महादेव उवाच-
विश्वास-प्रस्तुतिः
पानीयदानं परमं दानानामुत्तमं सदा
तस्माद्वापीश्च कूपांश्च तडागानि च कारयेत् ॥ १ ॥
मूलम्
पानीयदानं परमं दानानामुत्तमं सदा
तस्माद्वापीश्च कूपांश्च तडागानि च कारयेत् ॥ १ ॥
विश्वास-प्रस्तुतिः
अर्द्धं पापं संहरन्ति पुरुषस्य विकर्मणः
कूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः ॥ २ ॥
मूलम्
अर्द्धं पापं संहरन्ति पुरुषस्य विकर्मणः
कूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः ॥ २ ॥
विश्वास-प्रस्तुतिः
स च तारयते वंशं यस्य खात जलाशये
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ ३ ॥
मूलम्
स च तारयते वंशं यस्य खात जलाशये
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ ३ ॥
विश्वास-प्रस्तुतिः
निदाघकाले पानीयं यस्य तिष्ठति नारद
दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते ॥ ४ ॥
मूलम्
निदाघकाले पानीयं यस्य तिष्ठति नारद
दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते ॥ ४ ॥
विश्वास-प्रस्तुतिः
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ५ ॥
मूलम्
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ५ ॥
विश्वास-प्रस्तुतिः
अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम्
कीर्तिसञ्जननं श्रेष्ठं तडागस्योपलक्षयेत् ॥ ६ ॥
मूलम्
अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम्
कीर्तिसञ्जननं श्रेष्ठं तडागस्योपलक्षयेत् ॥ ६ ॥
विश्वास-प्रस्तुतिः
धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः
तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम् ॥ ७ ॥
मूलम्
धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः
तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
चतुर्विधानां भूतानां तडागस्योपलक्षयेत्
तडागानि च सर्वाणि दिशन्ति श्रेयमुत्तमम् ॥ ८ ॥
मूलम्
चतुर्विधानां भूतानां तडागस्योपलक्षयेत्
तडागानि च सर्वाणि दिशन्ति श्रेयमुत्तमम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
देवामनुष्यागन्धर्वाः पितरो नाग राक्षसाः
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ९ ॥
मूलम्
देवामनुष्यागन्धर्वाः पितरो नाग राक्षसाः
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठति
अग्निहोत्रफलं तस्य जायते नात्र संशयः ॥ १० ॥
मूलम्
वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठति
अग्निहोत्रफलं तस्य जायते नात्र संशयः ॥ १० ॥
विश्वास-प्रस्तुतिः
हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति
गोसहस्रफलं तस्य लभते नात्र संशयः ॥ ११ ॥
मूलम्
हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति
गोसहस्रफलं तस्य लभते नात्र संशयः ॥ ११ ॥
विश्वास-प्रस्तुतिः
वसन्तेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदि
अतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः ॥ १२ ॥
मूलम्
वसन्तेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदि
अतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः ॥ १२ ॥
विश्वास-प्रस्तुतिः
अथैतेषां तु वृक्षाणां रोपणे च गुणाञ्छृणु
अतीतानागतौ चोभौ पितृवंशौ महाऋषे ॥ १३ ॥
मूलम्
अथैतेषां तु वृक्षाणां रोपणे च गुणाञ्छृणु
अतीतानागतौ चोभौ पितृवंशौ महाऋषे ॥ १३ ॥
विश्वास-प्रस्तुतिः
तारयेद्वृक्षरोपी च तस्माद्वृक्षांस्तु रोपयेत्
पुत्रपौत्रा भवन्त्येते पादपा नात्र संशयः ॥ १४ ॥
मूलम्
तारयेद्वृक्षरोपी च तस्माद्वृक्षांस्तु रोपयेत्
पुत्रपौत्रा भवन्त्येते पादपा नात्र संशयः ॥ १४ ॥
विश्वास-प्रस्तुतिः
परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान्
पुष्पैः सुरगणान्सर्वान्पत्रैश्चापि तथा पितॄन् ॥ १५ ॥
मूलम्
परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान्
पुष्पैः सुरगणान्सर्वान्पत्रैश्चापि तथा पितॄन् ॥ १५ ॥
विश्वास-प्रस्तुतिः
छायया चातिथीन्सर्वान्पूजयन्ति महीरुहाः
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ॥ १६ ॥
मूलम्
छायया चातिथीन्सर्वान्पूजयन्ति महीरुहाः
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ॥ १६ ॥
विश्वास-प्रस्तुतिः
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ॥ १७ ॥
मूलम्
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ॥ १७ ॥
विश्वास-प्रस्तुतिः
इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताः
तडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः ॥ १८ ॥
मूलम्
इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताः
तडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः ॥ १८ ॥
विश्वास-प्रस्तुतिः
एते स्वर्गान्नहीयन्ते ये चान्ये सत्यवादिनः
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥ १९ ॥
मूलम्
एते स्वर्गान्नहीयन्ते ये चान्ये सत्यवादिनः
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥ १९ ॥
विश्वास-प्रस्तुतिः
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्
सत्यं देवेषु जागर्ति सत्यं च परमं पदम् ॥ २० ॥
