०२६

नारद उवाच-

विश्वास-प्रस्तुतिः

गुणाधिकेभ्यो विप्रेभ्यो दातुकामोऽपि मानवः
कानिकानि च लोकेऽस्मिन्दद्यात्सर्वं तथा वद ॥ १ ॥

मूलम्

महादेव उवाच-
लोके तत्वं हि सञ्ज्ञाय शृणु देवर्षिसत्तम
अन्नमेवं प्रशंसन्ति सर्वमन्ने प्रतिष्ठितम् ॥ २ ॥

तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः
अन्नेन सदृशं दानं न भूतं न भविष्यति ॥ ३ ॥

अन्नेन धार्यते विश्वं जगत्स्थावरजङ्गमम्
अन्नमूर्जस्करं लोके प्राणाह्यन्ने प्रतिष्ठिताः ॥ ४ ॥

दातव्यं भक्ष्यमेवान्नं ब्राह्मणाय महात्मने
कुटुम्बं पीडयित्वापि आत्मनो भूतिमिच्छता ॥ ५ ॥

नारदासौ विदांश्रेष्ठो यो दद्यादन्नमर्थिने
ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः ॥ ६ ॥

आत्मीयभूतिमन्विच्छेत्काले द्विजमुपस्थितम्
श्रान्तमध्वनि वर्त्तन्तं गृहस्थं गृहमागतम् ॥ ७ ॥

अन्नदः प्राप्नुते विद्वान्सुशीलो वीतमत्सरः
क्रोधमुत्पतितं हित्वा दिवि चेह च यत्सुखम् ॥ ८ ॥

नाभिनिन्देच्च अतिथिं न द्रुह्याच्च कथञ्चन
ब्रह्मविदेऽर्पयेदन्नं तच्च दानं विशिष्यते ॥ ९ ॥

श्रान्तायादृष्टपूर्वाय अन्नमध्वनि वर्तिने
यो दद्याच्च परिक्लिष्टं सर्वधर्ममवाप्नुयात् ॥ १० ॥

पितृदेवांस्तथा विप्रातिथींश्च महामुने
यो नरः प्रीणयेतान्नैस्तस्य पुण्यमनन्तकम् ॥ ११ ॥

कृत्वापि सुमहत्पापं यो दद्यादन्नमर्थिने
ब्राह्मणाय विशेषेण स तु पापैः प्रमुच्यते ॥ १२ ॥

ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महत्फलम्
अन्नदानं च शूद्रे च ब्राह्मणे चावशिष्यते ॥ १३ ॥

न पृच्छेद्गोत्रचरणं न च स्वाध्यायमेव च
भिक्षुको ब्राह्मणो ह्यत्र दद्यादन्नं प्रयाति च ॥ १४ ॥

अन्नदस्य शुभा वृक्षाः सर्वकामफलान्विताः
सम्भवन्तीह लोके च हर्षयुक्तास्त्रिविष्टपे ॥ १५ ॥

अन्नदानेन ये लोकास्तान्शृणुष्वमहामुने
विमानानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥ १६ ॥

नानासंस्थानरूपाणि नानाकामान्वितानि च
सर्वकामफलाश्चापि वृक्षा भुवनसंस्थिताः ॥ १७ ॥

हेमवाप्यः शुभाः सर्वा दीर्घिकाश्चैव सर्वशः
घोषवन्ति च यानानि मुक्तान्यथ सहस्रशः ॥ १८ ॥

भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च
क्षीरं स्रवन्त्यः सरितस्तथैवाज्यस्य पर्वताः ॥ १९ ॥

प्रासादाः शुभ्रवर्णाभाः शय्याश्च कनकोज्वलाः
तदन्नं दातुमिच्छन्ति तस्मादन्नप्रदो भवेत् ॥ २० ॥

एते लोकाः पुण्यकृतामन्नदानं महत्फलम्
तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि ॥ २१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे अन्नदानप्रशंसानाम षड्विंशोऽध्यायः २६