०२८

महादेव उवाच-

विश्वास-प्रस्तुतिः

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पुराणं परमं पुण्यं सर्वपापहरं शुभम् ॥ १ ॥

मूलम्

कुमारेण च लोकानां नमस्कृत्य पितामहम्
प्रोक्तं चेदं ममाख्यानं देवर्षे ब्रह्मसूनुना ॥ २ ॥

सनत्कुमार उवाच-
गतोऽहं धर्मराजानं द्रष्टुं सम्पूजितो मुदा
श्रुतिभिः परया भक्त्या तेनोक्तोऽस्मि सुखासने ॥ ३ ॥

मया तत्रोपविष्टेन दृष्टं किञ्चिन्महाद्भुतम्
काञ्चनेन विमानेन वैडूर्यकृतवेदिना ॥ ४ ॥

मणिमुक्तविचित्रेण किङ्किणीजालशोभिना
आगतं पुरुषं तत्र आसनाद्देवसत्तम ॥ ५ ॥

मूलम्

मणिमुक्तविचित्रेण किङ्किणीजालशोभिना
आगतं पुरुषं तत्र आसनाद्देवसत्तम ॥ ५ ॥

विश्वास-प्रस्तुतिः

ससम्भ्रमं समुत्थाय दृष्ट्वा धर्मः स्वयं विभुः
गृहीत्वा दक्षिणे पाणौ पूजितोऽर्घेण वै ततः ॥ ६ ॥

शिरस्याघ्राय देवेशः पुरः स्थाप्य ततः परम्
पूजयित्वा तु तं धर्म इदं वाक्यमुवाच ह ॥ ७ ॥

सुस्वागतं धर्मदर्शिन्प्रीतोऽस्मि दर्शनात्तव
समीपे मम तिष्ठस्व किञ्चिज्ज्ञानं वदस्व मे ॥ ८ ॥

पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा व्यवस्थितः
इत्युक्ते च ततश्चान्यो विमानवरमास्थितः ॥ ९ ॥

आगतः पुरुषो देवो यत्र तिष्ठति धर्मराट्
स पूजितो विमानस्थः प्रश्रयावनतेन च ॥ १० ॥

सामपूर्वं तथोक्त्वा तु यथापूर्वं नरः स्वयम्
किमनेन कृतं कर्म यस्य तुष्टो भवान्भृशम् ॥ ११ ॥

अत्र मे कौतुकं जातं कृता हि स्वयमेव तु
यदस्य भवता पूजा सविस्मयमनन्तरम् ॥ १२ ॥

मूलम्

अत्र मे कौतुकं जातं कृता हि स्वयमेव तु
यदस्य भवता पूजा सविस्मयमनन्तरम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

तथैवास्य कृता पूजा द्वितीयस्य नरस्य तु
मेनेऽहं शुभकर्माणौ विमानं वरसत्तमौ ॥ १३ ॥

यस्त्वमाभ्यां स्वयं पूजां कुरुषे धर्मकारणात्
ब्रह्माविष्णुशिवाद्यैस्तु पूज्यसे त्वं सदानिशम् ॥ १४ ॥

यस्येदृक्परमं पुण्यं किमेतौ कर्म चक्रतुः
कथ्यतां मम सर्वज्ञ फलं दिव्यमवापतुः ॥ १५ ॥

तच्छ्रुत्वा स तु मां प्राह शृणु कर्मानयोः कृतम्
यत्कृत्वार्हमिहायातौ तच्छृणुष्व महामते ॥ १६ ॥

धर्म उवाच-
वैदिशं नाम नगरं पृथिव्यामस्ति विश्रुतम्
तत्राभूत्पृथिवीपालो धरापाल इति श्रुतः ॥ १७ ॥

कस्मिन्काले पुरा देवी शशाप स्वगणं क्रुधा
मदृतेन परा नारी भर्त्तुर्यन्मे निवेशिता ॥ १८ ॥

तस्माद्द्वादशवर्षाणि जम्बुकस्त्वं भविष्यसि
इत्युक्तः स च बभ्राम जम्बुको मेदिनीतलम् ॥ १९ ॥

वेतसी वेत्रवत्योस्तु सङ्गमे लोकविश्रुते
शापान्तो भविता पुत्र इत्युक्तं गिरिकन्यया ॥ २० ॥

तत्र चानशनं कृत्वा क्षेत्रे प्राणांस्ततोऽत्यजत्
दिव्यरूपवपुर्भूत्वा जगाम विष्णुसन्निधौ ॥ २१ ॥

