०२२

महादेव उवाच-

विश्वास-प्रस्तुतिः

गाङ्गं वक्ष्यामि माहात्म्यं यथोक्तं मुनिसत्तम
यस्य श्रवणमात्रेण अघं नश्यति तत्क्षणात् ॥ १ ॥

मूलम्

गङ्गागङ्गेति योब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ २ ॥

चरणाब्जसमुद्भूता गङ्गा नामेति विश्रुता
पापानां स्थूलराशीनां नाशिनी चेति नारद ॥ ३ ॥

नर्मदा सरयूश्चैव तथा वेत्रवती नदी
तापी पयोष्णी चन्द्रा च विपाशा कर्मनाशिनीम् ॥ ४ ॥

पुष्या पूर्णा तथा दीपा विदीपा सूर्यतेजसा
सहस्रवृषदानात्तु यत्फलं लभते ध्रुवम् ॥ ५ ॥

तत्फलं समवाप्नोति गङ्गादर्शनतः क्षणात्
इयं गङ्गा महापुण्या ब्रह्मघ्नानां विशेषतः ॥ ६ ॥

तेषां निरययुक्तानां गङ्गा पापप्रहारिणी
चन्द्र सूर्योपरागे च यत्फलं विद्यतेऽनघ ॥ ७ ॥

तत्फलं समवाप्नोति गङ्गादर्शनमात्रतः
यथा सूर्योदये तात तमो गच्छति दूरतः ॥ ८ ॥

तथा गङ्गाप्रभावेन विलयं याति पातकम्
मान्येयं सर्वदा लोके पवित्रा पापनाशिनी ॥ ९ ॥

कल्याणरूपा सततं विष्णुना निर्मिता पुरा
दिव्यरूपा तु जननी दीनानां पावनी स्मृता ॥ १० ॥

देवानां च यथा विष्णुस्तथा गङ्गोत्तमा नदी
ये कुर्वन्ति नराः स्नानं माघमासे निरन्तरम् ॥ ११ ॥

न तेषां विद्यते दुःखं कल्पानां च शतत्रयम्
यत्र गङ्गा च यमुना यत्र चैव सरस्वती
तत्र स्नात्वा च पीत्वा च मुक्तिभागी न संशयः ॥ १२ ॥

त्वद्वार्तां प्रियतो ब्रवीमि यदहं सा स्तुस्तुतिस्ते प्रभो यद्भुञ्जे तव तन्निवेदनमथो यद्यामि सा प्रेष्यता
यच्छान्तः स्वपिमि त्वदङ्घ्रियुगले दण्डप्रणामोऽस्तु नः
स्वामिन्यच्च करोमि तेन स भवान्विश्वेश्वरः प्रीयताम् ॥ १३ ॥

दृष्टेन वन्दितेनापि स्पृष्टेन च धृतेन के ।
नरा येन विमुच्यन्ते तदेतद् यामुनं जलम्॥ १४॥

तावद् भ्रमन्ति भुवने मनुजा भवोत्थ दारिद्य्र रोग मरण व्यसनाभिभूताः ।
यावज्जलं तव महानदि नीलनीलं पश्यन्ति नो दधति मूर्धसु सूर्यपुत्रि ॥१५॥

यत्संस्मृतिः सपदि कृन्तति दुष्कृतौघं पापावलीं जयति योजन लक्षतोऽपि ।
यन्नाम नाम जगदुच्चरितं पुनाति दिष्ट्या हि सा पथिदृशो भविताद्य गङ्गा ॥१६॥

आलोकोत्कण्ठितेन प्रमुदित मनसा वर्त्म यस्याः प्रयातं सद्यस्मिन्कृत्यमेतामथ प्रथम कृती जज्ञिवान्स्वर्गसिन्धुम् ।
स्नानं सन्ध्या निवापः सुर यजनमपि श्राद्ध विप्राशनाद्यं सर्वं सम्पूर्णमेतत्भवति भगवतः प्रीतिदं नातिचित्रम् ॥१७॥

देवीभूत परं ब्रह्म परमानन्ददायिनी ।
अर्घं गृहाण मे गङ्गे पापं हर नमोस्तुते ॥१८॥

साक्षाद्धर्म द्रवौघं मुररिपु चरणाम्भोज पीयूषसारं।
दुःखस्याब्धेस्तरित्रं सुरमनुजनुतं स्वर्गसोपान मार्गम्।
सर्वांहोहारि वारि प्रवर गुणगणम्भासि या संवहन्ती।
तस्यै भागीरथि श्रीमति मुदितमना देवि कुर्वे नमस्ते ॥१९॥

स्वःसिन्धो दुरिताब्धिमग्न जनता सन्तारणि प्रोल्लसत्कल्लोला।
मलकान्तिनाशिततमस्तोमे जगत्पावनि ।
गङ्गे देवि पुनीहि दुष्कृतभयक्रान्तं कृपाभाजनं मातर्मां शरणागतं शरणदे रक्षाथभोभीषितम् ॥२०॥

