नारद उवाच-
विश्वास-प्रस्तुतिः
सगरस्यात्मजा वीराः कथं जाता महाबलाः
विक्रान्ताः षष्टिसाहस्रा विज्ञानेश्वर तद्वद ॥ १ ॥
मूलम्

श्रीपार्वतीपतिरुवाच-
द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे
और्वस्ताभ्यां वरं प्रादात्तोषितो मुनिसत्तमः ॥ २ ॥

षष्टिम्पुत्रसहस्राणि एका वव्रे तरस्विनाम्
एका वंशधरं त्वेकं यथेष्टं वरशालिनी ॥ ३ ॥

तत्रैका सुषुवे तुम्ब्यां पुत्रान्शूरान्बहूनथ
ते तु सर्वेऽपि धात्रीभिर्वर्द्धितास्तु यथाक्रमम् ॥ ४ ॥

कपिलानां तु दुग्धानां तेषां तत्र महात्मनाम् ॥ ५ ॥

तेनैव दुग्धयोगेन ववृधुस्ते महात्मनः
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥ ६ ॥

ततः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान्
दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः ॥ ७ ॥

यस्तु गङ्गासरिच्छ्रेष्ठामानयामास सुव्रतः
समुद्र मानयित्वैनां दुहितृत्वमकल्पयत् ॥ ८ ॥

नारदउवाच-
कथं गङ्गा समानीता किं तपस्तेन वै कृतम्
तत्सर्वं मे समाचक्ष्व सुव्रतोऽसि दयानिधे ॥ ९ ॥

महादेव उवाच-
पूर्वजानां हितार्थाय गतोऽसौ हैमके गिरौ
तत्र गत्वा तपस्तप्तं वर्षाणामयुतं तदा ॥ १० ॥

आदिदेवः प्रसन्नोऽभूद्योऽसौ देवो निरञ्जनः
तेन दत्ता इयं गङ्गा आकाशात्समुपस्थिता ॥ ११ ॥

तत्र विश्वेश्वरो देवो यत्र तिष्ठति नित्यशः
गङ्गां दृष्ट्वाऽगतां तेन गृहीता जाह्नवी तदा ॥ १२ ॥

जटाजूटे च सन्धार्य वर्षाणामयुतं स्थितम्
न निःसृता तदा गङ्गा ईशस्यैव प्रभावतः ॥ १३ ॥

विचारितं तदा तेन क्व गता मम मातृका
स ध्यानेन विचार्यैवं गृहीता चेश्वरेण तु ॥ १४ ॥

ततः कैलासमगमत्स तु भगीरथो नृपः
तत्र गत्वा मुनिश्रेष्ठ ह्यकरोदुल्बणं तपः ॥ १५ ॥

आराधितस्तदा तेन दत्तवानहमापगाम्
एकं केशं परित्यज्य दत्ता त्रिपथगा तदा ॥ १६ ॥

स गृहीत्वा गतो गङ्गां पाताले यत्र पूर्वजाः
अलकनन्दा तदा नाम गङ्गायाः प्रथमं स्मृतम् ॥ १७ ॥

हरिद्वारे यदायाता विष्णुपादोदकी तदा
तदेव तीर्थं प्रवरं देवानामपि दुर्ल्लभम् ॥ १८ ॥

तत्तीर्थे च नरः स्नात्वा हरिं दृष्ट्वा विशेषतः
प्रदक्षिणं ये कुर्वन्ति न चैते दुःखभागिनः ॥ १९ ॥

ब्रह्महत्यादि पापानां राशयः सन्त्यनेकशः
विलयं यान्ति ते सर्वे हरेर्दर्शनतः सदा ॥ २० ॥

एकदा केशवस्थाने हरिद्वारे ह्यहं गतः
तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान् ॥ २१ ॥

ये गच्छन्ति नरश्रेष्ठास्ते वै यान्ति ह्यनामयम्
चतुर्भुजास्तु ते लोकाः नरा नार्यश्च सर्वशः ॥ २२ ॥

वैकुण्ठं यान्ति ते सर्वे हरेर्दर्शनमात्रतः
ममाप्यधिक तीर्थं तु हरिद्वारं सुशोभनम् ॥ २३ ॥

तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकम्
कलौ धर्मकरं पुंसां मोक्षदं चार्थदं तथा ॥ २४ ॥

यत्र गङ्गा महारम्या नित्यं वहति निर्मला
एतत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम् ॥ २५ ॥

उक्तं च शृण्वतां पुंसां फलं भवति शाश्वतम्
अश्वमेधे कृते यागे गोसहस्रे तथैव च ॥ २६ ॥

तत्पुण्यं लभते विद्वान्हरेर्दर्शनमात्रतः
गोहन्ता ब्रह्महा चैव ये चान्ये पितृघातकाः ॥ २७ ॥

एवंविधानि पापानि बहून्यपि च वै द्विज
विलयं यान्ति सर्वाणि हरेर्दर्शनमात्रतः ॥ २८ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशतसहस्रसंहितायां उत्तरखण्डे उमापति नारद संवादेहरिद्वार माहात्म्ये गङ्गोत्पत्तिपूर्वकं हरिद्वारमाहात्म्यं नाम
एकविंशोऽध्यायः २१