नारद उवाच-
विश्वास-प्रस्तुतिः
अथ जालन्धरोऽपश्यत्कबन्धचयभीषणम्
रणं रुधिरमांसौघ मज्जा मेदोऽस्थिदुर्गमम् ॥ १ ॥
मूलम्

तत्र जालन्धरो दैत्यः प्रियाहरणदुःखितः
रणे विलोकयामास वृषस्थं पार्वतीपतिम् ॥ २ ॥

घोराहिभोगेनविभूषिताङ्गं जटाकलापे शशिभूषणाङ्कितम्
नेत्राग्निकीलोपरिशोभिताङ्गं विना रणं सम्प्रददर्श सिन्धुजः ॥ ३ ॥

शीघ्रं स्वरथमारुह्य समुद्रतनयस्तदा
संरुष्टः प्राह तं शुम्भं तापसो न हतस्त्वया ॥ ४ ॥

प्राह जालन्धरं शुम्भस्तपस्तेन महत्कृतम्
हन्तुं न शक्यतेऽस्माभिर्हरः सङ्ग्रामदुर्जयः ॥ ५ ॥

इतिशुम्भोक्तमाकर्ण्यसिन्धुजःक्रोधमूर्च्छितः
हरं पद्मसहस्रेण दैत्यसैन्येन संवृतम् ॥ ६ ॥

गृहीत्वा कालकेदारं धनुर्जालन्धरो ययौ
बाणांस्तीक्ष्णानतिस्थूलान्लोहस्तम्भान्तथा बहून् ॥ ७ ॥

मुमोच युधि दुर्धर्षो वर्षन्मेघ इवागमे
आयान्तं रुरुधुः सिन्धुसूनुं शम्भुगणा युधि ॥ ८ ॥

ततो रुद्रेण रौद्रैश्च शरौघैस्ताडितो रुषा
रुद्रबाणैस्तदा तस्य कवचं भुवि पातितम् ॥ ९ ॥

विवर्मापि बभौ सोऽथ मेघमुक्तो यथाचलः
पुनर्जालन्धरस्याङ्गं शम्भुना कीलितं शरैः ॥ १० ॥

रुधिरं बहु सुस्राव जालन्धरशरीरतः
तेनाशु रुधिरौघेण प्लाविता सकला मही ॥ ११ ॥

ततो देवा भयं जग्मुर्दानवाश्च चकम्पिरे
त्यक्त्वा ते प्रमथा वीरा रणभूमिं प्रदुद्रुवुः ॥ १२ ॥

नद्या इव परा मूर्त्तिः प्रसृता सर्वतोऽपि च
अथाहार्णवजो रुद्रं धनुर्धर वरो ह्यसि ॥ १३ ॥

इदानीं तत्करिष्यामि येन गच्छसि सङ्क्षयम्
इत्युक्त्वा कालकेदारं सशरं प्रतिगृह्य तत् ॥ १४ ॥

शीघ्रं सम्पूरयामास शरैर्नानाविधैः शिवम्
शिवः सहस्रकोटीभिः पूरिताङ्गो रणे बभौ ॥ १५ ॥

विहङ्गमैर्यथाकाशं वृक्षैरिव महागिरिः
दैत्यमुक्तैस्तुतैर्बाणैर्दृष्ट्वा व्याप्तं महेश्वरम् ॥ १६ ॥

वीरभद्रस्तथा कोपाज्जालन्धरमधावत
अपीडयदमेयात्मा समुद्रतनयं बली ॥ १७ ॥
मूलम्
वीरभद्रस्तथा कोपाज्जालन्धरमधावत
अपीडयदमेयात्मा समुद्रतनयं बली ॥ १७ ॥
विश्वास-प्रस्तुतिः
जालन्धरोऽथ सङ्क्रुद्धो विध्यन्बाणैः सहस्रशः
धनुः शरान्रथं छत्रं सारथिं तिलशः शरैः ॥ १८ ॥

