॥ १४ ॥

मूलम्

नमोऽस्तु रामदेवाय विष्णुदेवाय ते नमः
नमः सर्वात्मने तुभ्यं शि रइत्यभिपूजयेत्
केशवादीनि नामानि तैर्वा सम्पूजयेद्धरिम् ॥ १४ ॥

विश्वास-प्रस्तुतिः

वनस्पतिरसो दिव्यः सुरभिर्गन्धवाञ्छुचिः
धूपोऽयं देवदेवेश नमस्ते प्रतिगृह्यताम् १५ धूपमन्त्रः -
दीपस्तमो नाशयति दीपः कान्तिं प्रयच्छति
तस्माद्दीपप्रदानेन प्रीयतां मे जनार्दनः १६ दीपमन्त्रः -
नैवेद्यमिदमन्नाद्यं देवदेव जगत्पते
लक्ष्म्या सह गृहाण त्वं परमामृतमुत्तमम् १७ नैवेद्यमन्त्रः -
अर्घ्यं दद्यात्ततो भक्त्या एवं ध्यात्वा जनार्दनम्
फलेन चैव हस्तेन शङ्खेनादाय चोदकम् ॥ १८ ॥

जन्मान्तरसहस्रेण यन्मया पातकं कृतम्
तत्सर्वं नाशमायातु प्रसादात्तव केशव १९ इति अर्घमन्त्रः -
ततः कुम्भं नवं शुभ्रं घृतपूर्णं समानयेत्
लक्ष्मीनारायणस्याग्रे तैलपूर्णमथापि वा ॥ २० ॥

मूलम्

जन्मान्तरसहस्रेण यन्मया पातकं कृतम्
तत्सर्वं नाशमायातु प्रसादात्तव केशव १९ इति अर्घमन्त्रः -
ततः कुम्भं नवं शुभ्रं घृतपूर्णं समानयेत्
लक्ष्मीनारायणस्याग्रे तैलपूर्णमथापि वा ॥ २० ॥

विश्वास-प्रस्तुतिः

तस्योपरि न्यसेत्पात्रं ताम्रं मृन्मयमेव च
नवतन्तुसमां वर्तिं तस्मिन्पात्रे तु निर्वपेत् ॥ २१ ॥

मूलम्

तस्योपरि न्यसेत्पात्रं ताम्रं मृन्मयमेव च
नवतन्तुसमां वर्तिं तस्मिन्पात्रे तु निर्वपेत् ॥ २१ ॥

विश्वास-प्रस्तुतिः

ततः प्रबोधयेद्दीपं स्थाप्य कुम्भं सुनिश्चलम्
पुष्पगन्धादिभिः पूज्य ततः सङ्कल्पयेच्छुचिः ॥ २२ ॥

मूलम्

ततः प्रबोधयेद्दीपं स्थाप्य कुम्भं सुनिश्चलम्
पुष्पगन्धादिभिः पूज्य ततः सङ्कल्पयेच्छुचिः ॥ २२ ॥

विश्वास-प्रस्तुतिः

मन्त्रेणानेन देवर्षे असमीरेषु धामसु
कामो भूतस्य भव्यस्य सम्राडेको विराजते ॥ २३ ॥

मूलम्

मन्त्रेणानेन देवर्षे असमीरेषु धामसु
कामो भूतस्य भव्यस्य सम्राडेको विराजते ॥ २३ ॥

विश्वास-प्रस्तुतिः

दीपः संवत्सरं यावत्मयायं परिकल्पितः
अग्निहोत्रमविच्छिन्नं प्रीयतां मम केशव ॥ २४ ॥

मूलम्

दीपः संवत्सरं यावत्मयायं परिकल्पितः
अग्निहोत्रमविच्छिन्नं प्रीयतां मम केशव ॥ २४ ॥

विश्वास-प्रस्तुतिः

ततो जितेन्द्रियो भूत्वा श्रुतिज्ञानपरायणः
नालपेत्पतितान्पापांस्तथा पाखण्डिनो नरान् ॥ २५ ॥

मूलम्

ततो जितेन्द्रियो भूत्वा श्रुतिज्ञानपरायणः
नालपेत्पतितान्पापांस्तथा पाखण्डिनो नरान् ॥ २५ ॥

विश्वास-प्रस्तुतिः

रात्रौ जागरणं गीतं नृत्यवाद्यादिकैस्तथा
पुण्यपाठैश्च विविधैर्धर्माख्यानैरुपोषणैः ॥ २६ ॥

मूलम्

रात्रौ जागरणं गीतं नृत्यवाद्यादिकैस्तथा
पुण्यपाठैश्च विविधैर्धर्माख्यानैरुपोषणैः ॥ २६ ॥

