०१८

श्रीनारद उवाच-

विश्वास-प्रस्तुतिः

अथ जालन्धरः प्राह रक्षात्मानमितः शिवम्
शिवाद्य त्वां क्षिपाम्याशु यत्रास्ते मधुसूदनः ॥ १ ॥

मूलम्

अथ जालन्धरः प्राह रक्षात्मानमितः शिवम्
शिवाद्य त्वां क्षिपाम्याशु यत्रास्ते मधुसूदनः ॥ १ ॥

विश्वास-प्रस्तुतिः

पश्चाद्ब्रह्माणमाकृष्य पातयिष्यामि सागरे
धृतेषु युष्मासु यदा तदा सर्वेश्वरो ह्यहम् ॥ २ ॥

मूलम्

पश्चाद्ब्रह्माणमाकृष्य पातयिष्यामि सागरे
धृतेषु युष्मासु यदा तदा सर्वेश्वरो ह्यहम् ॥ २ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा सैन्यसम्भारं न्यस्य शुम्भासुरादिषु
भटैर्गुप्तं निशुम्भाद्यैश्चतुरङ्गमनन्तकम् ॥ ३ ॥

मूलम्

इत्युक्त्वा सैन्यसम्भारं न्यस्य शुम्भासुरादिषु
भटैर्गुप्तं निशुम्भाद्यैश्चतुरङ्गमनन्तकम् ॥ ३ ॥

विश्वास-प्रस्तुतिः

शुम्भो निशुम्भः फेङ्कारो फेरुण्डो धूम्रलोचनः
केतुर्बिडालजङ्घश्च राहुर्दुर्वारणो यमः ॥ ४ ॥

मूलम्

शुम्भो निशुम्भः फेङ्कारो फेरुण्डो धूम्रलोचनः
केतुर्बिडालजङ्घश्च राहुर्दुर्वारणो यमः ॥ ४ ॥

विश्वास-प्रस्तुतिः

कालासुरोऽथ लवणो भूमिरेतोन्धकासुरः
रक्तवीर्यादयश्चण्डी चामुण्डी दैत्यपुङ्गवाः ॥ ५ ॥

मूलम्

कालासुरोऽथ लवणो भूमिरेतोन्धकासुरः
रक्तवीर्यादयश्चण्डी चामुण्डी दैत्यपुङ्गवाः ॥ ५ ॥

विश्वास-प्रस्तुतिः

सर्वानेवोद्यतान्दृष्ट्वा सङ्ख्ये दानवपुङ्गवान्
रुरुधुः समरे राजन्वीरभद्रादयो गणाः ॥ ६ ॥

मूलम्

सर्वानेवोद्यतान्दृष्ट्वा सङ्ख्ये दानवपुङ्गवान्
रुरुधुः समरे राजन्वीरभद्रादयो गणाः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततो युद्धमभूद्धोरं तुमुलं लोमहर्षणम्
पतन्ति प्रथमा यत्र दैत्याश्चापि क्षतातुराः ॥ ७ ॥

मूलम्

ततो युद्धमभूद्धोरं तुमुलं लोमहर्षणम्
पतन्ति प्रथमा यत्र दैत्याश्चापि क्षतातुराः ॥ ७ ॥

विश्वास-प्रस्तुतिः

अथ शुम्भादिभिर्दैत्यैः सर्वशस्त्रैर्महामृधे
हताः पेतुर्गणाश्चान्ये पलायाञ्चक्रिरे नृप ॥ ८ ॥

मूलम्

अथ शुम्भादिभिर्दैत्यैः सर्वशस्त्रैर्महामृधे
हताः पेतुर्गणाश्चान्ये पलायाञ्चक्रिरे नृप ॥ ८ ॥

विश्वास-प्रस्तुतिः

गणान्विजित्य समरे रुरुधुर्दानवाः शिवम्
वर्षन्तः शरधाराभिर्घना मेरुगिरिं यथा ॥ ९ ॥

मूलम्

गणान्विजित्य समरे रुरुधुर्दानवाः शिवम्
वर्षन्तः शरधाराभिर्घना मेरुगिरिं यथा ॥ ९ ॥

विश्वास-प्रस्तुतिः

ततः पिनाकमाकृष्य वृषभोपरि भैरवः
जघान बाणनिवहैर्दानवान्समराङ्गणे
तीक्ष्णाग्रैस्तु क्षुरप्रौघैर्दानवानहनद्बली ॥ १० ॥

मूलम्

ततः पिनाकमाकृष्य वृषभोपरि भैरवः
जघान बाणनिवहैर्दानवान्समराङ्गणे
तीक्ष्णाग्रैस्तु क्षुरप्रौघैर्दानवानहनद्बली ॥ १० ॥

विश्वास-प्रस्तुतिः

केचिन्नन्दिप्रहारेण पेतुः सङ्ग्राममूर्धनि
बाणैश्च जर्जरान्कृत्वा शुम्भादीन्वृषभध्वजः ॥ ११ ॥

मूलम्

केचिन्नन्दिप्रहारेण पेतुः सङ्ग्राममूर्धनि
बाणैश्च जर्जरान्कृत्वा शुम्भादीन्वृषभध्वजः ॥ ११ ॥

विश्वास-प्रस्तुतिः

शेषं सैन्यं जघानाशु शस्त्रास्त्रैः समराङ्गणे
गजैर्नरैर्हयैर्व्याप्तं पतितैः समराङ्गणम् ॥ १२ ॥

मूलम्

शेषं सैन्यं जघानाशु शस्त्रास्त्रैः समराङ्गणे
गजैर्नरैर्हयैर्व्याप्तं पतितैः समराङ्गणम् ॥ १२ ॥

विश्वास-प्रस्तुतिः

बभूव वज्रनिर्भिन्नैः पर्वतैरिव भूतलम्
अथ मायामयीं गौरीं विदधे सिन्धुनन्दनः ॥ १३ ॥

मूलम्

बभूव वज्रनिर्भिन्नैः पर्वतैरिव भूतलम्
अथ मायामयीं गौरीं विदधे सिन्धुनन्दनः ॥ १३ ॥

विश्वास-प्रस्तुतिः

सौन्दर्यगुणसम्पन्नां सर्वालङ्कारभूषिताम्
जयां मायामयीं कृत्वा समुवाचाब्धिनन्दनः ॥ १४ ॥

मूलम्

सौन्दर्यगुणसम्पन्नां सर्वालङ्कारभूषिताम्
जयां मायामयीं कृत्वा समुवाचाब्धिनन्दनः ॥ १४ ॥

विश्वास-प्रस्तुतिः

गच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतम्
इत्युक्त्वा दैत्यपतिना ययौ मायामयी जया ॥ १५ ॥

मूलम्

गच्छ त्वं पुरतो रुद्रं विमोहय रणे द्रुतम्
इत्युक्त्वा दैत्यपतिना ययौ मायामयी जया ॥ १५ ॥