मूलम्
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्
सत्यं देवेषु जागर्ति सत्यं च परमं पदम् ॥ २० ॥
विश्वास-प्रस्तुतिः
तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम्
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् ॥ २१ ॥
मूलम्
तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम्
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् ॥ २१ ॥
विश्वास-प्रस्तुतिः
सत्यं यज्ञस्तथा दानं मन्त्रा देवी सरस्वती
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च ॥ २२ ॥
मूलम्
सत्यं यज्ञस्तथा दानं मन्त्रा देवी सरस्वती
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च ॥ २२ ॥
विश्वास-प्रस्तुतिः
सत्येन वायुरभ्येति सत्येन तपते रविः
सत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति ॥ २३ ॥
मूलम्
सत्येन वायुरभ्येति सत्येन तपते रविः
सत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति ॥ २३ ॥
विश्वास-प्रस्तुतिः
पूजनं सर्वदेवानां सर्वतीर्थावगाहनम्
सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः ॥ २४ ॥
मूलम्
पूजनं सर्वदेवानां सर्वतीर्थावगाहनम्
सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः ॥ २४ ॥
विश्वास-प्रस्तुतिः
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते ॥ २५ ॥
मूलम्
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते ॥ २५ ॥
विश्वास-प्रस्तुतिः
सत्येन देवाः प्रीयन्ते पितरो ऋषयस्तथा
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ॥ २६ ॥
मूलम्
सत्येन देवाः प्रीयन्ते पितरो ऋषयस्तथा
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि ते
मुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम् ॥ २७ ॥
मूलम्
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि ते
मुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताः
अप्सरोगणसङ्घुष्टैर्विमानैः परितो वृताः ॥ २८ ॥
मूलम्
सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताः
अप्सरोगणसङ्घुष्टैर्विमानैः परितो वृताः ॥ २८ ॥
विश्वास-प्रस्तुतिः
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम्
अगाधे विपुले सिद्धे सत्तीर्थे च शुचौ हृदि ॥ २९ ॥
मूलम्
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम्
अगाधे विपुले सिद्धे सत्तीर्थे च शुचौ हृदि ॥ २९ ॥
विश्वास-प्रस्तुतिः
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम्
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ ३० ॥
मूलम्
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम्
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ ३० ॥
विश्वास-प्रस्तुतिः
वेदा यज्ञास्तथा मन्त्राः सन्ति विप्रेषु नित्यशः
न भान्त्युज्झित सत्येषु तस्मात्सत्यं समाचरेत् ॥ ३१ ॥
मूलम्
वेदा यज्ञास्तथा मन्त्राः सन्ति विप्रेषु नित्यशः
न भान्त्युज्झित सत्येषु तस्मात्सत्यं समाचरेत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
तपसां मे फलं ब्रूहि पुनरेव विशेषतः
सर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलम् ॥ ३२ ॥
मूलम्
नारद उवाच-
तपसां मे फलं ब्रूहि पुनरेव विशेषतः
सर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम्
सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥ ३३ ॥
मूलम्
प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम्
सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तपो हि परमं प्रोक्तं तपसा विन्दते फलम्
तपोरतो हि यो नित्यं मोदते सह दैवतैः ॥ ३४ ॥
मूलम्
तपो हि परमं प्रोक्तं तपसा विन्दते फलम्
तपोरतो हि यो नित्यं मोदते सह दैवतैः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
तपसा मोक्षमाप्नोति तपसा विन्दते महत् ॥ ३५ ॥
मूलम्
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
तपसा मोक्षमाप्नोति तपसा विन्दते महत् ॥ ३५ ॥
विश्वास-प्रस्तुतिः
ज्ञानविज्ञानसम्पत्तिः सौभाग्यं रूपमेव च
तपसा लभते सर्वं मनसा यद्यदिच्छति ॥ ३६ ॥
मूलम्
ज्ञानविज्ञानसम्पत्तिः सौभाग्यं रूपमेव च
तपसा लभते सर्वं मनसा यद्यदिच्छति ॥ ३६ ॥
विश्वास-प्रस्तुतिः
नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन
यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः ॥ ३७ ॥
मूलम्
नातप्ततपसो यान्ति ब्रह्मलोकं कदाचन
यत्कार्यं किञ्चिदास्थाय पुरुषस्तप्यते तपः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तत्सर्वं समवाप्नोति परत्रेह च मानवः
सुरापः परदारी च ब्रह्महा गुरुतल्पगः
तपसा तरते सर्वं सर्वतश्च विमुच्यते ॥ ३८ ॥
मूलम्
तत्सर्वं समवाप्नोति परत्रेह च मानवः
सुरापः परदारी च ब्रह्महा गुरुतल्पगः
तपसा तरते सर्वं सर्वतश्च विमुच्यते ॥ ३८ ॥
विश्वास-प्रस्तुतिः
अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः
ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥ ३९ ॥
मूलम्
अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः
ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
षडशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम्
तपसा दिवि मोदन्ते समेता दैवतैः सह ॥ ४० ॥
मूलम्
षडशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम्
तपसा दिवि मोदन्ते समेता दैवतैः सह ॥ ४० ॥
विश्वास-प्रस्तुतिः
तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराः
तपसा पालयन्सर्वानहन्यहनि वृत्तिदाः ॥ ४१ ॥
मूलम्
तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराः
तपसा पालयन्सर्वानहन्यहनि वृत्तिदाः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ
तपसैव प्रकाशन्ते नक्षत्राणि ग्रहास्तथा ॥ ४२ ॥
मूलम्
सूर्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ
तपसैव प्रकाशन्ते नक्षत्राणि ग्रहास्तथा ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते
तपस्तपति योऽरण्ये वनमूलफलाशनः ॥ ४३ ॥
मूलम्
सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते
तपस्तपति योऽरण्ये वनमूलफलाशनः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुने
श्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः ॥ ४४ ॥
मूलम्
योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुने
श्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुते
जगद्यथा निरालोकं जायते शशिभास्करौ ॥ ४५ ॥
मूलम्
तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुते
जगद्यथा निरालोकं जायते शशिभास्करौ ॥ ४५ ॥
विश्वास-प्रस्तुतिः
विना तथा पुराणं हि ध्येयमस्मान्महामुने
तप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः ॥ ४६ ॥
मूलम्
विना तथा पुराणं हि ध्येयमस्मान्महामुने
तप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
सम्बोधयति लोकं च तस्मात्पूज्यतमो गुरुः
सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित् ॥ ४७ ॥
मूलम्
सम्बोधयति लोकं च तस्मात्पूज्यतमो गुरुः
सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम्
धनं धान्यं हिरण्यं वा वासांसि विविधानि च ॥ ४८ ॥
मूलम्
पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम्
धनं धान्यं हिरण्यं वा वासांसि विविधानि च ॥ ४८ ॥
विश्वास-प्रस्तुतिः
ये यच्छन्ति सुपात्राय ते यान्ति च परां गतिम्
गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान् ॥ ४९ ॥
मूलम्
ये यच्छन्ति सुपात्राय ते यान्ति च परां गतिम्
गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु
अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् 6.27.॥ ५० ॥
मूलम्
यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु
अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् 6.27.॥ ५० ॥
विश्वास-प्रस्तुतिः
महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम्
स तारयति वै वंशान्दशपूर्वान्दशापरान् ॥ ५१ ॥
मूलम्
महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम्
स तारयति वै वंशान्दशपूर्वान्दशापरान् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
विमानेन च दिव्येन विष्णुलोकं स गच्छति
न यज्ञैस्तुष्टिमायान्ति देवाः प्रोक्षणकैरपि ॥ ५२ ॥
मूलम्
विमानेन च दिव्येन विष्णुलोकं स गच्छति
न यज्ञैस्तुष्टिमायान्ति देवाः प्रोक्षणकैरपि ॥ ५२ ॥
विश्वास-प्रस्तुतिः
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः
विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् ॥ ५३ ॥
मूलम्
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः
विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
देव्याः शम्भोर्गणेशस्य अर्कस्य च तथा पुनः
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ५४ ॥
मूलम्
देव्याः शम्भोर्गणेशस्य अर्कस्य च तथा पुनः
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम्
सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः ॥ ५५ ॥
मूलम्
इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम्
सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छति
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ॥ ५६ ॥
मूलम्
सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छति
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ॥ ५६ ॥
विश्वास-प्रस्तुतिः
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम्
तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत् ॥ ५७ ॥
मूलम्
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम्
तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम्
इतिहासपुराणाभ्यां विष्णोरायतने शुभम्
नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम् ॥ ५८ ॥
मूलम्
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम्
इतिहासपुराणाभ्यां विष्णोरायतने शुभम्
नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम् ॥ ५८ ॥
इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे वृक्षप्रपासरोवरतपोऽध्ययन
धर्मव्याख्यान माहात्म्यन्नाम सप्तविंशोऽध्यायः २७