विश्वास-प्रस्तुतिः

ततः प्रभातसमये कृतपूर्वाह्णिक क्रियः
ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्या प्रपूजयेत् ॥ २७ ॥

मूलम्

ततः प्रभातसमये कृतपूर्वाह्णिक क्रियः
ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्या प्रपूजयेत् ॥ २७ ॥

विश्वास-प्रस्तुतिः

स्वयं च पारणं कृत्वा प्रणिपत्य विसर्जयेत्
एवं संवत्सरं यावदहोरात्रं दृढव्रतः ॥ २८ ॥

मूलम्

स्वयं च पारणं कृत्वा प्रणिपत्य विसर्जयेत्
एवं संवत्सरं यावदहोरात्रं दृढव्रतः ॥ २८ ॥

विश्वास-प्रस्तुतिः

दीपं पलसुवर्णेन तदर्द्धार्द्धेन वा पुनः
वर्तिस्तु राजती प्रोक्ता द्विपलार्द्धार्द्धिकापि वा ॥ २९ ॥

मूलम्

दीपं पलसुवर्णेन तदर्द्धार्द्धेन वा पुनः
वर्तिस्तु राजती प्रोक्ता द्विपलार्द्धार्द्धिकापि वा ॥ २९ ॥

विश्वास-प्रस्तुतिः

घृतपूर्णं तथा कुम्भं ताम्रपात्रसमन्वितम्
लक्ष्मीनारायणो देवो यथाशक्त्या हिरण्मयः ॥ ३० ॥

मूलम्

घृतपूर्णं तथा कुम्भं ताम्रपात्रसमन्वितम्
लक्ष्मीनारायणो देवो यथाशक्त्या हिरण्मयः ॥ ३० ॥

विश्वास-प्रस्तुतिः

कार्यो भक्तिमता पुंसा मुक्तिद्वारमभीप्सता
ततो निमन्त्रयेद्विद्वान्ब्रह्मणान्साधुसत्तमान् ॥ ३१ ॥

मूलम्

कार्यो भक्तिमता पुंसा मुक्तिद्वारमभीप्सता
ततो निमन्त्रयेद्विद्वान्ब्रह्मणान्साधुसत्तमान् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

द्वादशोत्तमपक्षे तु विप्रान्षण्मध्यमे तथा
अन्यथा कारयेत्त्रीन्वा एकं कर्मकरं द्विजम् ॥ ३२ ॥

मूलम्

द्वादशोत्तमपक्षे तु विप्रान्षण्मध्यमे तथा
अन्यथा कारयेत्त्रीन्वा एकं कर्मकरं द्विजम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सपत्नीकं द्विजं शान्तं क्रियावन्तं विशेषतः
इतिहासपुराणज्ञं धर्मज्ञं मृदुमेव च ॥ ३३ ॥

मूलम्

सपत्नीकं द्विजं शान्तं क्रियावन्तं विशेषतः
इतिहासपुराणज्ञं धर्मज्ञं मृदुमेव च ॥ ३३ ॥

विश्वास-प्रस्तुतिः

पितृभक्तं गुरुपरं देवब्राह्मणपूजकम्
पादार्घदानविधिना वस्त्रालङ्कारभूषणैः ॥ ३४ ॥

मूलम्

पितृभक्तं गुरुपरं देवब्राह्मणपूजकम्
पादार्घदानविधिना वस्त्रालङ्कारभूषणैः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

सम्पूज्य पत्न्या सहितमेकं भक्त्या च पूर्ववत्
लक्ष्मीनारायणं देवं दीपवर्तियुतं तथा ॥ ३५ ॥

मूलम्

सम्पूज्य पत्न्या सहितमेकं भक्त्या च पूर्ववत्
लक्ष्मीनारायणं देवं दीपवर्तियुतं तथा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

ताम्रपात्रोपरिस्थाप्य घृतकुम्भेन संयुतम्
ब्राह्मणाय ततो दद्याद्ध्यात्वा नारायणं परम्
मन्त्रेणानेन देवर्षे तमहं कथयामि ते ॥ ३६ ॥

मूलम्

ताम्रपात्रोपरिस्थाप्य घृतकुम्भेन संयुतम्
ब्राह्मणाय ततो दद्याद्ध्यात्वा नारायणं परम्
मन्त्रेणानेन देवर्षे तमहं कथयामि ते ॥ ३६ ॥

