०२५

नारदउवाच-

विश्वास-प्रस्तुतिः

एवं तुलस्या माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया
साम्प्रतं तु समाचक्ष्व त्रिरात्रं तुलसीव्रतम् ॥ १ ॥

मूलम्

सदाशिव उवाच-
शृणु विप्र महाबुद्धे व्रतमेतत्पुरातनम्
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २ ॥

पुरा रैभ्यन्तरे कल्पे राजा ह्यासीत्प्रजापतिः
तस्य भार्या च विख्याता चन्द्ररूपा महासती ॥ ३ ॥

सा वै व्रतमिदं चक्रे सर्वकामफलप्रदम्
त्रिरात्रं तु व्रतं तस्या धर्मकामार्थ मोक्षदम् ॥ ४ ॥

सफलं जीवितं तेषां यैः श्रुतं तुलसीव्रतम्
कार्तिके शुक्लपक्षे तु नवम्यां चैव नारद ॥ ५ ॥

नियमस्थो व्रती तिष्ठेद्भूमिशायी जितेन्द्रियः
व्रतं त्रिरात्रमुद्दिश्य शुचिः संयतमानसः ॥ ६ ॥

स्वपेन्नियमपूर्वं तु तुलसीवनसन्निधौ
ततो मध्याह्नसमये नद्यादौ विमले जले ॥ ७ ॥

स्नानं कृत्वा पितॄन्देवांस्तर्पयेद्विधिपूर्वकम्
सुवर्णं कारयेद्देवं लक्ष्म्या सह जनार्दनम् ॥ ८ ॥

वित्तशाठ्यं न कर्तव्यमात्मनः श्रेयमिच्छता
वस्त्रयुग्मं ततः कार्यं पीते शुक्लेऽपि वाससी
नवग्रहाणामारम्भं शान्तिकं विधिपूर्वकम् ॥ ९ ॥

श्रपयित्वा चरुं तत्र वैष्णवं होममाचरेत्
द्वादश्यां देवदेवेशं पूजयित्वा प्रयत्नतः ॥ १० ॥

अव्रणं शुद्धकलशं स्थापयेद्विधिपूर्वकम्
पञ्चरत्नसमोपेतं पल्लवैश्चोषधीयुतम् ॥ ११ ॥

तस्योपरिन्यसेत्पात्रे लक्ष्म्या सह जनार्दनम्
स्थापयेत्तुलसीमूले मन्त्रैर्वेदपुराणकैः ॥ १२ ॥

पयसा केवलेनैव सिञ्चयेत्तुलसीवनम्
पञ्चामृतेन संस्नाप्य देवदेवं जगद्गुरुम् ॥ १३ ॥

योऽनन्तरूपोऽखिलविश्वरूपो गर्भोदके लोकविधिं बिभर्त्ति
प्रसीदतामेष सदेव देवो यो मायया विश्वकृदेष देवी ॥ १४ ॥

प्रार्थनामन्त्रः
आगच्छाच्युत देवेश तेजोराशे जगत्पते
सदैव तिमिरध्वंसी पाहि मां भवसागरात् ॥ १५ ॥

आवाहनमन्त्रः
पञ्चामृतेन सुस्नानं तथा गन्धोदकेन च
गङ्गादीनां च तोयेन स्नातोऽनन्तःप्रसीदतु ॥ १६ ॥

स्नानमन्त्रः
श्रीखण्डागुरुकर्पूरं कुङ्कुमादिविलेपनम्
भक्त्या दत्तं मया देव लक्ष्म्या सह गृहाण वै ॥ १७ ॥

विलेपनमन्त्रः
नारायण नमस्तेऽस्तु नरकार्णवतारण
त्रैलोक्याधिपते तुभ्यं ददामि वसने शुभे ॥ १८ ॥

वस्त्रमन्त्रः
दामोदर नमस्तेस्तु त्राहि मां भवसागरात्
ब्रह्मसूत्रं मया दत्तं गृहाण पुरुषोत्तम ॥ १९ ॥

उपवीतमन्त्रः
पुष्पाणि च सुगन्धीनि मालत्यादीनि वै प्रभो
मया दत्तानि देवेश प्रीतितः प्रतिगृह्यताम् ॥ २० ॥

पुष्पमन्त्रः
नैवेद्यं गृह्यतां नाथ भक्ष्यभोज्यैः समन्वितम्
सर्वै रसैः सुसम्पन्नं गृहाण परमेश्वर ॥ २१ ॥

