महादेवउवाच-
विश्वास-प्रस्तुतिः
प्रयागतीर्थमाहात्म्यं प्रवक्ष्यामि यथा श्रुतम्
महादानपराः पुण्यकर्माणो यत्र सन्ति हि ॥ १ ॥
मूलम्

यत्र गङ्गा च यमुना यत्र चैव सरस्वती
तं देवतीर्थप्रवरं देवानामपि दुर्लभम् ॥ २ ॥

ईदृशं त्रिषु लोकेषु भूतं न च भविष्यति
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ॥ ३ ॥

तीर्थानामुत्तमं तीर्थं प्रयागाख्यमनुत्तमम्
प्रातःकाले तु भो विद्वन्प्रयागे स्नानमाचरेत् ॥ ४ ॥

महापापाद्विनिर्मुक्तः स याति परमं पदम्
देयं किञ्चिद्यथाशक्ति दारिद्र्याभावमिच्छता ॥ ५ ॥

यो नरस्तत्र गत्वा वै प्रयागे स्नानमाचरेत्
धनिको दीर्घजीवी च जायते नात्र संशयः ॥ ६ ॥

यत्र वटस्याक्षयस्य दर्शनं कुरुते नरः
तेन दर्शनमात्रेण ब्रह्महत्या विनश्यति ॥ ७ ॥

स चाक्षयवटः ख्यातः कल्पान्तेपि च दृश्यते
शेते विष्णुर्यस्य पत्रे अतोयमव्ययः स्मृतः ॥ ८ ॥

तत्र पूजां प्रकुर्वन्ति मानवा विष्णुवल्लभाः
सूत्रेणाच्छादितं कृत्वा पूजां चैव तु कारयेत् ॥ ९ ॥

माधवाख्यस्तत्र देवः सुखं तिष्ठति नित्यशः
तस्य वै दर्शनं कार्यं महापापैः प्रमुच्यते ॥ १० ॥

यत्र देवाश्च ऋषयो मनुष्याश्चापि सर्वशः
स्वस्वस्थानं समाश्रित्य तत्र तिष्ठन्ति नित्यशः ॥ ११ ॥

गोघ्नो वापि च चाण्डालो दुष्टो वा दुष्टचेतनः
बालघाती तथाऽविद्वान्म्रियते तत्र वै तदा ॥ १२ ॥

स वै चतुर्भुजो भूत्वा वैकुण्ठे वसते चिरम्
प्रयागे तु नरो यस्तु माघस्नानं करोति च ॥ १३ ॥

न तस्य फलसङ्ख्यास्ति शृणु देवर्षिसत्तम
आपो नारा इति प्रोक्ता सर्वलोकेषु शुश्रुम ॥ १४ ॥

तेन नारायणः प्रोक्तः स्नातानां भुक्तिमुक्तिदः
ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ॥ १५ ॥

मासानां हि तथा माघः श्रेष्ठः सर्वेषु कर्मसु
मकरस्थे रवौ माघे प्रातःकाले तथामले ॥ १६ ॥

गोःपदेऽपि जले स्नानं स्वर्गदं पापिनामपि
योगोऽयं दुर्लभो विद्वन्त्रैलोक्ये सचराचरे ॥ १७ ॥

अस्मिन्यो यत्नमापन्नः स्नायादपि दिनत्रयम्
पञ्च वा सप्त वाप्यत्र स्नानं कुर्वन्प्रयागजम् ॥ १८ ॥

चन्द्रवद्वर्द्धते सोऽपि कुले वाडवसत्तम
चराचराश्च ये जीवास्तथैव मनुजादयः ॥ १९ ॥
मूलम्
चन्द्रवद्वर्द्धते सोऽपि कुले वाडवसत्तम
चराचराश्च ये जीवास्तथैव मनुजादयः ॥ १९ ॥
विश्वास-प्रस्तुतिः
प्रयागं तीर्थमाश्रित्य वैकुण्ठं यान्ति तेऽचिरात्
ये वसिष्ठादयस्तत्र ऋषयः सनकादयः ॥ २० ॥

तेऽपि प्रयागजं तीर्थं सेवन्ते च पुनःपुनः
यत्र विष्णुश्च रुद्रश्च यत्रेन्द्रश्च तथा पुनः ॥ २१ ॥

तेऽपि सर्वे वसन्तीह प्रयागे तीर्थसत्तमे
दानं तत्र प्रशंसन्ति नियमांश्च तथैव च ॥ २२ ॥

तत्र स्नात्वा च पीत्वा च पुनर्जन्म न विद्यते ॥ २३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे प्रयागमाहात्म्ये चतुर्विंशोऽध्यायः २४