युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
श्रीशैलः पर्वतो रम्यः कुत्र तिष्ठति नारद
किं तत्र वर्त्तते तीर्थं कस्य देवस्य पूजनम्
कस्यां दिशि समाख्यातो लोकेषु च वदाधुना ॥ १ ॥
मूलम्

नारद उवाच-
शृणु राजन्प्रवक्ष्यामि श्रीशैलं पर्वतोत्तमम्
यं श्रुत्वा मुच्यते लोको बालहत्यादि पातकात् ॥ २ ॥

तत्पर्वतवनं रम्यं मुनिभिश्चोपसेवितम्
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥ ३ ॥

हंसकोकिलनादैश्च मयूरध्वनिनादितम्
श्रीवृक्षैश्च कपित्थैश्च शिरीषै राजवृक्षकैः ॥ ४ ॥

पारिजातकपुष्पैश्च कदम्बोदुम्बरैस्तथा
नानापुष्पैः सुगन्धाढ्यैर्वासितं तद्वनं गिरौ ॥ ५ ॥

सर्वाभिरृषिपत्नीभिः सशिष्याभिः सुसेवितम्
केचिदभ्यासयुक्ताश्च केचिद्व्याख्यानतत्पराः ॥ ६ ॥

केचिदूर्ध्वभुजास्तत्र अङ्गुष्ठाग्रैः स्थिताः परे
शिवध्यानरताः केचित्केचिद्विष्णुपरायणाः ॥ ७ ॥

निराहाराश्च केप्यत्र केचित्पर्णाशने रताः
कन्दमूलफलाहाराः केचिन्मौनव्रताः स्थिताः ॥ ८ ॥

एकपादाः स्थिताः केचित्केचित्पद्मासने स्थिताः
केचिच्चैव निराहारास्तपस्तेपुः सुदुष्करम् ॥ ९ ॥

आश्रमाणि च पुण्यानि नद्यश्च विविधाः शुभाः
देवखातान्यनेकानि तडागानि बहूनि च ॥ १० ॥

पर्वतोऽयं महाराज दृश्यते किल सर्वतः
मल्लिकार्जुनको राजन्यत्र तिष्ठति नित्यशः ॥ ११ ॥

तच्चैव शिखरं रम्यं पर्वतोपरि सेवितम्
शृङ्गदर्शनमात्रेण मुक्तिरेव न संशयः ॥ १२ ॥

दक्षिणां दिशमाश्रित्य वर्त्तते पर्वतोत्तमः
अत्र गङ्गा महद्रम्या पातालेति समाश्रिता ॥ १३ ॥

तत्र च स्नानमात्रेण महापापैः प्रमुच्यते
श्रीशैलशिखरं दृष्ट्वा वाराणस्यां मृतौ ध्रुवम् ॥ १४ ॥

केदारे ह्युदकं पीत्वा पुनर्जन्म न विद्यते
तापसानां महत्स्थानं योगिनां च तथैव च ॥ १५ ॥

तस्मात्सर्वप्रयत्नेन दर्शनं तस्य कारयेत्
अयं विज्ञानदेवोऽसौ महापातकनाशनः ॥ १६ ॥

सिद्धपुरं च नगरं रम्यं स्वर्गसुखावहम्
नित्यमप्सरसो यत्र गायन्ति च रमन्ति च ॥ १७ ॥

अतः पर्वताराजोऽयं दर्शने सौख्यकारकः
तस्य तैर्दर्शनं कार्यं मुक्तिमिच्छन्ति ये नराः ॥ १८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशतसहस्रसंहितायां उत्तरखण्डे श्रीशैलोपाख्याने एकोनविंशोऽध्यायः१९