विश्वास-प्रस्तुतिः

रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोद ह
पृष्टा हरेण सा प्राह मानसोत्तरपर्वतात् ॥ १६ ॥

मूलम्

रणे गत्वा शिवस्याग्रे मुक्तकेशी रुरोद ह
पृष्टा हरेण सा प्राह मानसोत्तरपर्वतात् ॥ १६ ॥

विश्वास-प्रस्तुतिः

हृता तव प्रिया देव पार्वती सिन्धुसूनुना
श्रुत्वेति वचनं तस्यास्तामुवाच वृषध्वजः ॥ १७ ॥

मूलम्

हृता तव प्रिया देव पार्वती सिन्धुसूनुना
श्रुत्वेति वचनं तस्यास्तामुवाच वृषध्वजः ॥ १७ ॥

विश्वास-प्रस्तुतिः

जये त्वमेहि वृषभं त्वां हरिष्यन्ति दानवाः
ततो वृषभमारुह्य जया चालिङ्ग्य शङ्करम् ॥ १८ ॥

मूलम्

जये त्वमेहि वृषभं त्वां हरिष्यन्ति दानवाः
ततो वृषभमारुह्य जया चालिङ्ग्य शङ्करम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

प्राह प्रयामि पार्वत्या न जीवामि विना हर
चन्द्रं शम्भुजटाविष्टं गृहीत्वा वृषभाद्द्रुतम् ॥ १९ ॥

मूलम्

प्राह प्रयामि पार्वत्या न जीवामि विना हर
चन्द्रं शम्भुजटाविष्टं गृहीत्वा वृषभाद्द्रुतम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

अवारोहत सा माया मायाष्वक्तो रणं ययौ
ततो गौरीं हृतां श्रुत्वा चिन्तयामास शङ्करः ॥ २० ॥

मूलम्

अवारोहत सा माया मायाष्वक्तो रणं ययौ
ततो गौरीं हृतां श्रुत्वा चिन्तयामास शङ्करः ॥ २० ॥

विश्वास-प्रस्तुतिः

दैत्यमायापरिष्वक्तो नात्मानं बुबुधे नृप
एतस्मिन्नन्तरे प्राप्तः सैन्येन महता वृतः ॥ २१ ॥

मूलम्

दैत्यमायापरिष्वक्तो नात्मानं बुबुधे नृप
एतस्मिन्नन्तरे प्राप्तः सैन्येन महता वृतः ॥ २१ ॥

विश्वास-प्रस्तुतिः

मायामृडानीं स्वरथे निधायार्णवजः शिवम्
जालन्धरजये तद्वदासीद्वादित्रनिस्वनः ॥ २२ ॥

मूलम्

मायामृडानीं स्वरथे निधायार्णवजः शिवम्
जालन्धरजये तद्वदासीद्वादित्रनिस्वनः ॥ २२ ॥

विश्वास-प्रस्तुतिः

चचाल वसुधा येन प्रतिनेदुर्महीधराः
हरस्य दर्शयामास पार्वतीं सिन्धुनन्दनः ॥ २३ ॥

मूलम्

चचाल वसुधा येन प्रतिनेदुर्महीधराः
हरस्य दर्शयामास पार्वतीं सिन्धुनन्दनः ॥ २३ ॥

विश्वास-प्रस्तुतिः

रुद्रोऽप्यरिरथस्थां तां ददर्श निजवल्लभाम्
वियोगविधुरां दीनां तन्वीमातुरलोचनाम् ॥ २४ ॥

मूलम्

रुद्रोऽप्यरिरथस्थां तां ददर्श निजवल्लभाम्
वियोगविधुरां दीनां तन्वीमातुरलोचनाम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

हा नाथ प्रिय रुद्रेति प्रजल्पन्तीं पुनः पुनः
प्रौढवैरिरथे दृष्ट्वा पाखण्डिस्थां यथा श्रुतिम् ॥ २५ ॥

मूलम्

हा नाथ प्रिय रुद्रेति प्रजल्पन्तीं पुनः पुनः
प्रौढवैरिरथे दृष्ट्वा पाखण्डिस्थां यथा श्रुतिम् ॥ २५ ॥

विश्वास-प्रस्तुतिः

गौरीं दध्यौ तथा स्थाणुः कथं प्राप्या प्रिया मया
विललाप ततः शम्भुर्दैत्यमायाविमोहितः ॥ २६ ॥

मूलम्

गौरीं दध्यौ तथा स्थाणुः कथं प्राप्या प्रिया मया
विललाप ततः शम्भुर्दैत्यमायाविमोहितः ॥ २६ ॥

विश्वास-प्रस्तुतिः

मोहो मे दानवैः कान्ते हृतासि त्वां कथं प्रिये
शोकमोहप्लुतं दृष्ट्वा शङ्करं सागरात्मजः ॥ २७ ॥

मूलम्

मोहो मे दानवैः कान्ते हृतासि त्वां कथं प्रिये
शोकमोहप्लुतं दृष्ट्वा शङ्करं सागरात्मजः ॥ २७ ॥

विश्वास-प्रस्तुतिः

जगाद प्रहसन्वाक्यं कश्चित्कारुण्यवान्यथा
सर्वप्रमाणशून्योऽसि स्मर शृङ्गारवर्जितः ॥ २८ ॥

मूलम्

जगाद प्रहसन्वाक्यं कश्चित्कारुण्यवान्यथा
सर्वप्रमाणशून्योऽसि स्मर शृङ्गारवर्जितः ॥ २८ ॥

विश्वास-प्रस्तुतिः

ईश्वरोऽपि वराकस्त्वं सञ्जातोम्बिकया विना
मा रोदीर्हि विरूपाक्ष ददामि तव वल्लभाम् ॥ २९ ॥

मूलम्

ईश्वरोऽपि वराकस्त्वं सञ्जातोम्बिकया विना
मा रोदीर्हि विरूपाक्ष ददामि तव वल्लभाम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

रक्षितोऽसि मया रुद्र गृहीत्वा पार्वतीं रणात्
इत्युक्त्वा गिरिशं तूर्णमुत्तार्य स्वरथादुमाम् ॥ ३० ॥

मूलम्

रक्षितोऽसि मया रुद्र गृहीत्वा पार्वतीं रणात्
इत्युक्त्वा गिरिशं तूर्णमुत्तार्य स्वरथादुमाम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

सैन्यं सम्प्रेषयामास शङ्कराभिमुखं किल
हरोऽपि वृषभेणाशु तत्सैन्यं समधावत ॥ ३१ ॥

मूलम्

सैन्यं सम्प्रेषयामास शङ्कराभिमुखं किल
हरोऽपि वृषभेणाशु तत्सैन्यं समधावत ॥ ३१ ॥

विश्वास-प्रस्तुतिः

गृहीतुं पार्वतीं पाहि त्राहित्राहीति जल्पतीम्
यावद्गृह्णाति तां गौरीं करेण वृषभध्वजः ॥ ३२ ॥