विश्वास-प्रस्तुतिः

अविद्या तमसा व्याप्ते संसारे पापनाशनः
ज्ञानप्रदो मोक्षदश्च तस्माद्दत्तो मयानघ ३७ इति दीपमन्त्रः -
दक्षिणां च यथाशक्त्या दत्त्वा विप्राय भक्तितः
भोजयेद्ब्राह्मणान्पश्चाद्घृतपायसमोदकैः ॥ ३८ ॥

वस्त्रैराच्छादयेत्पश्चात्सपत्नीकं तथा द्विजम्
शय्यां सोपस्करां दद्याद्धेनुं चैव सवत्सकाम् ॥ ३९ ॥

मूलम्

वस्त्रैराच्छादयेत्पश्चात्सपत्नीकं तथा द्विजम्
शय्यां सोपस्करां दद्याद्धेनुं चैव सवत्सकाम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

तेभ्यस्तु दक्षिणां दद्याद्यथावित्तानुसारतः
सुहृत्स्वजनबन्धूश्च भोजयेत्पूजयेत्तथा ॥ ४० ॥

मूलम्

तेभ्यस्तु दक्षिणां दद्याद्यथावित्तानुसारतः
सुहृत्स्वजनबन्धूश्च भोजयेत्पूजयेत्तथा ॥ ४० ॥

विश्वास-प्रस्तुतिः

एवं महोत्सवं कुर्याद्दीपव्रत समापने
ततो विसर्जयेत्पश्चात्प्रणिपत्य क्षमापयेत् ॥ ४१ ॥

मूलम्

एवं महोत्सवं कुर्याद्दीपव्रत समापने
ततो विसर्जयेत्पश्चात्प्रणिपत्य क्षमापयेत् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

एवं कृते तु यत्पुण्यं तथा साङ्क्रान्तिकैश्च यत्
संवत्सराख्य दीपस्य तत्फलं प्राप्यते नरैः ॥ ४२ ॥

मूलम्

एवं कृते तु यत्पुण्यं तथा साङ्क्रान्तिकैश्च यत्
संवत्सराख्य दीपस्य तत्फलं प्राप्यते नरैः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

मासव्रतैश्च यत्पुण्यं तत्पुण्यं प्राप्यते नरैः
संवत्सरस्य दीपस्य व्रतेन चरितेन च ॥ ४३ ॥

मूलम्

मासव्रतैश्च यत्पुण्यं तत्पुण्यं प्राप्यते नरैः
संवत्सरस्य दीपस्य व्रतेन चरितेन च ॥ ४३ ॥

विश्वास-प्रस्तुतिः

दानव्रतैर्यथासङ्ख्यैर्यश्च योगव्रतैस्तथा
तत्फलं समवाप्नोति दीपे सांवत्सरे कृते ॥ ४४ ॥

मूलम्

दानव्रतैर्यथासङ्ख्यैर्यश्च योगव्रतैस्तथा
तत्फलं समवाप्नोति दीपे सांवत्सरे कृते ॥ ४४ ॥

विश्वास-प्रस्तुतिः

गोभूहिरण्यदानानि गृहादीनां विशेषतः
यत्फलं लभते विद्वान्तत्फलं दीपदो भवेत् ॥ ४५ ॥

मूलम्

गोभूहिरण्यदानानि गृहादीनां विशेषतः
यत्फलं लभते विद्वान्तत्फलं दीपदो भवेत् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

दीपदः कान्तिमाप्नोति दीपदो धनमक्षयम्
दीपदो ज्ञानमाप्नोति दीपदः परमं सुखम् ॥ ४६ ॥

मूलम्

दीपदः कान्तिमाप्नोति दीपदो धनमक्षयम्
दीपदो ज्ञानमाप्नोति दीपदः परमं सुखम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

दीपदानाच्च सौभाग्यं विद्यामत्यन्तनिर्मलाम्
आरोग्यं परमामृद्धिं लभते नात्र संशयः ॥ ४७ ॥

मूलम्

दीपदानाच्च सौभाग्यं विद्यामत्यन्तनिर्मलाम्
आरोग्यं परमामृद्धिं लभते नात्र संशयः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

दीपदः सुभगां भार्यां सर्वलक्षणसंयुताम्
पुत्रान्पौत्रान्प्रपौत्रांश्च सन्ततिं चाक्षया लभेत् ॥ ४८ ॥

मूलम्

दीपदः सुभगां भार्यां सर्वलक्षणसंयुताम्
पुत्रान्पौत्रान्प्रपौत्रांश्च सन्ततिं चाक्षया लभेत् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणः परमं ज्ञानं क्षत्रियो राज्यमुत्तमम्
वैश्यो धनपशून्सर्वाञ्छूद्रः सुखमवाप्नुयात् ॥ ४९ ॥