चकार वीरभद्रस्य सिन्धुसूनुः प्रतापवान्
वीरभद्रोऽथ विरथो हतवान्गदयाब्धिजम् ॥ १९ ॥

तथैव गदया सोऽपि तं हत्वापातयद्भुवि
गदाप्रहारपतितमालोक्यातिविमूर्च्छितम् ॥ २० ॥

मणिभद्रोऽथ समरे जालन्धरमधावत
अतिक्रुद्धं तमायान्तं दृष्ट्वा दैत्यो महारणे ॥ २१ ॥

शरैर्व्यस्तोपकरणं स चकार नदीसुतः
अथ मूर्च्छां परित्यज्य उत्तस्थौ सिंहवन्नदन् ॥ २२ ॥

वीरभद्रस्ततः कोपान्मणिभद्रः प्रतापवान्
जघ्नतुः पर्वताभ्यां तौ व्योमस्थं तटिनीसुतम् ॥ २३ ॥

तदङ्गे पतितौ दृष्ट्वा पर्वतौ विनिनद्य च
जघान मुष्टिपातेन वीरभद्रो नदीसुतम् ॥ २४ ॥

मणिभद्रश्चरणयोर्धृत्वा सागरनन्दनम्
स्यन्दनाद्भ्रामयामास तदद्भुतमिवाभवत् ॥ २५ ॥

मणिभद्र गृहीतोऽपि दैत्यराट्स महाबलः
हत्वा चरणघातेन मणिभद्रमपातयत् ॥ २६ ॥
मूलम्
मणिभद्र गृहीतोऽपि दैत्यराट्स महाबलः
हत्वा चरणघातेन मणिभद्रमपातयत् ॥ २६ ॥
विश्वास-प्रस्तुतिः
जालन्धरो महाबाहुर्वीरभद्रं च मुष्टिना
अथागतः परिवृतो गणैर्वै नन्दिकेश्वरः ॥ २७ ॥

शुम्भस्तमागतं दृष्ट्वा रुरोध सह सैनिकैः
द्वन्द्वयुद्धैरथाजग्मुर्गणा दैत्यैः परस्परम् ॥ २८ ॥

शुम्भः शिलादजं राहुर्महाकालं रणे ययौ
कोलाहलं निशुम्भोऽथ केतुः कालमधावत ॥ २९ ॥

शैलोदरो गुहं जम्भो माल्यवन्तं महाबलः
महापार्श्वो ययौ चण्डं चण्डीशो रोमकण्टकम् ॥ ३० ॥

विकटास्योऽथ वै भृङ्गिमुरुनेत्रो विनायकम्
एवं दैत्येश्वरैः सार्द्धं गणानामधिपा ययुः ॥ ३१ ॥

अथ शुम्भायुधैर्बाणैः प्रहतश्च शिलादजः
चूर्णीचकाराद्रिशृङ्गैः कपितुण्डो महत्तरैः ॥ ३२ ॥

शुम्भस्तेनार्दितः शक्त्या शिलादं च जघान तम्
महाकालो जघानाथ तं राहुं रणमूर्द्धनि ॥ ३३ ॥

शक्त्याथ तस्य हतवान्स्यन्दनं स महाद्रिणा
कोलाहलो हतः शक्त्या निशुम्भेन प्रतापवान् ॥ ३४ ॥

शक्तिं गृहीत्वा ह्यहनद्रथं सारथिना सह
विरथेनाथ दैत्येन भृशं क्रुद्धेन संयुगे ॥ ३५ ॥

कोलाहलो सुरेन्द्रेण सहस्रफणिना हतः
तं हत्वा चातिवेगेन रथं चान्यमुपागतः ॥ ३६ ॥

फणिचक्रहतः सङ्ख्ये क्षणान्मूर्च्छां विहाय च
स्वरथात्शीघ्रमुत्तीर्य गृहीत्वा खड्गचर्मणी ॥ ३७ ॥

सर्वं चक्रे निशुम्भस्य स रथाद्यसिना पृथक्
पुनः स्वरथमारुह्य दैत्यं बाणैरताडयत् ॥ ३८ ॥

निशुम्भोऽप्यतिरोषाच्च तत्पराक्रमविस्मितः
शक्त्या महाबलस्तस्य रथं साश्वं न्यषूदयत् ॥ ३९ ॥

