श्रीमहादेवउवाच-
विश्वास-प्रस्तुतिः
हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम
यत्र गङ्गा वहत्येव तत्रोक्तं तीर्थमुत्तमम् ॥ १ ॥
मूलम्
हरिद्वारं महापुण्यं शृणु देवर्षिसत्तम
यत्र गङ्गा वहत्येव तत्रोक्तं तीर्थमुत्तमम् ॥ १ ॥
विश्वास-प्रस्तुतिः
यत्र देवा वसन्तीह ऋषयो मनवस्तथा
यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः ॥ २ ॥
मूलम्
यत्र देवा वसन्तीह ऋषयो मनवस्तथा
यत्र देवः स्वयं साक्षात्केशवो नित्यमाश्रितः ॥ २ ॥
विश्वास-प्रस्तुतिः
पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा
यस्य दर्शनमात्रेण दूरतो याति पातकम् ॥ ३ ॥
मूलम्
पुरा पूर्वं तु भो वत्स तीर्थं जातं महत्तदा
यस्य दर्शनमात्रेण दूरतो याति पातकम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
यत्र गङ्गा महारम्या जाता पुण्य विशेषतः
विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः ॥ ४ ॥
मूलम्
यत्र गङ्गा महारम्या जाता पुण्य विशेषतः
विष्णुपादोदकी जाता तच्चरणस्पर्शनात्ततः ॥ ४ ॥
विश्वास-प्रस्तुतिः
भगीरथेन भो विद्वन्नानीता तत्र मार्गतः
उद्धारः पूर्वजानां तु कृतस्तेन महात्मना ॥ ५ ॥
मूलम्
भगीरथेन भो विद्वन्नानीता तत्र मार्गतः
उद्धारः पूर्वजानां तु कृतस्तेन महात्मना ॥ ५ ॥
विश्वास-प्रस्तुतिः
नारदउवाच-
कोऽयं देव समाख्यातो भगीरथ महातपाः
येन तीर्थं समानीतं लोकानां हितकारणात् ॥ ६ ॥
मूलम्
नारदउवाच-
कोऽयं देव समाख्यातो भगीरथ महातपाः
येन तीर्थं समानीतं लोकानां हितकारणात् ॥ ६ ॥
विश्वास-प्रस्तुतिः
गङ्गातीर्थं महत्पुण्यं सर्वपापप्रणाशनम्
लोकाः सर्वे वदन्त्येवमेतत्तीर्थोत्तमोत्तमम् ॥ ७ ॥
मूलम्
गङ्गातीर्थं महत्पुण्यं सर्वपापप्रणाशनम्
लोकाः सर्वे वदन्त्येवमेतत्तीर्थोत्तमोत्तमम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
गङ्गागङ्गेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ८ ॥
मूलम्
गङ्गागङ्गेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ८ ॥
विश्वास-प्रस्तुतिः
कथं तेन समानीता किं कार्यं वद सुव्रत
महादेव उवाच-
येन गङ्गा यथानीता गङ्गाद्वारेऽतिशोभने ॥ ९ ॥
मूलम्
कथं तेन समानीता किं कार्यं वद सुव्रत
महादेव उवाच-
येन गङ्गा यथानीता गङ्गाद्वारेऽतिशोभने ॥ ९ ॥
विश्वास-प्रस्तुतिः
तत्सर्वं सम्प्रवक्ष्यामि क्रमानुक्रमयोगतः
पूर्वमासीद्धरिश्चन्द्रस्त्रैलोक्ये सत्यपालकः ॥ १० ॥
मूलम्
तत्सर्वं सम्प्रवक्ष्यामि क्रमानुक्रमयोगतः
पूर्वमासीद्धरिश्चन्द्रस्त्रैलोक्ये सत्यपालकः ॥ १० ॥
विश्वास-प्रस्तुतिः
रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः
तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः ॥ ११ ॥
मूलम्
रोहितस्तस्यपुत्रोऽभूदेको विष्णुपरायणः
तस्यापि च वृकः पुत्रो धर्मिष्ठः सत्पथिस्थितः ॥ ११ ॥
विश्वास-प्रस्तुतिः
तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा
तस्य पुत्रो गरो नाम नात्यन्तं धार्मिकोऽभवत् ॥ १२ ॥
मूलम्
तस्य पुत्रः सुबाहुश्च जातोस्मिन्वै कुले तदा
तस्य पुत्रो गरो नाम नात्यन्तं धार्मिकोऽभवत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात्
राजा तु तत्र देशेन तर्जितो धर्मकारणात् ॥ १३ ॥
मूलम्
कदाचित्कालयोगेन दुःखी जातोऽत्र कारणात्
राजा तु तत्र देशेन तर्जितो धर्मकारणात् ॥ १३ ॥
विश्वास-प्रस्तुतिः
स्वकुटुम्बं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे
रक्षितो भार्गवेणाथ कृपया तत्र वै तदा ॥ १४ ॥
मूलम्
स्वकुटुम्बं गृहीत्वा तु गतोऽसौ भार्गवाश्रमे
रक्षितो भार्गवेणाथ कृपया तत्र वै तदा ॥ १४ ॥
विश्वास-प्रस्तुतिः
तत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज
ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः ॥ १५ ॥