मूलम्

ब्राह्मणः परमं ज्ञानं क्षत्रियो राज्यमुत्तमम्
वैश्यो धनपशून्सर्वाञ्छूद्रः सुखमवाप्नुयात् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

कुमारी चापि भर्तारं सर्वलक्षणसंयुतम्
प्राप्नोति परमायुश्च पुत्रान्पौत्रांश्च पुष्कलान् 6.30.॥ ५० ॥

मूलम्

कुमारी चापि भर्तारं सर्वलक्षणसंयुतम्
प्राप्नोति परमायुश्च पुत्रान्पौत्रांश्च पुष्कलान् 6.30.॥ ५० ॥

विश्वास-प्रस्तुतिः

वैधव्यं नैव युवती कदाचिदपि पश्यति
न वियोगमवाप्नोति दीपदानप्रभावतः ॥ ५१ ॥

मूलम्

वैधव्यं नैव युवती कदाचिदपि पश्यति
न वियोगमवाप्नोति दीपदानप्रभावतः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

नाधयो व्याधयश्चैव जायन्ते दीपदानतः
भयात्प्रमुच्यते भीतो बद्धो मुच्येत बन्धनात् ॥ ५२ ॥

मूलम्

नाधयो व्याधयश्चैव जायन्ते दीपदानतः
भयात्प्रमुच्यते भीतो बद्धो मुच्येत बन्धनात् ॥ ५२ ॥

विश्वास-प्रस्तुतिः

ब्रह्महत्यादिभिः पापैर्दीपव्रतपरायणः
मुच्यते नात्र सन्देहो ब्रह्मणो वचनं यथा ॥ ५४ ॥

मूलम्

ब्रह्महत्यादिभिः पापैर्दीपव्रतपरायणः
मुच्यते नात्र सन्देहो ब्रह्मणो वचनं यथा ॥ ५४ ॥

विश्वास-प्रस्तुतिः

चान्द्रायणानि कृच्छ्राणि चरितानि न संशयः
येन सांवत्सरो दीपो बोधितः शाश्वतो हरेः ॥ ५५ ॥

मूलम्

चान्द्रायणानि कृच्छ्राणि चरितानि न संशयः
येन सांवत्सरो दीपो बोधितः शाश्वतो हरेः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

ते धन्यास्ते महात्मानस्तैः प्राप्तं जन्मनः फलम्
यैः सम्पूज्य हरिं भक्त्या दीपःसांवत्सरः कृतः ॥ ५६ ॥

मूलम्

ते धन्यास्ते महात्मानस्तैः प्राप्तं जन्मनः फलम्
यैः सम्पूज्य हरिं भक्त्या दीपःसांवत्सरः कृतः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

येऽपि संवर्त्तयन्तीह दीपवर्तिविलोकनाः
ते यान्ति परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ ५७ ॥

मूलम्

येऽपि संवर्त्तयन्तीह दीपवर्तिविलोकनाः
ते यान्ति परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः

येन तैलं च वर्तिं च यथाशक्त्या प्रदीपके
प्रक्षेपयन्ति सततं ते यान्ति परमां गतिम् ॥ ५८ ॥

मूलम्

येन तैलं च वर्तिं च यथाशक्त्या प्रदीपके
प्रक्षेपयन्ति सततं ते यान्ति परमां गतिम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

गच्छन्तं दीपकं शान्तिं न शक्नोति प्रबोधितुम्
कथयत्यन्यलोकानां तेऽपि तत्फलभागिनः ॥ ५९ ॥

मूलम्

गच्छन्तं दीपकं शान्तिं न शक्नोति प्रबोधितुम्
कथयत्यन्यलोकानां तेऽपि तत्फलभागिनः ॥ ५९ ॥

विश्वास-प्रस्तुतिः

स्तोकं स्तोकं च भिक्षित्वा तैलं दीपार्थमेव च
करोति दीपकं विष्णोः पुण्यं तेनापि लभ्यते ॥ ६० ॥

मूलम्

स्तोकं स्तोकं च भिक्षित्वा तैलं दीपार्थमेव च
करोति दीपकं विष्णोः पुण्यं तेनापि लभ्यते ॥ ६० ॥

विश्वास-प्रस्तुतिः

दीपं प्रज्वाल्यमानं तु यः पश्यत्यधमो नरः
कृताञ्जलिपुटो विष्णोर्विष्णुलोकमवाप्नुयात् ॥ ६१ ॥

मूलम्

दीपं प्रज्वाल्यमानं तु यः पश्यत्यधमो नरः
कृताञ्जलिपुटो विष्णोर्विष्णुलोकमवाप्नुयात् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