कोलाहलो रणे धावन्निशुम्भं विरथो बली
गतः स सरथं चक्रे विरथं भुजबन्धनात् ॥ ४० ॥

केतुपुच्छं गृहीत्वा च भ्रामयामास चाम्बरे
कालश्चिक्षेप सोऽप्यद्रिं स चिच्छेद गिरिं जवात् ॥ ४१ ॥

तं नगं चूर्णितं दृष्ट्वा ताडयामास मुष्टिना
कालश्चूर्णितसर्वाङ्गः केतुना प्राद्रवद्भयात् ॥ ४२ ॥

शैलोदरस्तथा स्कन्दं जघान गदयोरसि
षडाननोऽपि तं शक्त्या हत्वा भूमावपातयत् ॥ ४३ ॥

शक्तिप्रहारेण मृतं दानवं वीक्ष्य षण्मुखः
जगर्ज तत्र वैचित्र्यं यथा क्रौञ्चे विदारिते ॥ ४४ ॥

माल्यवानथ बाणौघैर्जम्भमभ्यर्दयद्रणे
जम्भोऽपि सायकैस्तीक्ष्णैर्भित्त्वा तं मूर्च्छितं जहौ ॥ ४५ ॥

महापार्श्वो रथं धृत्वा बाणौघैर्वाजिवर्जितम्
लीलयैव च खे नीत्वा व्यश्वं चण्डमपातयत् ॥ ४६ ॥

व्यश्वं रथं विलोक्याथ ततश्चण्डोऽग्रहीद्गजम्
आपतन्तं महापार्श्वं चण्डस्तं गदयाहनत् ॥ ४७ ॥

अचिन्त्यैव गदापातं सोऽसुरो भृशदारुणः
प्रहत्य मुष्टिना चण्डं पातयामास भूतले ॥ ४८ ॥

चण्डीशशस्त्राभिहतो रोमकण्ठो महासुरः
चण्डीशं पादयोर्धृत्वा रथमूर्ध्नि न्यपातयत् ॥ ४९ ॥

पपात सहसा भूमौ ययौ तं भीषणेक्षणः
उरुनेत्रेण समरे हतो लम्बोदरः शरैः 6.17.॥ ५० ॥

दन्तेनोरसि तं हत्वा पातयामास भूतले
ऊरुनेत्रः क्षणाच्छान्तिमागत्याशु रथं क्षणात् ॥ ५१ ॥

जघान मुद्गरेणासौ मूर्ध्नि सिन्दूरमण्डिते
गणेश्वरः पट्टिशेन जघानोरसि दानवम् ॥ ५२ ॥

तन्मुखादथ निष्क्रान्तो नवशीर्षोऽसुरो महान्
अष्टादशभुजो राजन्सोऽप्यधावत शाङ्करिम् ॥ ५३ ॥

नवशीर्षोरुनेत्राभ्यां रणे रुद्धो विनायकः
जर्जरीकृतदेहोऽपि जग्राह परशुं रुषा ॥ ५४ ॥

तेन चिच्छेद शस्त्राणि तयोराजौ गणेश्वरः
रुद्धं गणेश्वरं दृष्ट्वा ताभ्यां सङ्ख्येऽथ षण्मुखः ॥ ५५ ॥

शीघ्रमागत्य सेनानीर्जघान नवशीर्षकम्
नवशीर्षं रणे हत्वा उरुनेत्रमधावत ॥ ५६ ॥
मूलम्
शीघ्रमागत्य सेनानीर्जघान नवशीर्षकम्
नवशीर्षं रणे हत्वा उरुनेत्रमधावत ॥ ५६ ॥
विश्वास-प्रस्तुतिः
स्कन्दः स्वशक्तिघातेन पातयामास तं नृप
पश्यञ्जालन्धरः स्कन्दं ययौ सैन्येन संवृतः ॥ ५७ ॥

पुत्रप्रीत्यासुरान्हन्तुं सगणः शङ्करोऽपि च
ततो घोरतरं युद्धमभूदद्भुतसैन्ययोः ॥ ५८ ॥

हरसिन्धुजयोर्युद्धे गतप्राणेव रोदसी
अथ जालन्धरः क्रुद्धो बाणं सन्धाय दारुणम् ॥ ५९ ॥