मूलम्
तत्र पुत्रो ह्यभूत्तस्य सगरो नाम वै द्विज
ववृधे चाश्रमे पुण्ये भार्गवेणाभिरक्षितः ॥ १५ ॥
विश्वास-प्रस्तुतिः
उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम्
शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च ॥ १६ ॥
मूलम्
उपवीतादिकं सर्वं क्षत्रियस्य तदा कृतम्
शस्त्राणां च तथाभ्यासो वेदानां तु तथैव च ॥ १६ ॥
विश्वास-प्रस्तुतिः
आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः
जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ॥ १७ ॥
मूलम्
आग्नेयास्त्रं ततो लब्ध्वा भार्गवात्सगरो नृपः
जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ॥ १७ ॥
विश्वास-प्रस्तुतिः
सशकान् पारदांश्चैव जघान स महातपाः
नारद उवाच-
माहात्म्यं सगरस्याथ वद शङ्कर विस्तरात् ॥ १८ ॥
मूलम्
सशकान् पारदांश्चैव जघान स महातपाः
नारद उवाच-
माहात्म्यं सगरस्याथ वद शङ्कर विस्तरात् ॥ १८ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच-
सूर्यवंशी महाराजो विख्यातः स महाबली
गरस्य व्यसने तात हृतं राज्यमभूत्किल ॥ १९ ॥
मूलम्
महादेव उवाच-
सूर्यवंशी महाराजो विख्यातः स महाबली
गरस्य व्यसने तात हृतं राज्यमभूत्किल ॥ १९ ॥
विश्वास-प्रस्तुतिः
हैहयैस्तालजङ्घाद्यैः शकैः सार्द्धं च नारद
यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा ॥ २० ॥
मूलम्
हैहयैस्तालजङ्घाद्यैः शकैः सार्द्धं च नारद
यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा ॥ २० ॥
विश्वास-प्रस्तुतिः
एते पञ्चगणा ब्रह्मन्हैहयार्थे पराक्रमान्
हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ ॥ २१ ॥
मूलम्
एते पञ्चगणा ब्रह्मन्हैहयार्थे पराक्रमान्
हृतराज्यस्ततो राजा सगरोऽथ वनं ययौ ॥ २१ ॥
विश्वास-प्रस्तुतिः
पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत्
तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता ॥ २२ ॥
मूलम्
पत्न्याचानुगतो दुःखी स वै प्राणानवासृजत्
तस्य पत्नी तु कल्याणी सगर्भा च व्रतान्विता ॥ २२ ॥
विश्वास-प्रस्तुतिः
सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया
सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह ॥ २३ ॥
मूलम्
सपत्न्या भार्गवस्तस्य वृतः पूर्वं सुतेप्सया
सा तु भर्तृचितां कृत्वा वने तं प्ररुरोद ह ॥ २३ ॥
विश्वास-प्रस्तुतिः
और्वस्तां वारयित्वा च गरपत्नीं तु नारद
न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम् ॥ २४ ॥
मूलम्
और्वस्तां वारयित्वा च गरपत्नीं तु नारद
न्यवेदयत तत्पुत्रं धर्मिष्ठं सात्विकं प्रियम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
निवेदिते ततो बाले मरणात्सा न्यवर्त्तत
ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे ॥ २५ ॥
मूलम्
निवेदिते ततो बाले मरणात्सा न्यवर्त्तत
ततो मासद्वये जाते ववर्द्धौर्वस्य चाश्रमे ॥ २५ ॥
विश्वास-प्रस्तुतिः
जातकर्मादियोगश्च और्वेण च तथा कृतः
उपवीतादिकं सर्वं जातं तत्र महामुनेः ॥ २६ ॥
मूलम्
जातकर्मादियोगश्च और्वेण च तथा कृतः
उपवीतादिकं सर्वं जातं तत्र महामुनेः ॥ २६ ॥
विश्वास-प्रस्तुतिः
तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ २७ ॥
मूलम्
तत्र वेदादिकं सर्वं पठितं चौर्वयोगतः
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
आग्नेयं तं महाभाग अमरैरपि दुःसहम्
स तेनासुबलेनाजौ बलेन च समन्वितः ॥ २८ ॥
मूलम्
आग्नेयं तं महाभाग अमरैरपि दुःसहम्
स तेनासुबलेनाजौ बलेन च समन्वितः ॥ २८ ॥
विश्वास-प्रस्तुतिः
हैहयान्वै जघानाशु सङ्क्रुद्धः स्वबलेन च
आजहार च लोकेषु स च कीर्तिमवाप सः ॥ २९ ॥
मूलम्
हैहयान्वै जघानाशु सङ्क्रुद्धः स्वबलेन च