दीपप्रज्वालने बुद्धिं यो दद्यात्कुरुते स्वयम्
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥ ६२ ॥

मूलम्

दीपप्रज्वालने बुद्धिं यो दद्यात्कुरुते स्वयम्
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ॥ ६३ ॥

मूलम्

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

सरस्वत्यास्तटे रम्ये सिद्धाश्रम इति श्रुतः
तत्रोवास द्विजः पूर्वं कपिलो नाम वेदवित् ॥ ६४ ॥

मूलम्

सरस्वत्यास्तटे रम्ये सिद्धाश्रम इति श्रुतः
तत्रोवास द्विजः पूर्वं कपिलो नाम वेदवित् ॥ ६४ ॥

विश्वास-प्रस्तुतिः

व्रतोपवासनिरतो दरिद्र श्रोःत्रियस्तथा
भिक्षावृत्त्या च कुरुते कुटुम्ब परिपालनम् ॥ ६५ ॥

मूलम्

व्रतोपवासनिरतो दरिद्र श्रोःत्रियस्तथा
भिक्षावृत्त्या च कुरुते कुटुम्ब परिपालनम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः

व्रतोपवासनियमैर्विष्णुमाराधयत्यसौ
विष्णुं सम्पूज्य विधिवद्दीपं बोधयते सदा ॥ ६६ ॥

मूलम्

व्रतोपवासनियमैर्विष्णुमाराधयत्यसौ
विष्णुं सम्पूज्य विधिवद्दीपं बोधयते सदा ॥ ६६ ॥

विश्वास-प्रस्तुतिः

समादाय च तत्तैलं स्वगृहे पूज्य केशवम्
दीपं भक्त्या च परया बोधयेद्धरितुष्टये ॥ ६७ ॥

मूलम्

समादाय च तत्तैलं स्वगृहे पूज्य केशवम्
दीपं भक्त्या च परया बोधयेद्धरितुष्टये ॥ ६७ ॥

विश्वास-प्रस्तुतिः

एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः
मार्जारस्तीक्ष्णन्दंष्ट्रस्तु मूषकान्भक्षयेत्सदा ॥ ६८ ॥

मूलम्

एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः
मार्जारस्तीक्ष्णन्दंष्ट्रस्तु मूषकान्भक्षयेत्सदा ॥ ६८ ॥

विश्वास-प्रस्तुतिः

तत्रागच्छति भक्ष्यार्थं मूषकानामहर्निशम्
कृत्वा ध्यानं स भक्ष्यार्थं नित्यं नारायणाग्रतः ॥ ६९ ॥

मूलम्

तत्रागच्छति भक्ष्यार्थं मूषकानामहर्निशम्
कृत्वा ध्यानं स भक्ष्यार्थं नित्यं नारायणाग्रतः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

भक्षिता बहवस्तेन मूषका द्विजवेश्मनि
ये ये तैलार्थमायान्ति वर्त्यपाहरणाय च ॥ ७० ॥

मूलम्

भक्षिता बहवस्तेन मूषका द्विजवेश्मनि
ये ये तैलार्थमायान्ति वर्त्यपाहरणाय च ॥ ७० ॥

विश्वास-प्रस्तुतिः

तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परः
एवं प्रवर्तमानस्य कदाचित्कालपर्ययात् ॥ ७१ ॥

मूलम्

तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परः
एवं प्रवर्तमानस्य कदाचित्कालपर्ययात् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

एकादश्यां स कपिलो ब्राह्मणः स्वगृहे शुचिः
सोपवासः सपत्नीकः पूजयामास चाच्युतम् ॥ ७२ ॥

मूलम्

एकादश्यां स कपिलो ब्राह्मणः स्वगृहे शुचिः
सोपवासः सपत्नीकः पूजयामास चाच्युतम् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

ततो जागरणं चक्रे स्तुतिनृत्यपरायणः
अर्द्धरात्रे तु सम्प्राप्ते निद्रया मोहितो द्विजः ॥ ७३ ॥

मूलम्

ततो जागरणं चक्रे स्तुतिनृत्यपरायणः
अर्द्धरात्रे तु सम्प्राप्ते निद्रया मोहितो द्विजः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

मार्जारश्चागतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमः
लक्षयामास नैवेद्यं गृहकोणे स्थितः सदा ॥ ७४ ॥

मूलम्

मार्जारश्चागतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमः
लक्षयामास नैवेद्यं गृहकोणे स्थितः सदा ॥ ७४ ॥

विश्वास-प्रस्तुतिः

अद्राक्षीन्मूषिकां क्षुद्रा तैलपानार्थमागताम्
मन्दतेजसि दीपे तु वर्त्यपाहरणोचिताम् ॥ ७५ ॥