मूलम्

गृहीतुं पार्वतीं पाहि त्राहित्राहीति जल्पतीम्
यावद्गृह्णाति तां गौरीं करेण वृषभध्वजः ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तावच्छुम्भासुरः शीघ्रं गृहीत्वा चाम्बरे स्थितः
शूलं मुमोच बलवान्हन्तुं शुम्भासुरं हरः ॥ ३३ ॥

मूलम्

तावच्छुम्भासुरः शीघ्रं गृहीत्वा चाम्बरे स्थितः
शूलं मुमोच बलवान्हन्तुं शुम्भासुरं हरः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

शुम्भेन सा परित्यक्ता शूलोपरि पपात ह
रुदन्ती चारुसर्वाङ्गी त्यक्ता शूलेन संयुता ॥ ३४ ॥

मूलम्

शुम्भेन सा परित्यक्ता शूलोपरि पपात ह
रुदन्ती चारुसर्वाङ्गी त्यक्ता शूलेन संयुता ॥ ३४ ॥

विश्वास-प्रस्तुतिः

पतिता शङ्करस्याग्रे तथेत्युक्त्वा ममार च
मायागौरीं मृतां दृष्ट्वा शोकमोहपरिप्लुतः ॥ ३५ ॥

मूलम्

पतिता शङ्करस्याग्रे तथेत्युक्त्वा ममार च
मायागौरीं मृतां दृष्ट्वा शोकमोहपरिप्लुतः ॥ ३५ ॥

विश्वास-प्रस्तुतिः

हा प्रियेति रुदन्रुद्रः पपात भुवि मूर्च्छितः
क्षणं सञ्ज्ञामवाप्याथ रणभूमावुमापतिः
शशाप शुम्भप्रमुखान्गौरी युष्मान्हनिष्यति ॥ ३६ ॥

मूलम्

हा प्रियेति रुदन्रुद्रः पपात भुवि मूर्च्छितः
क्षणं सञ्ज्ञामवाप्याथ रणभूमावुमापतिः
शशाप शुम्भप्रमुखान्गौरी युष्मान्हनिष्यति ॥ ३६ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
अथ शुम्भादयो दैत्या रणे देव्या निपातिताः
महेश्वरस्य शापेन गते मन्न्वतरे नृप ॥ ३७ ॥

मूलम्

नारद उवाच-
अथ शुम्भादयो दैत्या रणे देव्या निपातिताः
महेश्वरस्य शापेन गते मन्न्वतरे नृप ॥ ३७ ॥

विश्वास-प्रस्तुतिः

शपित्वा तान्रुरोदाथ जल्पन्निर्गत्य शङ्करः
क्व गतासि प्रियेत्युक्त्वा दुःखितं मां रणाङ्गणे ॥ ३८ ॥

मूलम्

शपित्वा तान्रुरोदाथ जल्पन्निर्गत्य शङ्करः
क्व गतासि प्रियेत्युक्त्वा दुःखितं मां रणाङ्गणे ॥ ३८ ॥

विश्वास-प्रस्तुतिः

रतिं त्यक्त्वा वियोगार्तः श्रीकण्ठोऽहं त्वया कृतः
वासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये ॥ ३९ ॥

मूलम्

रतिं त्यक्त्वा वियोगार्तः श्रीकण्ठोऽहं त्वया कृतः
वासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये ॥ ३९ ॥

विश्वास-प्रस्तुतिः

यज्ञे दक्षस्याग्निकुण्डे शिरो देवि हुतं त्वया
भूयो हि भवती लब्धा कथं त्यजसि मां पुनः ॥ ४० ॥

मूलम्

यज्ञे दक्षस्याग्निकुण्डे शिरो देवि हुतं त्वया
भूयो हि भवती लब्धा कथं त्यजसि मां पुनः ॥ ४० ॥

विश्वास-प्रस्तुतिः

उतिष्ठोतिष्ठ चार्वङ्गि गिरिजे मां प्रबोधय
अत्रान्तरे शिवं ज्ञात्वा दैत्यमायाविमोहितम् ॥ ४१ ॥

मूलम्

उतिष्ठोतिष्ठ चार्वङ्गि गिरिजे मां प्रबोधय
अत्रान्तरे शिवं ज्ञात्वा दैत्यमायाविमोहितम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

देवतागणमध्यस्थो ह्यन्तरिक्षादुपागमत्
विलपन्तमुवाचेदमदृश्यः कमलासनः ॥ ४२ ॥

मूलम्

देवतागणमध्यस्थो ह्यन्तरिक्षादुपागमत्
विलपन्तमुवाचेदमदृश्यः कमलासनः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
त्वं शोकमोहपितृमातृविवर्जितोऽसि दुःखं सुखं सुतकलत्ररिपुर्न चास्ति
जातोऽसि नैव जनकेन जनिष्यमाणस्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः ॥ ४३ ॥

मूलम्

ब्रह्मोवाच-
त्वं शोकमोहपितृमातृविवर्जितोऽसि दुःखं सुखं सुतकलत्ररिपुर्न चास्ति
जातोऽसि नैव जनकेन जनिष्यमाणस्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

एकोऽसि नाथ बहुधा कृतविग्रहोऽसि सूर्यो यथा जलधिवीचिषु दृश्यमानः
ध्यानेन यान्ति यमिनस्तव पादमूलं रूपं परं दुरवबोधमवाच्यमेव ॥ ४४ ॥

मूलम्

एकोऽसि नाथ बहुधा कृतविग्रहोऽसि सूर्यो यथा जलधिवीचिषु दृश्यमानः
ध्यानेन यान्ति यमिनस्तव पादमूलं रूपं परं दुरवबोधमवाच्यमेव ॥ ४४ ॥

विश्वास-प्रस्तुतिः

नैषा प्रिया तव समानतया विपन्ना जालन्धरेण रचितां जहि देव मायाम्
सा पार्वती कमलकोशगता हि शम्भो युद्धस्व वैरिनिवहं जहि पाहि चास्मान् ॥ ४५ ॥

मूलम्

नैषा प्रिया तव समानतया विपन्ना जालन्धरेण रचितां जहि देव मायाम्
सा पार्वती कमलकोशगता हि शम्भो युद्धस्व वैरिनिवहं जहि पाहि चास्मान् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

श्रुत्वेति ब्रह्मणो वाक्यमवबुद्धो महेश्वरः
ज्ञात्वा तां दानवीमायां मुमोच महती शिलाम् ॥ ४६ ॥

मूलम्

श्रुत्वेति ब्रह्मणो वाक्यमवबुद्धो महेश्वरः
ज्ञात्वा तां दानवीमायां मुमोच महती शिलाम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