आजहार च लोकेषु स च कीर्तिमवाप सः ॥ २९ ॥
विश्वास-प्रस्तुतिः
ततः शकाः सयवनाः काम्बोजाः पल्लवास्तथा
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः ॥ ३० ॥
मूलम्
ततः शकाः सयवनाः काम्बोजाः पल्लवास्तथा
हन्यमानास्तदा ते तु वसिष्ठं शरणं ययुः ॥ ३० ॥
विश्वास-प्रस्तुतिः
वसिष्ठोऽपि च तान्कृत्वा समयेन महाद्युतिः
सगरं वारयामास तेषां दत्त्वाऽभयं नृपः ॥ ३१ ॥
मूलम्
वसिष्ठोऽपि च तान्कृत्वा समयेन महाद्युतिः
सगरं वारयामास तेषां दत्त्वाऽभयं नृपः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सगरः स्वां प्रतिज्ञान्तु गुरोर्वाक्यं निशम्य च
धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह ॥ ३२ ॥
मूलम्
सगरः स्वां प्रतिज्ञान्तु गुरोर्वाक्यं निशम्य च
धर्मैर्जघान तांश्चैषां विकृतत्वं चकार ह ॥ ३२ ॥
विश्वास-प्रस्तुतिः
अर्द्धंशकनांशिरसो मुण्डं कृत्वा विसर्जयत्
यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ३३ ॥
मूलम्
अर्द्धंशकनांशिरसो मुण्डं कृत्वा विसर्जयत्
यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥ ३३ ॥
विश्वास-प्रस्तुतिः
पारदा मुण्डकेशाश्च पल्ल्वाः श्मश्रुरक्षकाः
एवं विजित्य सर्वान्वै कृतवान्धर्मसङ्ग्रहम् ॥ ३४ ॥
मूलम्
पारदा मुण्डकेशाश्च पल्ल्वाः श्मश्रुरक्षकाः
एवं विजित्य सर्वान्वै कृतवान्धर्मसङ्ग्रहम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
सर्वधर्मजयी राजा विजित्येमां वसुन्धराम्
आशु संस्कारयामास वाजिमेधाय पार्थिवः ॥ ३५ ॥
मूलम्
सर्वधर्मजयी राजा विजित्येमां वसुन्धराम्
आशु संस्कारयामास वाजिमेधाय पार्थिवः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तस्य चारयतःसोऽश्वः समुद्रे पूर्वदक्षिणे
वेला समीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ ३६ ॥
मूलम्
तस्य चारयतःसोऽश्वः समुद्रे पूर्वदक्षिणे
वेला समीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
स तं देशं तदा पुत्रैः खानयामास सर्वतः
नाश्वं प्रापुस्तदातेवै खन्यमाने महार्णवे ॥ ३७ ॥
मूलम्
स तं देशं तदा पुत्रैः खानयामास सर्वतः
नाश्वं प्रापुस्तदातेवै खन्यमाने महार्णवे ॥ ३७ ॥
विश्वास-प्रस्तुतिः
तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः
तमादिपुरुषं देवं कपिलं जगतां प्रभुम् ॥ ३८ ॥
मूलम्
तत्रैकमादिपुरुषं ददृशुस्ते त्वरान्विताः
तमादिपुरुषं देवं कपिलं जगतां प्रभुम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
तस्य चक्षुः समुत्पन्न वह्निना प्रतिबुध्यतः
दग्धाः षष्टि सहस्राणि चत्वारस्तेऽवशेषिताः ॥ ३९ ॥
मूलम्
तस्य चक्षुः समुत्पन्न वह्निना प्रतिबुध्यतः
दग्धाः षष्टि सहस्राणि चत्वारस्तेऽवशेषिताः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
हृषीकेतुः सुकेतुश्च तथा धर्मरथोपरः
शूरः पञ्चजनश्चैव तस्य वंशकरा द्विज ॥ ४० ॥
मूलम्
हृषीकेतुः सुकेतुश्च तथा धर्मरथोपरः
शूरः पञ्चजनश्चैव तस्य वंशकरा द्विज ॥ ४० ॥
विश्वास-प्रस्तुतिः
प्रादाच्च तस्मै भगवान्हरिः पञ्चवरान्स्वयम्
वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः ॥ ४१ ॥
मूलम्
प्रादाच्च तस्मै भगवान्हरिः पञ्चवरान्स्वयम्
वंशं मोक्षं सुकीर्तिञ्च समुद्रं तनयं विभुः ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सागरत्वं च लेभेथ कर्मणा तेन तस्य वै
तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्
आजहाराश्वमेधानां शतं स च महायशाः ॥ ४२ ॥
मूलम्
सागरत्वं च लेभेथ कर्मणा तेन तस्य वै
तमाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान्
आजहाराश्वमेधानां शतं स च महायशाः ॥ ४२ ॥
इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां
उत्तरखण्डे विंशोऽध्यायः २०