तत्राश्चर्यं महद्दृष्ट्वा धरापालो महीपतिः
विष्णोरायतनं कृत्वा क्षेत्रे प्राणंस्ततोऽत्यजत् ॥ २२ ॥

दिव्यरूपवपुर्भूत्वा स्थापयामास तं प्रभुम्
तस्मिन्पुरे नरान्सर्वा सन्नियोज्यास्य वीक्षणे ॥ २३ ॥

शुभमायतनं विष्णोस्तस्मिन्ग्रामे सदा जनैः
पूर्णं तु ब्राह्मणादीनां पूजयित्वा कदम्बकम् ॥ २४ ॥

इतिहासपुराणज्ञं वाचकं तु विशेषतः
पूजयित्वा द्विजश्रेष्ठं विद्याश्रेष्ठं महामतिः ॥ २५ ॥

पुस्तकं चापि सम्पूज्य गन्धपुष्पादिभिः क्रमात्
ततस्तमाह राजासौ वाचकं विनयान्वितः ॥ २६ ॥

एतदायतनं विष्णोः कारितं च तवाग्रतः
चातुर्वर्ण्यमिदं चापि श्रोतुकामं कदम्बकम् ॥ २७ ॥

तिष्ठतीह द्विजश्रेष्ठ कुरु पुस्तकवाचनम्
यावत्संवत्सरं विप्र गृह्य वृत्तिं त्वनुत्तमाम् ॥ २८ ॥

स्वर्णनिष्कशतं चात्र ततो दास्ये तथापरम्
पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोऽथ महमात्मनः ॥ २९ ॥

एवं प्रवर्तितं तत्र पुण्यं पुस्तकवाचनम्
वर्षसङ्गतमात्रे तु तथा च मुनिसत्तम ॥ ३० ॥

अथायुषः क्षयाच्चायं कालधर्ममुपेयिवान्
मया चास्य विमानं हि विष्णुना प्रेरितं दिवः ॥ ३१ ॥

इत्येषा कर्मणां व्युष्टिः पुण्यमाख्यानसञ्ज्ञकम्
श्रुतं पाद्मं महत्पुण्यं पवित्रं पापनाशनम् ॥ ३२ ॥

गन्धपुष्पोपहारैस्तु न तुष्टिर्जायते तथा
देवानामिह सर्वेषां पुराणश्रवणाद्यथा ॥ ३३ ॥

स्वर्णरत्नादिवस्तूनां वस्त्राणां चापि कृत्स्नशः
ग्रामाणां नगराणां च दानात्तुष्टिर्भवेन्नहि ॥ ३४ ॥

यथा स्याद्धर्मश्रवणात्प्रीतिः सर्वदिवौकसाम्
इतिहासपुराणानां श्रवणे मुनिसत्तम ॥ ३५ ॥

तथा स्यान्मे महाप्रीतिः साध्ये सर्वार्थकामिके
कन्यादाने महाप्रीतिर्मम स्यान्मुनिसत्तम ॥ ३६ ॥

न तथा रोचते सा च यथा पुस्तकवाचनात्
अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम ॥ ३७ ॥

पुण्याख्यानमृते विप्र गुह्यमेतत्प्रकीर्तितम्
यश्चायमपरो विप्र इहायातो नरोत्तमः ॥ ३८ ॥

सङ्गत्यानुगतश्चायं धर्मश्रवणमुत्तमम्
श्रुत्वा भक्तिरभूदस्य श्रद्धया परमात्मनः ॥ ३९ ॥

कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः
एष विप्रो मुनिश्रेष्ठ ददौ स्वर्णस्य माषकम् ॥ ४० ॥

नान्यद्दानं कदा चक्रे लोभाविष्टेन चेतसा
पात्रदानात्फलप्राप्तिस्त्वस्य जाता न संशयः ॥ ४१ ॥

इत्येतत्कथितं कर्म आभ्यां चैव महामुने ॥ ४२ ॥

मूलम्

इत्येतत्कथितं कर्म आभ्यां चैव महामुने ॥ ४२ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच-
एतत्पुण्यस्य माहात्म्यं ये शृण्वन्ति मनीषिणः
न तेषां दुर्गतिः कच्चिज्जन्मजन्मनि जायते ॥ ४३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे शास्त्रव्याख्यामहिमानामा
ष्टाविंशोऽध्यायः २८