तया जघान समरे दैत्यकोटिशतत्रयम्
ततो वृषभमारुह्य क्रोधेन महता नृप ॥ ४७ ॥

मूलम्

तया जघान समरे दैत्यकोटिशतत्रयम्
ततो वृषभमारुह्य क्रोधेन महता नृप ॥ ४७ ॥

विश्वास-प्रस्तुतिः

धनुः पिनाकं युद्धाय धूर्जटिर्जगृहे शरान्
अथ मायापरित्यक्तं शर्वमालोक्य सिन्धुजः ॥ ४८ ॥

मूलम्

धनुः पिनाकं युद्धाय धूर्जटिर्जगृहे शरान्
अथ मायापरित्यक्तं शर्वमालोक्य सिन्धुजः ॥ ४८ ॥

विश्वास-प्रस्तुतिः

सुरेशमोहनं मायाजालमत्यद्भुतं नृप
अन्यदाविश्चकाराशु भृशं मायामहाबलम् ॥ ४९ ॥

मूलम्

सुरेशमोहनं मायाजालमत्यद्भुतं नृप
अन्यदाविश्चकाराशु भृशं मायामहाबलम् ॥ ४९ ॥

विश्वास-प्रस्तुतिः

जालन्धरः कोटिभुजो बभूव वृक्षास्त्रशस्त्रैर्युयुधे वृषाङ्कम्
अथान्तराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमण्डिताम् 6.18.॥ ५० ॥

मूलम्

जालन्धरः कोटिभुजो बभूव वृक्षास्त्रशस्त्रैर्युयुधे वृषाङ्कम्
अथान्तराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमण्डिताम् 6.18.॥ ५० ॥

विश्वास-प्रस्तुतिः

देवतायतनै रम्यैर्नानापुष्पसमाकुलैः
मण्डितां नृप भूमिं च चकारोदधिनन्दनः
नृत्यन्ति यत्राप्सरसो मेनकाद्या मनोहरा ॥ ५१ ॥

मूलम्

देवतायतनै रम्यैर्नानापुष्पसमाकुलैः
मण्डितां नृप भूमिं च चकारोदधिनन्दनः
नृत्यन्ति यत्राप्सरसो मेनकाद्या मनोहरा ॥ ५१ ॥

विश्वास-प्रस्तुतिः

विस्मृत्य शम्भुस्तदपास्यकार्मुकं सद्यः प्रतस्थे वृषभोपरि स्थितः
वादित्रगीतैर्भुवि मोहितो भृशं दैत्येन्द्रमायामय ताण्डवेन सः ॥ ५२ ॥

मूलम्

विस्मृत्य शम्भुस्तदपास्यकार्मुकं सद्यः प्रतस्थे वृषभोपरि स्थितः
वादित्रगीतैर्भुवि मोहितो भृशं दैत्येन्द्रमायामय ताण्डवेन सः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

विमोहितं वीक्ष्य वृषस्थितं हरं नित्यं समुद्रः सह ताण्डवेन
गीतेन वाद्येन च नृत्यलीलया ननाद रूपी तरसा विमोहितुम् ॥ ५३ ॥

मूलम्

विमोहितं वीक्ष्य वृषस्थितं हरं नित्यं समुद्रः सह ताण्डवेन
गीतेन वाद्येन च नृत्यलीलया ननाद रूपी तरसा विमोहितुम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः

जन्तून्क्षिप्त्वोदधौ तांश्च सहस्रं स ततोत्सवः
क्व च ता देवताः सर्वाः क्व नन्दिप्रमुखा गणाः ॥ ५४ ॥

मूलम्

जन्तून्क्षिप्त्वोदधौ तांश्च सहस्रं स ततोत्सवः
क्व च ता देवताः सर्वाः क्व नन्दिप्रमुखा गणाः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

अपि त्वं माननीयोऽसि मोहितो दैत्यमायया
किमद्य शम्भो भगवन्नुपेक्ष्यते उदीर्यचक्रं जठरस्थितं च ॥ ५५ ॥

मूलम्

अपि त्वं माननीयोऽसि मोहितो दैत्यमायया
किमद्य शम्भो भगवन्नुपेक्ष्यते उदीर्यचक्रं जठरस्थितं च ॥ ५५ ॥

विश्वास-प्रस्तुतिः

वधाय चास्यैव कृतं महेश जालन्धरं संहरते न चाजौ
इति कृष्णस्य वचनात्तत्स्मृत्वात्मानमीश्वरम् ॥ ५६ ॥

मूलम्

वधाय चास्यैव कृतं महेश जालन्धरं संहरते न चाजौ
इति कृष्णस्य वचनात्तत्स्मृत्वात्मानमीश्वरम् ॥ ५६ ॥

विश्वास-प्रस्तुतिः

आरुह्य वृषभं शीघ्रमाजगाम महारणम्
तमागतं शिवं दृष्ट्वा सर्वसैन्यसमावृतः ॥ ५७ ॥

मूलम्

आरुह्य वृषभं शीघ्रमाजगाम महारणम्
तमागतं शिवं दृष्ट्वा सर्वसैन्यसमावृतः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

रुरोध समरे राजन्क्रुद्धो जालन्धरोऽसुरः
हरस्य कुपितस्यासीत्सृष्टिसंहारकारकम् ॥ ५८ ॥

मूलम्

रुरोध समरे राजन्क्रुद्धो जालन्धरोऽसुरः
हरस्य कुपितस्यासीत्सृष्टिसंहारकारकम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

रूपं तृतीयनेत्राग्नौ दानवाः शलभा यथा
रुपं दृष्ट्वा भगवतो रौद्रज्वालामयं नृप ॥ ५९ ॥

मूलम्

रूपं तृतीयनेत्राग्नौ दानवाः शलभा यथा
रुपं दृष्ट्वा भगवतो रौद्रज्वालामयं नृप ॥ ५९ ॥

विश्वास-प्रस्तुतिः

शुम्भादयस्तदा दैत्या राहुप्रभृतयश्च ये
रुद्रं निरीक्ष्य सन्त्रस्ताः पातालं विविशुर्भयात् ॥ ६० ॥

मूलम्

शुम्भादयस्तदा दैत्या राहुप्रभृतयश्च ये
रुद्रं निरीक्ष्य सन्त्रस्ताः पातालं विविशुर्भयात् ॥ ६० ॥

विश्वास-प्रस्तुतिः

सेनाभटाननेकांश्च हतान्दृष्ट्वा महामृधे
शुम्भादीन्हतशेषांस्तान्दृष्ट्वात्मानं पलायितान् ॥ ६१ ॥

मूलम्

सेनाभटाननेकांश्च हतान्दृष्ट्वा महामृधे
शुम्भादीन्हतशेषांस्तान्दृष्ट्वात्मानं पलायितान् ॥ ६१ ॥

