महादेवउवाच-
विश्वास-प्रस्तुतिः
शृणु नारद वक्ष्यामि माहात्म्यं तुलसीभवम्
यच्छ्रुत्वा मुच्यते पापादाजन्ममरणान्तिकात् ॥ १ ॥
मूलम्

पत्रं पुष्पं फलं मूलं शाखा त्वक्स्कन्धसञ्ज्ञितम्
तुलसी सम्भवं सर्वं पावनं मृत्तिकादिकम् ॥ २ ॥

शरीरं दह्यते येषां तुलसीकाष्ठवह्निना
दत्वा च तुलसीकाष्ठं सर्वाङ्गेषु मृतस्य वै ॥ ३ ॥

पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते
मरणे यस्य सम्प्राप्तं कीर्तनं स्मरणं हरेः ॥ ४ ॥

तुलसीदारुणा दाहो न तस्य पुनरावृतिः
यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि ॥ ५ ॥

दाहकाले भवेन्मुक्तिः कोटिपापायुतस्य च
गङ्गाम्भसाभिषेकेण यान्ति पुण्यानि पुण्यताम् ॥ ६ ॥

तुलसीकाष्ठमिश्राणि यान्ति दारूणि पुण्यताम्
तुलसीकाष्ठसम्मिश्रा यावत्प्रज्वलते चिता ॥ ७ ॥

दह्यन्ति तस्य पापानि कल्पकोटिकृतानि वै
दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना ॥ ८ ॥

नयन्ति तं विष्णुदूता न च वै यमकिङ्कराः
जन्मकोटिसहस्रैस्तु मुक्तो याति जनार्दनम् ॥ ९ ॥

दह्यन्ते ये नरा लोके तुलसीकाष्ठवह्निना
तान्विमानस्थितान्देवाः क्षिपन्ति कुसुमाञ्जलिम् ॥ १० ॥

नृत्यन्त्यप्सरसः सर्वा गीतं गायन्ति गायकाः
जायन्ते वीक्ष्य तं विष्णुः सन्तुष्टः शम्भुना सह ॥ ११ ॥

गृहीत्वा तं करे शौरिर्गृहं नीत्वास्य चाङ्गतः
मार्जयेत्सर्वपापानि पश्यतां त्रिदिवौकसाम् ॥ १२ ॥

महोत्सवं कारयित्वा जयशब्दपुरःसरम्
ज्वलते यत्र चाज्येन तुलसीकाष्ठपावकः ॥ १३ ॥

अग्न्यगारे श्मशाने वा दह्यते पातकं नृणाम्
होमं कुर्वन्ति ये विप्रास्तुलसीकाष्ठवह्निना
सिक्ते सिक्ते तिले वापि अग्निष्टोमफलं लभेत् ॥ १४ ॥

यो ददाति हरेर्धूपं तुलसीकाष्ठसम्भवम्
शतक्रतुसमं पुण्यं लभते गोशतं फलम् ॥ १५ ॥

नैवेद्यं पच्यते यस्तु तुलसीकाष्ठवह्निना
मेरुतुल्यं भवेद्दत्तं तदन्नं केशवस्य हि ॥ १६ ॥

तुलसीपावकेनाथ यो दीपं कुरुते हरेः
दीपलक्षसहस्राणां पुण्यं स लभते फलम् ॥ १७ ॥

न तेन सदृशो लोके वैष्णवो भुवि दृश्यते
यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचन्दनम् ॥ १८ ॥

स जायते कृपापात्रं विष्णोर्वाडवसत्तम ॥ १९ ॥

तुलसीदारुजातेन चन्दनेन कलौ हरिम्
विलिप्य भक्तितो नित्यं रमते हरिसन्निधौ ॥ २० ॥

तुलसीपङ्कलिप्ताङ्गः कुरुते विष्णुपूजनम्
पूजाशतदिनैकाह्ना लभ्यते गोशतं फलम् ॥ २१ ॥

विलेपार्थे तु कृष्णस्य तुलसीकाष्ठचन्दनम्
मन्दिरे तिष्ठते यावत्तावत्पुण्यफलं शृणु ॥ २२ ॥

तिलप्रस्थाष्टकं दत्वा यत्पुण्यं प्राप्नुयान्नरः
तत्फलं जायते पुंसां प्रसादाच्चक्रपाणिनः ॥ २३ ॥

यो ददाति पितॄणां तु पिण्डे तुलसिसम्भवम्
दलं सञ्जायते तृप्तिः पत्रे पत्रे शताब्दिका ॥ २४ ॥

तुलसीमूलमृत्स्नैव स्नानं कुर्याद्विशेषतः
तेन तीर्थे कृतं स्नानं यावच्चाङ्गे च मृत्तिका ॥ २५ ॥