हं हो मानस कम्पसे किमु सखे त्रस्तोभयान्नारकात्किं ते
भीतिरिति श्रुतिर्दुरितकृत्सञ्जायते नारकी ।
माभैषीः शृणु मे गतिं यदि मया पापाचल
स्पर्द्धिनी प्राप्ता ते निरयं कथः किमपरं किं मे न धर्मं धनम् ॥२१॥

सर्वेशादि प्रशंसा मुदमनुभवनं मज्जनं यत्र चोक्तं स्वर्नार्योवीक्ष्यहृष्टा
विबुध सुरपतिः प्राप्तिसम्भावनेन ।
नीरे श्रीजह्नु कन्येयम् अनियमरताः स्नान्ति ये तावकीने।
देवत्वं ते लभन्ते स्फुटम् अशुभकृतोप्यत्र वेदाः प्रमाणम् ॥२२॥

बुद्धे सद्बुद्धिरेवं भवतु तव सखे मानस स्वस्तिते ऽस्तु।
आस्तां पादौ पदस्थौ सततमिह युवां साधु दृष्टी च दृष्टी ।
वाणि प्राणप्रियेधि प्रकट गुण वपुः प्राप्नुहि प्राणि पुष्टिं यस्मात्सर्वैर्भवद्भिः।
सुखमतुलमहं प्राप्नुवं तीर्थपुण्यम् ॥२३॥

श्रीजाह्नवी रविसुता परमेष्ठिपुत्री सिन्धुत्रयाभरणतीर्थवर प्रयाग।
सर्वेश मामनुगृहाण नयस्व चोर्ध्वमन्तस्तमो दशविधं दलय स्वधाम्ना ॥२४॥

वागीश विष्ण्वीश पुरन्दराद्याः पापप्रणाशाय विदांविदोऽपि।
भजन्ति यत्तीरमनीलनीलं सतीर्थराजो जयति प्रयागः ॥२५॥

कलिन्दजा सङ्गम वाप्ययत्र प्रत्यग्गता स्वर्गधुनीधुनोति।
अध्यात्म तापत्रितयं जनस्य स तीर्थराजो जयति प्रयागः ॥२६॥

श्यामो वटः श्यामगुणोवृणोति स्वच्छायया श्यामल याजनानाम्।
श्यामश्रमं कृन्तति यत्रदृष्टः स तीर्थराजो जयति प्रयागः ॥२७॥

ब्रह्मादयोप्यात्मकृतिं विहाय भजन्ति पुण्यात्मक भागधेयम् ।
यत्रोज्झितादण्डधरः स्वदण्डं स तीर्थराजो जयति प्रयागः ॥२८॥

यत्सेवया देव नृदेवतादि देवर्षयः प्रत्यहमामनन्ति।
स्वर्गं च सर्वोत्तम भूमिराज्यं स तीर्थराजो जयति प्रयागः ॥२९॥

एनांसि हन्तीति प्रसिद्धवार्ता नाम प्रतापेन दृशो भवन्ति।
यस्य त्रिलोकीं प्रतताप गोभिः स तीर्थराजो जयति प्रयागः ॥३०॥

धत्ते ऽभितश्चामर चारुकान्तिं सितासिते यत्रसरिद्वरेण्ये ।
आद्यो वटश्छत्रमिवातिभाति स तीर्थराजो जयति प्रयागः ॥३१॥

ब्राह्मीनपुत्री त्रिपथास्त्रिवेणी समागमे साक्षतयागमात्रात् ।
यत्राप्नुतान्ब्रह्मपदं नयन्ति स तीर्थराजो जयति प्रयागः॥ ३२॥

केषाञ्चिज्जन्मकोटिर्व्रजति सुवचसां यामियामीति यस्मिन्केषां।
चित्प्रेप्सतां यं नियतमतियतेद् वर्षवृन्दं वरिष्ठम्।
यत्प्राप्तं भाग्यलक्षैर्भवति भवति नो वास वाचामवाच्यो।
दिष्ट्या वेणी विशिष्टो भवति दृगतिथिः कं प्रयाग प्रयागः ॥३३॥

लोकानामक्षमाणां मखकृतिषु कलौ स्वर्गकामैर्जय स्तुत्यादि स्तोत्रैर्वचोभिः।
कथममरपद प्राप्ति चिन्तातुराणाम् ।
अग्निष्टोमाश्वमेध प्रमुख मखफलं सम्यगालोच्यसाङ्गं।
ब्रह्माद्यैस्तीर्थराजो ऽभिमतद उपदिष्टो ऽयमेव प्रयागः ॥३४॥

मया प्रमादातुरतादि दोषतः सन्ध्या विधिर्नो समुपासितोऽभूत्।
चेदत्र सन्ध्यां चरते प्रसादतः सन्ध्यास्तु पूर्णा ऽखिलजन्मनोऽपि मे ॥३५॥