विश्वास-प्रस्तुतिः

तदा जालन्धरः सङ्ख्ये एको गिरिरिवस्थितः
परमार्थं रुद्ररूपं हृष्टः साक्षाद्विलोकयन् ॥ ६२ ॥

मूलम्

तदा जालन्धरः सङ्ख्ये एको गिरिरिवस्थितः
परमार्थं रुद्ररूपं हृष्टः साक्षाद्विलोकयन् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

ततो जालन्धरः प्राह महादेवं प्रहस्य च
रूपं संहर येन त्वं दहसे सचराचरम् ॥ ६३ ॥

मूलम्

ततो जालन्धरः प्राह महादेवं प्रहस्य च
रूपं संहर येन त्वं दहसे सचराचरम् ॥ ६३ ॥

विश्वास-प्रस्तुतिः

शस्त्रेण कुरु सङ्ग्रामं त्यक्त्वा योगबलं निजम्
इति जालन्धरवचः श्रुत्वोवाच ततः शिवः ॥ ६४ ॥

मूलम्

शस्त्रेण कुरु सङ्ग्रामं त्यक्त्वा योगबलं निजम्
इति जालन्धरवचः श्रुत्वोवाच ततः शिवः ॥ ६४ ॥

विश्वास-प्रस्तुतिः

वरं वरय दैत्येश प्रीतोऽस्मि तव कर्मणा
ईदृक्षमपि मद्रूपं दृष्ट्वा यन्निर्भयोऽधुना ॥ ६५ ॥

मूलम्

वरं वरय दैत्येश प्रीतोऽस्मि तव कर्मणा
ईदृक्षमपि मद्रूपं दृष्ट्वा यन्निर्भयोऽधुना ॥ ६५ ॥

विश्वास-प्रस्तुतिः

अपि ब्रह्माण्डमखिलं मद्रूपस्यास्य दानव
तेजसो वीक्षणेनालं तत्र त्वमसि निर्भयः ॥ ६६ ॥

मूलम्

अपि ब्रह्माण्डमखिलं मद्रूपस्यास्य दानव
तेजसो वीक्षणेनालं तत्र त्वमसि निर्भयः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
इति शम्भोः प्रसादं च मत्वा संसारनिस्पृहः
जालन्धरो हराद्वव्रे मुक्तिं सायुज्यतां पराम् ॥ ६७ ॥

मूलम्

नारद उवाच-
इति शम्भोः प्रसादं च मत्वा संसारनिस्पृहः
जालन्धरो हराद्वव्रे मुक्तिं सायुज्यतां पराम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः

श्रीमहादेव उवाच-
दिव्यं देहमिदं दैत्य भोगसिद्धियुतं तव
वृन्दा मनोहरं रम्यमिहस्थं कालमश्नुते ॥ ६८ ॥

मूलम्

श्रीमहादेव उवाच-
दिव्यं देहमिदं दैत्य भोगसिद्धियुतं तव
वृन्दा मनोहरं रम्यमिहस्थं कालमश्नुते ॥ ६८ ॥

विश्वास-प्रस्तुतिः

मुहूर्तं परमात्मानं तमेकाकिनमव्ययम्
अबुद्ध्वा त्यजसे मूर्ख कथं त्वं मुक्तिमिच्छसि ॥ ६९ ॥

मूलम्

मुहूर्तं परमात्मानं तमेकाकिनमव्ययम्
अबुद्ध्वा त्यजसे मूर्ख कथं त्वं मुक्तिमिच्छसि ॥ ६९ ॥

विश्वास-प्रस्तुतिः

वृन्दा तव प्रिया राज्ञी हृता सा योगमायया
ब्रह्मस्वरूपं विज्ञाय प्राप्ता तत्परमं पदम् ॥ ७० ॥

मूलम्

वृन्दा तव प्रिया राज्ञी हृता सा योगमायया
ब्रह्मस्वरूपं विज्ञाय प्राप्ता तत्परमं पदम् ॥ ७० ॥

विश्वास-प्रस्तुतिः

इदानीं दुर्ल्लभा सा च तत्पदं चैव दुर्ल्लभम्
स्वर्गापवर्गयोर्मध्ये संसारे वरमाप्नुहि ॥ ७१ ॥

मूलम्

इदानीं दुर्ल्लभा सा च तत्पदं चैव दुर्ल्लभम्
स्वर्गापवर्गयोर्मध्ये संसारे वरमाप्नुहि ॥ ७१ ॥

विश्वास-प्रस्तुतिः

जालन्धर उवाच-
देवमुक्तपदं लभ्यं कृतकृत्येन केनचित्
इदानीं कृतकृत्योऽस्मि यत्त्वां पश्ये त्वया हतः ॥ ७२ ॥

मूलम्

जालन्धर उवाच-
देवमुक्तपदं लभ्यं कृतकृत्येन केनचित्
इदानीं कृतकृत्योऽस्मि यत्त्वां पश्ये त्वया हतः ॥ ७२ ॥

विश्वास-प्रस्तुतिः

शिव उवाच-
मत्स्थानं परमं क्षेत्रं यदि त्वं गन्तुमुत्सुकः
तर्हि मां कोपयस्वाशु दैत्यं हत्वा दृढैः शरैः ॥ ७३ ॥

मूलम्

शिव उवाच-
मत्स्थानं परमं क्षेत्रं यदि त्वं गन्तुमुत्सुकः
तर्हि मां कोपयस्वाशु दैत्यं हत्वा दृढैः शरैः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

ततोऽहं त्वां हनिष्यामि मत्स्थानं यास्यसेऽनघ
महेश्वरवचः श्रुत्वा प्राह जालन्धरः शिवम् ॥ ७४ ॥

मूलम्

ततोऽहं त्वां हनिष्यामि मत्स्थानं यास्यसेऽनघ
महेश्वरवचः श्रुत्वा प्राह जालन्धरः शिवम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

त्वयि सर्वजगत्पूज्ये पूर्वं न प्रहराम्यहम् ॥ ७५ ॥

मूलम्

त्वयि सर्वजगत्पूज्ये पूर्वं न प्रहराम्यहम् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
एवमुक्तो जघानाशु सिन्धुजं विशिखैः शिवः
ते शराः सिन्धुपुत्रस्य देहलग्ना विभान्ति च ॥ ७६ ॥

मूलम्

नारद उवाच-
एवमुक्तो जघानाशु सिन्धुजं विशिखैः शिवः
ते शराः सिन्धुपुत्रस्य देहलग्ना विभान्ति च ॥ ७६ ॥

विश्वास-प्रस्तुतिः

यथा लोहगिरिप्रान्ते वेणवो वह्निदीपिताः
जालन्धरो हरस्याङ्गं पूरयामास मार्गणैः ॥ ७७ ॥