नैवेद्यमन्त्रः
पूगानि नागपत्राणि कर्पूरसहितानि च
मया दत्तानि देवेश ताम्बूलं प्रतिगृह्यताम् ॥ २२ ॥

ताम्बूलमन्त्रः
धूपं दत्वा गुरुं भक्त्या गुग्गुलं घृतमिश्रितम्
एवं पूजा प्रकर्त्तव्या घृतेन दीपमाचरेत् ॥ २३ ॥

विविधं मुनिशार्दूल दीपं कृत्वा समाहितः
लक्ष्मीनारायणस्याग्रे तुलसीवनसन्निधौ ॥ २४ ॥

अर्घं तत्र प्रदातव्यं देवदेवाय चक्रिणे
नवम्यां नालिकेरेण पुत्रार्थमर्घमुत्तमम् ॥ २५ ॥

दशम्यां बीजपूरं तु धर्मकामार्थसिद्धये
एकादश्यां दाडिमेन दारिद्र्यं नाशयेत्सदा ॥ २६ ॥

सप्तधान्येन संयुक्तं वंशपात्रेण नारद
फलसप्तकसंयुक्तं पत्रं पूगसमन्वितम् ॥ २७ ॥

वस्त्रेणाच्छादितं कृत्वा देवस्याग्रे निवेदयेत्
मन्त्रेणानेन विपेन्द्र शृणुष्वैकाग्रमानसः ॥ २८ ॥

तुलसीसहितो देव सदा शङ्खेन संयुतम्
गृहाणार्घं मया दत्तं देवदेव नमोस्तुते २९ अर्घमन्त्रः
एवं सम्पूज्य देवेशं लक्ष्म्या सह जनार्दनम्
प्रार्थयेद्देवदेवेशं व्रतसम्पूर्तिसिद्धये ॥ ३० ॥

उपोषितोऽहं देवेश कामक्रोधविवर्जितः
व्रतेनानेन देवेश त्वमेवशरणं मम ॥ ३१ ॥

मूलम्

उपोषितोऽहं देवेश कामक्रोधविवर्जितः
व्रतेनानेन देवेश त्वमेवशरणं मम ॥ ३१ ॥

विश्वास-प्रस्तुतिः

गृहीतेऽस्मिन्व्रते देव यदपूर्णं कृतं मया
सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥ ३२ ॥

नमः कमलपत्राक्ष नमस्ते जलशायिने
इदं व्रतं मयाचीर्णं प्रसादात्तव केशव ॥ ३३ ॥

अज्ञानतिमिरध्वंसिन्व्रतेनानेन केशव
प्रसादसुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥ ३४ ॥

ततो जागरणं रात्रौ गीतपुस्तकवाचनम्
नाद नृत्यकलाभिज्ञैः पुण्याख्यानैः सुभोभनैः ॥ ३५ ॥

विभातायां तु शर्वर्यामुदिते विमले रवौ
निमन्त्र्य ब्राह्मणान्भक्त्या श्राद्धं कुर्याच्च वैष्णवम् ॥ ३६ ॥

भोजयित्वा यथाकामं पायसेन घृतेन च
ताम्बूलपुष्पगन्धादि दक्षिणाभिः समन्वितम् ॥ ३७ ॥

उपवीतानि वासांसि दत्वा मालां च चन्दनम्
दाम्पत्यत्रितयं भोज्यं वस्त्रभूषण कुङ्कुमैः ॥ ३८ ॥

वंशपात्राणि शक्त्या च विरूढैः परिपूरयेत्
नालिकेरैश्च पक्वान्नैर्वस्त्रैश्च विविधैः फलैः ॥ ३९ ॥

सपत्नीकं गुरुं तत्र वस्त्राणि परिधापयेत्
विभूषणानि दिव्यानि गन्धमाल्यैः प्रपूजयेत् ॥ ४० ॥

सर्वोपस्करसंयुक्तां गां दद्याच्च पयस्विनीम्
सदक्षिणां सवस्त्रां च तन्मे निगदतः शृणु ॥ ४१ ॥

सर्वतीर्थेषु यत्पुण्यं स्नातानां जायते नृणाम्
तत्फलं स लभेत्सर्वं देवदेवप्रसादतः ॥ ४२ ॥

भुक्त्वा च विपुलान्भोगान्सर्वकामान्मनोरमान्
वैष्णवं पदमाप्नोति अन्ते विष्णोः प्रसादतः ॥ ४३ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे तुलसीत्रिरात्रव्रतवर्णनन्नाम पञ्चविंशोऽध्यायः २५