अन्यत्रापि प्रगर्जन्महिमनि तपसि प्रेमभिर्विप्रकृष्टैर्ध्यातः।
सङ्कीर्तितो योऽभिमत पद विधातानिशं निर्व्यपेक्षम्म् ।
श्रीमत्पांशुं त्रिवेणीपरिवृढम् अतुलं तीर्थराजं प्रयागं गोलङ्कारप्रकाशं स्वयममरवरं चेतनं तं नमामि ॥३६॥

अस्माभिः सुतपोन्वतप्त किमहो एज्यन्त किंवाध्वराः
पात्रे दानमदायि किं बहुविधं किं वा सुराश्चार्चिताः
किं सत्तीर्थमसेवि किं द्विजकुलं पूजादिभिः सत्कृतं येन प्रापि सदा
शिवस्य शिवदा सा राजधानी स्वयम् ॥ ३७ ॥

भाग्यैर्मेऽधिगता ह्यनेकजनुषां सर्वाघविध्वंसिनी
सर्वाश्चर्यमयी शिवपुरी संसारसिन्धोस्तरी
लब्धं सज्जनुषः फलं कुलमलं चक्रे पवित्रीकृतः
स्वात्मा चाप्यखिलं कृतं किमपरं सर्वोपरिष्टात्स्थितम् ॥ ३८ ॥

जीवन्नरः पश्यति भद्र लक्षमेवं वदन्तीति मृषा न यस्मात्
तस्मान्मया वै वपुषे दृशे न प्राप्तापि काशी क्षणभङ्गुरेण ॥ ३९ ॥

काश्यां विधातुममरैरपि दिव्यभूमौ सत्तीर्थ लिङ्गगणनार्चनता न शक्या
यानीह गुप्त विवृतानि पुरातनानि सिद्धानि योजितकरः प्रणमामि तेभ्यः ॥ ४० ॥

किं भीत्या दुरितव्रजात्किमु मुदा पुण्यैरगण्यैः कृतैः
किं विद्याभ्यसनान्मदेन जडतादोषाद्विषादेन किम्
किं गर्वेण धनोदयादधनतातापेन किं भोजनाः
स्नात्वा श्रीमणिकर्णिकापयसि चेद्विश्वेश्वरो दृश्यते ॥ ४१ ॥

अल्पस्फीति निरामयापि तनुता प्रव्यक्तशक्यात्मता प्रोत्साहाढ्य बलेन
केवलमनोरागद्वितीयेन यत्
अप्राप्यापि मनोरथैरविषयास्वप्नप्रवृत्तेरपि प्राप्ता सा
पि गदाधरस्य नगरी सद्योपवर्गप्रदा ॥ ४२ ॥

मन्येनात्मकृतिर्नपूर्वपुरुषप्राप्तेर्बलं चात्र यन्नापीदं स्वजन
प्रमाणमचलं किंस्वापतापादिकम्
यादुष्प्राप गयाप्रयागयमुना काशीसुपर्वागमात्प्राप्तिस्तत्र
महाफलो विजयते श्रीशारदानुग्रहः ॥ ४३ ॥

यः श्राद्धसमये दूरात्स्मृतोऽपि पितृमुक्तिदः
तं गयायां स्थितं साक्षान्नमामि श्रीगदाधरम् ॥ ४४ ॥

पन्थानं समतीत्य दुस्तरमिमं दूरादवीयस्तरङ्क्षुद्र व्याघ्रतरक्षुकण्टकफणिप्रत्यार्थिभिः
सङ्कुलम्
आगत्य प्रथमव्ययं कृपणवाग्याचेज्जनः
कर्परीश्रीमद्वारिगदाधर प्रतिदिनं त्वां द्रष्टुमुत्कण्ठते ॥ ४५ ॥

सर्वात्मन्निजदर्शनेन च गयाश्राद्धेन वै देवताः
प्रीणन्विश्वमनीहवत्कथमिहौदासीन्यमालम्बसे
किं ते सर्वदनिर्दयत्वमधुना किं वा प्रभुत्वं कलेः किं वा सत्व
निरीक्षणं नृषु चिरं किं वास्य सेवारुचिः ॥ ४६ ॥

गदाधर मया श्राद्धं सञ्चीर्णं त्वत्प्रसादतः
अनुजानीहि मां देव गमनाय गृहं प्रति ॥ ४७ ॥

चतुर्णां देवतानां च स्तोत्रं स्वर्गार्थदायकम्
श्राद्धकाले पठेन्नित्यं स्नानकाले तु यः पठेत् ॥ ४८ ॥

सर्वतीर्थसमं स्नानं श्रवणात्पठनाज्जपात्
प्रयागस्य च गङ्गाया यमुनायाः स्तुतेर्द्विज
श्रवणेन विनश्यन्ति दोषाश्चैव तु कर्मजाः ॥ ४९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशतसहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे गङ्गाप्रयागयमुनास्तुतिर्नामद्वाविंशोऽध्यायः २२