मूलम्

अद्राक्षीन्मूषिकां क्षुद्रा तैलपानार्थमागताम्
मन्दतेजसि दीपे तु वर्त्यपाहरणोचिताम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

समुत्पत्य पदाक्रम्य तदा सा बिलमाविशत्
तस्याः पादेन वै वर्त्या दीपः सम्बोधितो भृशम् ॥ ७६ ॥

मूलम्

समुत्पत्य पदाक्रम्य तदा सा बिलमाविशत्
तस्याः पादेन वै वर्त्या दीपः सम्बोधितो भृशम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

तैलपात्रं च नमितं सुप्रकाशोऽभवत्तदा
ब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां विमोहिनीम् ॥ ७७ ॥

मूलम्

तैलपात्रं च नमितं सुप्रकाशोऽभवत्तदा
ब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां विमोहिनीम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

मार्जारोऽपि च तां रात्रीमजाग्रच्चाखुभक्षकः
ततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः ॥ ७८ ॥

मूलम्

मार्जारोऽपि च तां रात्रीमजाग्रच्चाखुभक्षकः
ततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

ततश्च पारणं चक्रे विप्रो बन्धुजनैः सह
एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः ॥ ७९ ॥

मूलम्

ततश्च पारणं चक्रे विप्रो बन्धुजनैः सह
एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम्
आरोग्यं परमामृद्धिमवाप महतीं श्रियम् ॥ ८० ॥

मूलम्

बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम्
आरोग्यं परमामृद्धिमवाप महतीं श्रियम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

दीपव्रतप्रभावेन कपिलो मोक्षमागतः
सम्भेद्य मण्डलं पुण्यं सवितुः शशिनस्तथा ॥ ८१ ॥

मूलम्

दीपव्रतप्रभावेन कपिलो मोक्षमागतः
सम्भेद्य मण्डलं पुण्यं सवितुः शशिनस्तथा ॥ ८१ ॥

विश्वास-प्रस्तुतिः

दीपज्योतिःस्वरूपेण परमात्मा नियुक्तवान्
मूषिकापि च कालेन ममार बिलमध्यतः ॥ ८२ ॥

मूलम्

दीपज्योतिःस्वरूपेण परमात्मा नियुक्तवान्
मूषिकापि च कालेन ममार बिलमध्यतः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

विमानवरमासाद्य विष्णुलोकं जगाम सा
मार्जारोऽपि च कालान्ते मृतः स्वर्गं जगाम सः ॥ ८२ ॥

मूलम्

विमानवरमासाद्य विष्णुलोकं जगाम सा
मार्जारोऽपि च कालान्ते मृतः स्वर्गं जगाम सः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

विमानवरमारुह्य देवगन्धर्वसेवितम्
अप्सरोभिः परिवृतो विद्याधरगणैर्युतः ॥ ८३ ॥

मूलम्

विमानवरमारुह्य देवगन्धर्वसेवितम्
अप्सरोभिः परिवृतो विद्याधरगणैर्युतः ॥ ८३ ॥

विश्वास-प्रस्तुतिः

स्तूयमानो महातेजा जयशब्दादि मङ्गलैः
स्तूयमानः स वै नागैर्विष्णुलोकं जगाम सः ॥ ८४ ॥

मूलम्

स्तूयमानो महातेजा जयशब्दादि मङ्गलैः
स्तूयमानः स वै नागैर्विष्णुलोकं जगाम सः ॥ ८४ ॥

विश्वास-प्रस्तुतिः

कल्पकोटिसहस्राणि कल्पकोटिशतानि च
भुक्त्वा च विपुलान्भोगान्ततो राजाभवद्भुवि ॥ ८५ ॥

मूलम्

कल्पकोटिसहस्राणि कल्पकोटिशतानि च
भुक्त्वा च विपुलान्भोगान्ततो राजाभवद्भुवि ॥ ८५ ॥

विश्वास-प्रस्तुतिः

सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकः
रूपवान्सुभगश्चैव महाबलपराक्रमः ॥ ८६ ॥

मूलम्

सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकः
रूपवान्सुभगश्चैव महाबलपराक्रमः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

तस्य प्रियतमा भार्या सर्वलक्षणसंयुता
भर्तृभक्ता तथा शीला नाम्ना सा रूपसुन्दरी ॥ ८७ ॥

मूलम्

तस्य प्रियतमा भार्या सर्वलक्षणसंयुता
भर्तृभक्ता तथा शीला नाम्ना सा रूपसुन्दरी ॥ ८७ ॥

