०२९

महादेव उवाच-

विश्वास-प्रस्तुतिः

अथान्यत्सम्प्रवक्ष्यामि शृणु देवर्षिसत्तम
गोपीचन्दनमाहात्म्यं यथादृष्टं श्रुतं मया ॥ १ ॥

मूलम्

ब्राह्मणो वाथ वैश्यो वा शूद्रो वाप्यथवा द्विजः
गोपीचन्दनलिप्ताङ्गो मुच्यते ब्रह्महत्यया ॥ २ ॥

तिलकं कुरुते यस्तु गोपीचन्दनसम्भवम्
मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः ॥ ३ ॥

गोपीचन्दनलिप्ताङ्गो वैष्णवो विष्णुतत्परः
सर्वदोषैः प्रमुच्येत यथा गङ्गाम्भसा पुनः ॥ ४ ॥

ब्रह्महा मद्यपानी च स्वर्णस्तेयी तथैव च
गुरुतल्पगमो वाथ शूद्रो वाप्यथ वै द्विजः ॥ ५ ॥

स सद्यो मुच्यते पापादाजन्मशतकारणात्
द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः ॥ ६ ॥

वैष्णवानां ब्राह्मणानां कर्तव्यं भूतिमिच्छताम्
दण्डाकारं ललाटे स्यात्पद्माकारं तु वक्षसि ॥ ७ ॥

वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपकाकृति
उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे ॥ ८ ॥

नाममुद्राद्वयं नीचैः शङ्खमेकं तयोरपि
मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेत् ॥ ९ ॥

वामेऽपि चतुरः शङ्खान्नाममुद्रे च पूर्ववत्
चक्रमेकङ्गदे द्वे द्वे तयोरिति विभेदतः ॥ १० ॥

ललाटे च गदामेकां नाममुद्रां तथा हृदि
त्रीणित्रीणि विचित्राणि मध्ये शाखावुभावुभौ ॥ ११ ॥

हृदि पार्श्वे स्तनादूर्ध्वं गदापद्मानि बाहुवत्
त्रीणि चत्वारि चक्राणि कर्णमूले द्वयोरधः ॥ १२ ॥

एकमेकं तदन्येषु तिलकेषु च धारयेत्
सम्प्रदायजमुद्रां तु धार्या शिष्टानुसारतः ॥ १३ ॥

यथारुच्यथवा धार्या न तत्र नियमा यतः
आचाण्डालाद्विशुद्ध्यन्ति तिलकस्यैव धारणात् ॥ १४ ॥

चाण्डालादधिकं मन्ये वैष्णवानां हि निन्दकम्
स च विष्णुसमो ज्ञेयो नात्र कार्या विचारणा ॥ १५ ॥

वैष्णवो ब्राह्मणो यस्तु विष्णुध्यानेषु तत्परः
नान्तरस्तस्य वै ज्ञेयः स वै विष्णुर्भवेदिह ॥ १६ ॥

शङ्खचक्रधरो विप्रो वेदाध्ययनतत्परः
स वै नारायण इति वेदे चैव तु पठ्यते ॥ १७ ॥

तप्तचक्रधरो विप्रः पङ्क्तिपावनपावनः
तस्य भक्तियुतो ब्रह्मन्महापापैः प्रमुच्यते ॥ १८ ॥

तुलसीपत्रमालां वा तुलसीकाष्ठसम्भवाम्
धृत्वा वै ब्राह्मणो भूयान्मुक्तिभागी न संशयः ॥ १९ ॥

विष्णुरूपो यतो विप्रो वैष्णवः स इह स्मृतः
पञ्चत्वे यस्य तिलकं गोपीचन्दनसम्भवम् ॥ २० ॥

विमानं स समारुह्य याति विष्णोः परं पदम्
कलौ नारद वक्ष्यामि तिलकं गोपिचन्दनम् ॥ २१ ॥

ये कुर्वन्ति नरश्रेष्ठा न तेषां दुर्गतिः क्वचित्
शङ्खं चैव तथा चक्रं दक्षिणे चापि सव्यके ॥ २२ ॥

हस्ते धृत्वा विशेषेण महापापैः प्रमुच्यते
मद्यपानरता ये च ये च स्त्रीबालघातकाः ॥ २३ ॥

अगम्यागमका ये वै दृश्यन्ते भुवि वाडव
भक्तानां दर्शनादेव मुक्तिस्तेषां न संशयः ॥ २४ ॥

संसारे तुच्छसारेस्मिन्कुतो वै वैष्णवा जनाः
अहं हि वैष्णवो जातो विष्णोर्भक्तिप्रसादतः ॥ २५ ॥

काश्यां निवसतां ह्यत्र रामरामेति सञ्जपन्
तेन पुण्यादियोगेन शिवो वै नात्र संशयः ॥ २६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे गोपीचन्दनमाहात्म्यं नामैकोनत्रिंशोऽध्यायः २९