मूलम्

यथा लोहगिरिप्रान्ते वेणवो वह्निदीपिताः
जालन्धरो हरस्याङ्गं पूरयामास मार्गणैः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तैः शरैः शुशुभे रुद्रो यथा खं खेचराकुलम्
जालन्धरेशयोर्युद्धं तथा द्वन्द्वमभून्नृप ॥ ७८ ॥

मूलम्

तैः शरैः शुशुभे रुद्रो यथा खं खेचराकुलम्
जालन्धरेशयोर्युद्धं तथा द्वन्द्वमभून्नृप ॥ ७८ ॥

विश्वास-प्रस्तुतिः

हरादन्येन हन्तास्ति न सोढान्योऽर्णवात्मजात्
गिरिकोटिसहस्रैस्तु तदा पृथ्वीपुटोद्धृतैः ॥ ७९ ॥

मूलम्

हरादन्येन हन्तास्ति न सोढान्योऽर्णवात्मजात्
गिरिकोटिसहस्रैस्तु तदा पृथ्वीपुटोद्धृतैः ॥ ७९ ॥

विश्वास-प्रस्तुतिः

पूरयामास समरे सिन्धुजः पार्वतीपतिम्
ततः शूलेन निहतो रुद्रेणोरसि दानवः ॥ ८० ॥

मूलम्

पूरयामास समरे सिन्धुजः पार्वतीपतिम्
ततः शूलेन निहतो रुद्रेणोरसि दानवः ॥ ८० ॥

विश्वास-प्रस्तुतिः

निःससार मुखात्तस्य ज्वरो जम्भो भयङ्करः
स च वीरज्वरोनाम सिंहवक्त्रो नराकृतिः ॥ ८१ ॥

मूलम्

निःससार मुखात्तस्य ज्वरो जम्भो भयङ्करः
स च वीरज्वरोनाम सिंहवक्त्रो नराकृतिः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

दैत्यदेहाद्विनिष्क्रान्तं दृष्ट्वा सिंहमुखं ज्वरम्
हुङ्कारमकरोद्घोरं शरभस्तत्र निर्ययौ ॥ ८२ ॥

मूलम्

दैत्यदेहाद्विनिष्क्रान्तं दृष्ट्वा सिंहमुखं ज्वरम्
हुङ्कारमकरोद्घोरं शरभस्तत्र निर्ययौ ॥ ८२ ॥

विश्वास-प्रस्तुतिः

शिवस्य निःसृतेनासौ शरभेण निपातितः
अजेयं शङ्करं दृष्ट्वा वृषभेन्द्रेण संयुतम् ॥ ८३ ॥

मूलम्

शिवस्य निःसृतेनासौ शरभेण निपातितः
अजेयं शङ्करं दृष्ट्वा वृषभेन्द्रेण संयुतम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

आययौ वृषभाभ्याशे तरसा सागरात्मजः
वृषं पुच्छे गृहीत्वा च भ्रामयामास चाम्बरे ॥ ८४ ॥

मूलम्

आययौ वृषभाभ्याशे तरसा सागरात्मजः
वृषं पुच्छे गृहीत्वा च भ्रामयामास चाम्बरे ॥ ८४ ॥

विश्वास-प्रस्तुतिः

जालन्धरो महाबाहुश्चिक्षेप हिमवद्गिरौ
ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः ॥ ८५ ॥

मूलम्

जालन्धरो महाबाहुश्चिक्षेप हिमवद्गिरौ
ततस्त्रिशूलमत्युग्रं मुमोच गिरिजापतिः ॥ ८५ ॥

विश्वास-प्रस्तुतिः

तद्धस्तेन गृहीत्वा च दैत्येशः शिवसन्निधौ
रथारूढो धनुर्गृह्य कालकेदारमब्धिजः ॥ ८६ ॥

मूलम्

तद्धस्तेन गृहीत्वा च दैत्येशः शिवसन्निधौ
रथारूढो धनुर्गृह्य कालकेदारमब्धिजः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

पूरयामास विशिखैः शिवमुर्वीतले स्थितम्
उग्रः शस्त्राञ्छरान्छित्वा बाणै रथमचूर्णयत् ॥ ८७ ॥

मूलम्

पूरयामास विशिखैः शिवमुर्वीतले स्थितम्
उग्रः शस्त्राञ्छरान्छित्वा बाणै रथमचूर्णयत् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

दशयोजनविस्तीर्णं सारथ्यश्व समन्वितम्
जालंरोऽपि विरथो अभ्यधावन्मृधे शिवम् ॥ ८८ ॥

मूलम्

दशयोजनविस्तीर्णं सारथ्यश्व समन्वितम्
जालंरोऽपि विरथो अभ्यधावन्मृधे शिवम् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

तयोर्युद्धमभूद्घोरमद्भुतं लोमहर्षणम्
तद्दृष्ट्वाऽकाण्डकल्पान्त शङ्कया तत्र सुःसुराः ॥ ८९ ॥

मूलम्

तयोर्युद्धमभूद्घोरमद्भुतं लोमहर्षणम्
तद्दृष्ट्वाऽकाण्डकल्पान्त शङ्कया तत्र सुःसुराः ॥ ८९ ॥

विश्वास-प्रस्तुतिः

सर्वास्त्रैस्तावदन्योन्यं जघ्नतुर्भीमविक्रमौ
पद्भिः पृथ्वीं चालयन्तौ कम्पयन्तौ नभः स्वनैः ॥ ९० ॥

मूलम्

सर्वास्त्रैस्तावदन्योन्यं जघ्नतुर्भीमविक्रमौ
पद्भिः पृथ्वीं चालयन्तौ कम्पयन्तौ नभः स्वनैः ॥ ९० ॥

विश्वास-प्रस्तुतिः

अथोत्कटं बलं दृष्ट्वा दानवेन्द्रस्य शङ्करः
शस्त्रजालं जहाराशु योगमायाबलेन सः ॥ ९१ ॥

मूलम्

अथोत्कटं बलं दृष्ट्वा दानवेन्द्रस्य शङ्करः
शस्त्रजालं जहाराशु योगमायाबलेन सः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

ततः कोटिभुजो दैत्यो दंष्ट्रा भीषणलोचनः
शस्त्रहीनोऽपि तरसा धावमानो हरं ययौ ॥ ९२ ॥

मूलम्

ततः कोटिभुजो दैत्यो दंष्ट्रा भीषणलोचनः
शस्त्रहीनोऽपि तरसा धावमानो हरं ययौ ॥ ९२ ॥

विश्वास-प्रस्तुतिः

विशालकरबन्धेन बबन्ध समरे शिवम्
ततस्तस्य कृपाणेन चिच्छेद करकाननम् ॥ ९३ ॥

मूलम्

विशालकरबन्धेन बबन्ध समरे शिवम्
ततस्तस्य कृपाणेन चिच्छेद करकाननम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