विश्वास-प्रस्तुतिः

सर्वासां चैव नारीणां मध्ये सा सुभगाभवत्
पुत्राश्च बहवो जातास्तथा दुहितरो घनाः ॥ ८८ ॥

मूलम्

सर्वासां चैव नारीणां मध्ये सा सुभगाभवत्
पुत्राश्च बहवो जातास्तथा दुहितरो घनाः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

एवं विहरतोस्तद्वद्दम्पत्योः प्रीतिपूर्वकम्
आगतः कार्त्तिको मासो हरिनेत्रावबोधकृत् ॥ ८९ ॥

मूलम्

एवं विहरतोस्तद्वद्दम्पत्योः प्रीतिपूर्वकम्
आगतः कार्त्तिको मासो हरिनेत्रावबोधकृत् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

तस्मिन्दीपाः प्रबोध्यन्ते नारायणपरायणैः
कृच्छ्रचान्द्रायणादीनि व्रतानि नियमास्तथा ॥ ९० ॥

मूलम्

तस्मिन्दीपाः प्रबोध्यन्ते नारायणपरायणैः
कृच्छ्रचान्द्रायणादीनि व्रतानि नियमास्तथा ॥ ९० ॥

विश्वास-प्रस्तुतिः

क्रियन्ते विष्णुभक्तैश्च संसारभयभीरुभिः
अथ प्रबोधिनीं प्राप्य राजा राज्ञीमथाब्रवीत् ॥ ९१ ॥

मूलम्

क्रियन्ते विष्णुभक्तैश्च संसारभयभीरुभिः
अथ प्रबोधिनीं प्राप्य राजा राज्ञीमथाब्रवीत् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

भद्रे प्रबोधिनी पुण्या विष्णोर्नाभिसरोरुहे
करिष्याम्यद्य पूजां च सोपवासो जितेन्द्रियः ॥ ९२ ॥

मूलम्

भद्रे प्रबोधिनी पुण्या विष्णोर्नाभिसरोरुहे
करिष्याम्यद्य पूजां च सोपवासो जितेन्द्रियः ॥ ९२ ॥

विश्वास-प्रस्तुतिः

स्नात्वा च पुष्करे तीर्थे पुण्डरीकाक्षमच्युतम्
पूजयिष्यामि देवेशं लक्ष्म्या सह जनार्दनम् ॥ ९३ ॥

मूलम्

स्नात्वा च पुष्करे तीर्थे पुण्डरीकाक्षमच्युतम्
पूजयिष्यामि देवेशं लक्ष्म्या सह जनार्दनम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

इति सा वाञ्छितं श्रुत्वा भर्तुः प्रियहिते रता
उवाच वचनं गुह्यं भर्त्तारं चारुहासिनी ॥ ९४ ॥

मूलम्

इति सा वाञ्छितं श्रुत्वा भर्तुः प्रियहिते रता
उवाच वचनं गुह्यं भर्त्तारं चारुहासिनी ॥ ९४ ॥

विश्वास-प्रस्तुतिः

रूपसुन्दर्युवाच-
ममापि हृदये कामः समुत्पन्नो नराधिप
रूपसौन्दर्यवाञ्छा च हृदये मम वर्त्तते ॥ ९५ ॥

मूलम्

रूपसुन्दर्युवाच-
ममापि हृदये कामः समुत्पन्नो नराधिप
रूपसौन्दर्यवाञ्छा च हृदये मम वर्त्तते ॥ ९५ ॥

विश्वास-प्रस्तुतिः

पुष्करं प्रथमं तीर्थं गन्तुमिच्छे त्वया सह
ततो राजा तया सार्द्धमागतः पुष्करं तदा ॥ ९६ ॥

मूलम्

पुष्करं प्रथमं तीर्थं गन्तुमिच्छे त्वया सह
ततो राजा तया सार्द्धमागतः पुष्करं तदा ॥ ९६ ॥

विश्वास-प्रस्तुतिः

हस्त्यश्वरथवृन्दैश्च समागत्य पुरोहितैः
ततः स्नात्वा तथा ध्यायन्तर्पयन्पितृदेवताः ॥ ९७ ॥

मूलम्

हस्त्यश्वरथवृन्दैश्च समागत्य पुरोहितैः
ततः स्नात्वा तथा ध्यायन्तर्पयन्पितृदेवताः ॥ ९७ ॥