तदीय यातु मञ्जर्या पूजनं च करोति यः
नानापुष्पैः कृता पूजा यावच्चन्द्रदिवाकरौ ॥ २६ ॥

यस्मिन्गृहेऽवतिष्ठेत तुलसी वृक्षवाटिका
दर्शनात्स्पर्शनाच्चैव ब्रह्महत्यादिपातकम्
तत्सर्वं विलयं याति दर्शनेनैव नारद ॥ २७ ॥

महादेव उवाच-
अथान्यत्ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसः
न कस्यापि च कथितं शृणु देवर्षिसत्तम ॥ २८ ॥

यत्र यत्र गृहे ग्रामे वने वा तुलसी भवेत्
तत्र तत्र जगत्स्वामी प्रीतात्मा च वसेद्धरिः ॥ २९ ॥

गृहे तस्मिन्न दारिद्र्यं नायोगो बन्धुसम्भवः
न दुःखं न भयं रोगस्तुलसी यत्र तिष्ठति ॥ ३० ॥

सर्वत्र तुलसी पुण्या पुण्यक्षेत्रे विशेषतः
सन्निधौ तस्य देवस्य रोपणात्पृथिवीतले ॥ ३१ ॥

तेषां विष्णुपदं नित्यं तुलस्यारोपणे कृते
उत्पादान्दारुणान्रोगान्दुर्निमित्तान्यनेकशः
तुलस्याभ्यर्चिते भक्त्या हन्त शान्तिकरो हरिः ॥ ३२ ॥

तुलसीगन्धमाघ्राय यत्र गच्छति मारुतः
दिशो दश च ताः पूता भूतग्रामश्चतुर्विधः ॥ ३३ ॥

यस्मिन्गृहे मुनिश्रेष्ठ तुलसीमूलमृत्तिका
सर्वदा तत्र तिष्ठन्ति देवताश्च शिवो हरिः ॥ ३४ ॥

तुलसीवनजा छाया यत्र यत्र भवेद्दिवज
तर्पणं कुरुते तत्र पितॄणां दत्तमक्षयम् ॥ ३५ ॥

तस्य मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः
मञ्जर्यां वसते रुद्रः तुलसी तेन पावनी ॥ ३६ ॥

विना यस्तुलसीं कुर्यात्सन्ध्याकाले तु मार्जनम्
तत्सर्वं राक्षसहृतं नरकं च प्रयच्छति ॥ ३७ ॥

तुलसीपत्रगलितं तोयं यः शिरसावहेत्
गङ्गाफलमवाप्नोति शतधेनुफलं लभेत् ॥ ३८ ॥
मूलम्
तुलसीपत्रगलितं तोयं यः शिरसावहेत्
गङ्गाफलमवाप्नोति शतधेनुफलं लभेत् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
शिवालये विशेषेण रोपयेत्तुलसीं यदि
बीजसङ्ख्या वसेत्स्वर्गे प्रत्येकं युगसङ्ख्यया ॥ ३९ ॥

उमया तु पुरा देवि शङ्करार्थं हिमालये
रोपिताः शतवृक्षास्तु तुलस्याः प्रणतोऽस्म्यहम् ॥ ४० ॥

पर्वण्यवसरे यस्तु श्रावणे चाथ रोपयेत्
सङ्क्रान्तिदिवसे चैव तुलसी चातिपुण्यदा ॥ ४१ ॥

तुलसीं पूजयेन्नित्यं दरिद्र ईश्वरो भवेत्
सर्वसिद्धिकरामूर्तिः कृष्णः कीर्तिं ददाति च ॥ ४२ ॥

शालग्रामशिला यत्र तत्र सन्निहितो हरिः
तत्र स्नानं च दानं च वाराणस्यां शताधिकम् ॥ ४३ ॥

कुरुक्षेत्रं प्रयागं च नैमिषारण्यमेव च
तस्य कोटिगुणं पुण्यं शालग्रामशिलार्चनात् ॥ ४४ ॥

शालग्राममयी मुद्रा संस्थिता यत्र हि क्वचित्
वाराणस्यां च यत्पुण्यं सर्वं तत्रैव तद्भवेत् ॥ ४५ ॥

ब्रह्महत्यादिकं पापं यत्किञ्चित्कुरुते नरः
तत्सर्वं नाशयेदाशु शालग्रामशिलार्चनात् ॥ ४६ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशतसहस्रसंहितायां उत्तरखण्डे
उमापतिनारदसंवादे तुलसीशालग्राममाहात्म्यन्नाम त्रयोविंशोऽध्यायः २३