सिन्धुजेन भुजाक्रान्तो रुद्रोभून्नीललोहितः
लीलया योधयामास रणेऽसौ सिन्धुनन्दनः ॥ ९४ ॥

मूलम्

सिन्धुजेन भुजाक्रान्तो रुद्रोभून्नीललोहितः
लीलया योधयामास रणेऽसौ सिन्धुनन्दनः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

छिन्नहस्तोऽपि युयुधे स्वर्भानुः शिरसा यथा
नियुद्धेन नदीसूनुस्तोषयामास शङ्करम् ॥ ९५ ॥

मूलम्

छिन्नहस्तोऽपि युयुधे स्वर्भानुः शिरसा यथा
नियुद्धेन नदीसूनुस्तोषयामास शङ्करम् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

परितुष्टोऽब्रवीच्छम्भुर्वरं वरय दुर्लभम्
जालन्धरेणसोऽप्युक्तस्त्वं मे देह्यात्मनः पदम् ॥ ९६ ॥

मूलम्

परितुष्टोऽब्रवीच्छम्भुर्वरं वरय दुर्लभम्
जालन्धरेणसोऽप्युक्तस्त्वं मे देह्यात्मनः पदम् ॥ ९६ ॥

विश्वास-प्रस्तुतिः

मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसि
शीघ्रं प्रयच्छ मे सिद्धिं नोचेत्त्वां संहराम्यहम् ॥ ९७ ॥

मूलम्

मम दोःशस्त्रहीनस्य नावज्ञां कर्तुमर्हसि
शीघ्रं प्रयच्छ मे सिद्धिं नोचेत्त्वां संहराम्यहम् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा सभुजो भूत्वा जघ्ने तं मुष्टिनोरसि
ततः सुदर्शनं चक्रं पुरा यन्निर्मितं स्वयम् ॥ ९८ ॥

मूलम्

इत्युक्त्वा सभुजो भूत्वा जघ्ने तं मुष्टिनोरसि
ततः सुदर्शनं चक्रं पुरा यन्निर्मितं स्वयम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

मुखादुद्गीर्य तद्धस्ते गृहीत्वा तोलयद्रुषा
सूर्यकोटिसहस्राभं ग्रसन्तं सचराचरम् ॥ ९९ ॥

मूलम्

मुखादुद्गीर्य तद्धस्ते गृहीत्वा तोलयद्रुषा
सूर्यकोटिसहस्राभं ग्रसन्तं सचराचरम् ॥ ९९ ॥