विश्वास-प्रस्तुतिः

पूजयामास देवेशं पुण्डरीकाक्षमच्युतम्
दीपमालाकुले तत्र सर्वतः सुमनोहरे ॥ ९८ ॥

मूलम्

पूजयामास देवेशं पुण्डरीकाक्षमच्युतम्
दीपमालाकुले तत्र सर्वतः सुमनोहरे ॥ ९८ ॥

विश्वास-प्रस्तुतिः

ददर्श लिखितं तत्र मार्जारं देवतालये
तं दृष्ट्वा प्राकृतं कर्म जन्म स्मृत्वा नृपस्तदा ॥ ९९ ॥

मूलम्

ददर्श लिखितं तत्र मार्जारं देवतालये
तं दृष्ट्वा प्राकृतं कर्म जन्म स्मृत्वा नृपस्तदा ॥ ९९ ॥

मुखपङ्कजमालोक्य प्रियायाः प्रजहास च
रूपसुन्दर्युवाच-
मम सन्मुखमालोक्य भर्तः किं स्मितकारणम् 6.30.१००
कथयामास हृष्टात्मा प्राक्तनं कर्मणः फलम्
राजोवाच-
अहमासं पुरा देवि मार्जारो ब्राह्मणालये १०१
भक्षिता मूषकास्तत्र मया शतसहस्रशः
ततो नारायणस्याग्रे दीपः संरक्षितो यतः १०२
व्याजेनापि मया देविप्राप्तं तत्कर्मणः फलम्
विष्णुलोकमनुप्राप्य राज्यं प्राप्तं मयाधुना १०३
रूपसुन्दर्युवाच-
ममापि स्मरणं जातं प्राकृतस्य च जन्मनः
मूषिका चाहमप्यासं क्षुद्रा ब्राह्मणवेश्मनि १०४
कार्तिके च प्रबोधिन्यां मन्दीभूते च दीपके
वर्त्यग्राहरणार्थाय निर्गताहं तदा बिलात् १०५
दृष्ट्वा नारायणं देवं पूजितं कुसुमैस्तथा
निद्राभिभूतं विप्रं च वर्त्तिः कृष्टा मया तदा १०६
उत्थितस्त्वं यदा तत्र मां गृहीतुं कृतक्षणः
दृष्ट्वा त्वं च प्रणष्टाहं प्रविष्टा बिलमध्यतः १०७
विशन्त्या मम पादेन दीपवर्त्तिर्विजृम्भिता
तैलपात्रं च नमितं तेनाहं सुखभागिनी १०८
तन्मया राजराजेन्द्र दीपं चैव प्रकाशितम्
इदानीं च मया प्राप्तं रूपलावण्यमुत्तमम् १०९
त्वं च भर्त्ता तथा राज्यं पुत्राश्चैवंविधं सुखम्
दीपप्रबोधनाज्जातं ज्ञानमत्यन्त दुर्ल्लभम् ११०
तस्मात्सर्वप्रयत्नेन दीपव्रतमनुत्तमम्
आवां हि परया भक्त्या कुर्वश्चैव विशेषतः १११
तदेतत्कर्मणः प्राप्तं फलं राज्यादिसम्पदः
पूर्वजन्मस्मृतं चापि सर्वपापक्षयस्तथा ११२
तस्मात्सर्वप्रयत्नेन विधिमन्त्रादिपूर्वकम्
दीपव्रतं कृतं पुम्भिः पुण्यं चन्द्रार्कतारकम् ११३
इति श्रुत्वा वचो राजा चक्रे दीपव्रतं तदा
प्रियया सह देवर्षे सम्यक्श्रद्धासमन्वितः ११४
तस्मिंस्तु पुष्करे तीर्थे कृत्वा दीपव्रतं तु तौ
अवापतुः परां मुक्तिं देवदानवदुर्ल्लभाम् ११५
एतद्दीपस्य माहात्म्यं ये शृण्वन्ति नरा भुवि
सर्वपापविनिर्मुक्ताः प्रयान्ति हरिमन्दिरम् ११६
ये च कुर्वन्ति पुरुषाः स्त्रियो वा भक्तितत्पराः
ते सर्वे पापनिर्मुक्ता यान्ति ब्रह्मसनातनम् ११७
दीपव्रतमिदं विद्वन्कथितं ते विमुक्तिदम्
सर्वसौख्यप्रदं धन्यं महाव्रतमिदं तव ११७
नेत्ररोगा विनश्यन्ति यथा पापप्रभावजाः
आधयो व्याधयः सर्वे नश्यन्ते हि कृतेक्षणात् ११८
न दारिद्र्यं न शोकं च न मोहो न च विभ्रमः
गृहे लक्ष्मीः समायाति जन्मजन्मनि वाडव ११९
इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे दीपव्रतमाहात्म्यन्नाम त्रिंशोऽध्यायः ३०