तेन चक्रेण चिच्छेद शिरो जालन्धरस्य च
ततस्तच्छीर्षमुत्प्लुत्य गगने शतयोजनम् 6.18.१००
दंष्ट्रा शतकरालास्यं स्वर्भूमिनयनं च यत्
व्याघ्रगत्या ततो यातं सदनं ब्रह्मणो नृप १०१
भूयः स्वर्गे ततो दृष्ट्वा मृडः शीर्षमधावत
स्रवत्तद्रुधिरं भूरि प्रकुर्वद्भैरवस्वनम् १०२
ततो दिशः प्रणष्टास्ता गगनं विलयं गतम्
न तेजसां प्रकाशोऽस्ति चचाल वसुधा भयात् १०३
आपतन्तं जघानाशु रुद्रश्चक्रेण तच्छिरः
द्विधा भूत्वाथ राजेन्द्र पपात हिमवद्गिरौ १०४
ततो जालन्धरस्याशु शिरसः शकले किल
विशतः सर्वभूतानां पश्यतां स्म वृषाकपौ १०५
तस्य कण्ठात्समुद्भूता दैत्याः शतसहस्रशः
ते हतास्तेन चक्रेण कपर्दिकरशालिना १०६
जालन्धरकबन्धं तन्ननर्त रुधिरारुणम्
पुनः पुनः समुद्भूतास्तस्य कण्ठात्तु दानवाः १०७
पुनः पुनर्बलवता छिन्नाश्चक्रेण शम्भुना
मेदसा सिन्धुपुत्रस्य पूरिता सकला मही १०८
मेदिनी मेदसैवैषा ख्यातिं प्राप्ता तु पार्थिव
यत्र दैत्यवरस्यास्य शोणितं शैलतां गतम् १०९
कैलासस्योत्तरे भागे तत्राभूच्छोणितं पुरम्
अथ मांसचयान्दृष्ट्वा सर्वतो व्याप्य तिष्ठतः ११०
तदा सस्मार देवेशश्चतुःषष्टिगणं रणे
विज्ञानस्मरणाद्देव्यः सम्प्राप्ताः शङ्करान्तिकम् १११
कृताञ्जलिपुटाः प्रोचुः शिव किं करवामहे ११२
महादेव उवाच-
य एते दैत्यमांसस्य राशयो गिरिसन्निभाः
भक्षयध्वं युताः शीघ्रं दत्तानुज्ञा मया तु वः ११३
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही चैव माहेन्द्री सर्वाः स्वगणशोभिताः ११४
एवं शङ्करनिर्दिष्टा देव्यस्ता मांससञ्चयान्
क्रूरेण चक्षुषालोक्य निन्युश्चादर्शनं क्षणात् ११५
अथ जालन्धरवपुः क्षीणं क्रान्तं तु शक्तिभिः
ताभिर्ग्रस्ते शरीरे तु तस्य देहाद्विनिःसृता ११६
प्रभासा शङ्करं प्राप्ता जगामादर्शनं क्षणात्
तत्तेजः सूर्यसङ्काशं लयं प्राप्तं महेश्वरे ११७
एवं स विलयं प्राप्तः त्रिदिशारिस्त्रिलोचनात्
वृणुध्वं च वरं सर्वाः प्रीतः प्राह महेश्वरः ११८
तदा ताः सर्वयोगिन्यः पप्रच्छुर्जगदीश्वरम्
मर्त्यलोकेषु ये लोका भोगमोक्षवरेप्सवः ११९
पूजयिष्यन्ति ते नित्यं स्वगृहे योगिनीगणम्
तत्तेषां वाञ्छितं सर्वं सिध्यतां त्वत्प्रसादतः १२०
महादेव उवाच-
यः कश्चित्पूजयेन्नित्यं भक्तिभावसमन्वितः
युष्मद्गणं च तस्याहं वरदोऽस्मि धरातले १२१
मद्भक्तः केशवस्यापि द्वेष्टि यो योगिनीगणम्
भैरवोऽहं तदा तस्य हरिष्ये सुकृतं कृतम् १२२
इति दत्तवरा हृष्टा योगिन्यो विभुना मृधे
अत्रान्तरे भवानीं तां सस्मार वृषभं हरः १२३
स्मृतमात्रा पार्वती सा वृषभश्चागमत्क्षणात्
सखीगणसमायुक्ता सम्प्राप्ता हरवल्लभा १२४
सन्त्यक्त्वा भ्रामरीं मूर्तिं हरस्यार्द्धं समारुहत्
गिरिजासहितो राजन्महेशो मुमुदे ततः १२५
योगिनीं प्रत्युवाचेदं पिबध्वं रुधिरं नृप
जालन्धरकबन्धस्थं ताः श्रुत्वा जहृषुर्भृशम् १२६
मांसमेदोह्यसृक्पीत्वा योगिन्यो ननृतुर्मुदा
ततो हरः प्रसन्नोऽभूत्तासां क्रीडनवीक्षणात् १२७
स्वयं च भैरवं रूपं कृत्वा तन्मध्यगः पपौ
तीक्ष्णदंष्ट्रा महाकायास्तदासन्योगिनी गणाः १२८
ग्रसन्तोऽद्यापि मांसानि काले चापि पिबन्त्यसृक्
तेन जालन्धरो दैत्यो नोत्तिष्ठति रणे हतः १२९
ततस्तत्र समाजग्मुर्ब्रह्माद्या देवतागणाः
ऋषयो मरुतो देवा स्तुवन्ति स्म महेश्वरम् १३०
दिशः प्रसेदुः सुरभिर्ववौ मरुद्दिवः प्रपेतुर्भुवि पुष्पवृष्टयः
कृताभिषेकस्य च तस्य निःस्वनान्सन्नादिता दुन्दुभयोऽपि चक्रिरे १३१
उपरि परिमलान्धैः सुस्वरं सम्पतद्भिर्मधुकरनिकुरं बैरुह्यमाणाभरेण
अविरलमधुधारासारसंसिक्तभूमिः सदसि सुरविमुक्ता प्रापतत्पुष्पवृष्टिः १३२
हते तदा सिन्धुसुते हरेण नाराचघातैस्त्रिजगत्तदा बभौ
प्रसूनवृष्टिर्ननृतुस्तदाङ्गना जगुश्च यक्षाः सुरकिन्नराद्याः १३३
शम्भुर्वैरिजयोत्थितेन यशसा स्फाराङ्गकीर्तिर्गिरिं
स्वं भेजे सुरसिद्धचारणगणैः संस्तूयमानः सदा
गौरी चापि जगाम चाशु गिरितः श्वेतः
सखीसंवृता सञ्चक्रुस्त्वभिसेवनं सुमनसां वर्षेण देवाङ्गना १३४
देवोऽसौ करुणामयः सुरगणान्स्वे स्वे पदे स्थापयन्
प्रादादन्यदपि स्वकं वसु ततो ज्ञात्वा पतिं शङ्करः
किं वक्तव्यमतः परं यदि भवेदीशानुकम्पा परा
कोऽयं वा त्रिदिवो धरातलमिदं स्यादात्मसात्सर्वतः १३५
देवाः स्वराज्यमासाद्य यथापूर्वं चकाशिरे
बुभुजुर्यज्ञभागांस्ते लोकपालत्वमाश्रिताः १३६
नारद उवाच-
इति जालन्धरस्योक्तं यथावदनुपूर्वशः
चरितं लोकवीरस्य राजन्नत्यद्भुतं तव १३७
विष्णुस्त्यजति नाद्यापि क्षीराब्धिं यद्वशो नृप
सर्वोऽपि भुङ्क्ते स्वं कर्म कर्म तद्विद्ध्यसंशयम् १३८
तुभ्यं दुःखनिरासाय प्रोक्तमाख्यानमुत्तमम्
यावद्देहोस्ति कर्माणि सुखदुःखानि कर्मतः १३९
देही भुङ्क्ते वशो राजन्त्राणं न ज्ञानतः परम्
कृष्णादीनां देहबन्धे सुखदुःखादि वर्तते १४०
तत्रेतरेषां किं वाच्यं ये वैराग्यपराङ्मुखाः
ज्ञात्वेदृशीं कर्मगतिं सर्वेभ्यो बलवत्तमाम् १४१
धीरो भव प्रतीक्षस्व शुभकर्मागमं पुनः
शत्रून्जित्वा तु समये स्वं राज्यं पुनराप्स्यसि १४२
इतिहासमिमं श्रुत्वा न दुःखै परिभूयते
धर्मार्थकाममोक्षाश्च यथावच्चात्र कीर्त्तिताः १४३
स्वर्ग्यं पापहरं पुण्यं शोकमोहविनाशनम्
ब्राह्मणो ज्ञानमाप्नोति राज्यं प्राप्नोति क्षत्रियः १४४
वैश्यश्च बह्वीं सम्पत्तिं श्रुत्वा शूद्रः सुखं लभेत्
यो राजा भ्रष्टराज्योऽपि रतः सन्नेव सत्पथि १४५
स राज्यं पुनराप्नोति श्रवणान्नित्यमस्य तु
आकर्ण्यैतत्सतां राजन्श्राव्यमन्यन्न रोचते १४६
कलं च कोकिलालापं रूक्षं ध्वाङ्क्षरुतं यथा
आख्यानमेतदनघं श्रुत्वा सज्जनहृत्प्रियः १४७
हिरण्यतिलवस्त्राद्यैर्धेनुभूमिप्रदानतः
सन्तोषयेद्वाचकं तु तस्मिंस्तुष्टे फलं लभेत् १४८
देवताश्च प्रसीदेयुरर्चिते वाचके गुरौ
अन्नदानानि दद्याच्च ब्राह्मणेभ्यः प्रपूजयेत् १४९
जायते विजयी नित्यं पुत्रपौत्रसमृद्धिमान्
जायते विष्णुलोके यः शृणोत्याख्यानमुत्तमम् 6.18.१५०
इति व्याजेन भो भूप तुलस्युत्पत्तिकारणम्
ये शृण्वन्ति नरश्रेष्ठा न तेषां पातकं क्वचित् १५१
तुलसीमाहात्म्यमिदं पवित्रं पापनाशनम्
श्रुत्वा तु लभते मोक्षमुक्त्वा चैव न संशयः १५२
स्वगृहे रोपिता चैव तुलसी पापनाशिनी
दर्शनाद्ब्रह्महत्यापि नश्यते नात्र संशयः १५३
कार्तिके चैव माघे तु तुलस्या पूजयेद्धरिम्
वैशाखे तु विशेषेण पूजनं च हरेः स्मृतम् १५४
एकेनैव प्रदक्षिणेन सकलं पापं गतं वै सदा ये शूद्रा
भुवि सन्ति दाननिरताः कालेन शुद्धिं गताः
तेपि स्युः सुरपूजनार्हतनवः पापाच्च दूरं गताः ये वै
विष्णुजनाश्च दुर्लभतरा ह्यस्मिन्कलौ साम्प्रतम् १५५
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशतसहस्रसंहितायां उत्तरखण्डे जालन्धरोपाख्याने श्रीजालन्धरवधमहोत्सवोनामाष्टादशोऽध्यायः १८