सहस्रशतसङ्ख्याकैः पत्रैः सर्वत्र भूषितम्
दैत्येन्द्रस्तेन बाणेन ललाटेताडयच्छिवम् ॥ ६० ॥

ममज्जापुङ्खमर्यादं ललाटे शङ्करस्य च
भाले शशाङ्कवच्छम्भोः स रराज महाप्रभः ॥ ६१ ॥

यथादित्यो हि घर्मान्ते सन्ध्याकालेम्बुदागमे
अथ रुद्रो महाबाणं जग्राह ज्वलनोपमम् ॥ ६२ ॥

यस्य वेगे तु पवनः फले यस्याग्निभास्करौ
कालो ग्रन्थिषु सर्वेषु शरे देवी धरा स्थिता ॥ ६३ ॥

हरस्तेन शरेणाशु विव्याध हृदि सिन्धुजम्
तेन बाणप्रहारेण रुधिरौघपरिप्लुतः ॥ ६४ ॥
मूलम्
हरस्तेन शरेणाशु विव्याध हृदि सिन्धुजम्
तेन बाणप्रहारेण रुधिरौघपरिप्लुतः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
पपात शरभिन्नाङ्गो वज्राहत इवाचलः
तदा दैत्याः समाक्रन्दन्जगर्जुः प्रमथास्तथा ॥ ६५ ॥

सिन्धुजं मूर्छितं दृष्ट्वा रुरुधुर्दानवाः शिवम्
रक्षार्थमुद्यताः केचित्केचित्तं परितः स्थिताः ॥ ६६ ॥

यावज्जालन्धरो मूर्छां प्राप्तो वारिधिनन्दनः
तावद्रुद्रेण नाराचैर्हता जालन्धरी चमूः ॥ ६७ ॥

चिराज्जालन्धरस्त्यक्त्वा मूर्छां सैन्यं हतं नृप
दृष्ट्वा भयान्वितः सेनां विकीर्णां च तथा रणे ॥ ६८ ॥

ततः काव्यं स सस्मार मनसा परमं गुरुम्
स्मृतस्तेन त्वरन्प्राप्तः कविर्जालन्धरं प्रति ॥ ६९ ॥

स्वस्ति कृत्वा जगादाथ भार्गवः सिन्धुनन्दनम्
किं करोमि महाराज तव कार्यं महाबल ॥ ७० ॥

इति काव्यवचः श्रुत्वा भार्गवं बहु मानयन्
नत्वा गुरुमुवाचाथ राजा जालन्धरस्तथा ॥ ७१ ॥

राजोवाच-
जीवयैतान्मृताञ्छुक्र दैत्यान्सर्वान्समन्ततः
इत्युक्तः सिन्धुजेनाजौ सैन्यं तत्र व्यलोकयत् ॥ ७२ ॥

पञ्चविंशत्सहस्राणि योजनानां प्रमाणतः
दैत्याङ्गरथसङ्कीर्णमुपर्युपरि पार्थिव ॥ ७३ ॥

उच्छ्रये पञ्चनवतियोजनानां महीं चिताम्
योधवाहनदेहाद्यैरिव पूर्णां धरां ततः ॥ ७४ ॥

मन्त्रोदकेन चाभ्युक्ष्य दैत्यानुत्थापयत्कविः
यावद्रुद्रो जटाजूटं बबन्ध भुजगैर्दृढम् ॥ ७५ ॥

तावत्काव्येन तत्सैन्यं मन्त्रेणोत्थापितं नृप
व्याघ्रान्यथा केसरिणो गजेन्द्राः शूकरान्यथा ॥ ७६ ॥

आगतान्दानवान्दृष्ट्वा चिन्तयामास शङ्करः
किमेतदिह सञ्जातं मृतान्सृजति कुत्रचित् ॥ ७७ ॥

ददर्श चिन्तयन्काव्य इति तस्मिन्रणे भवः
जीवयन्तं रणे दैत्यान्धावन्तं वेगवत्तरम् ॥ ७८ ॥

ततः क्रुद्धो महादेवः शुक्रं हन्तुं मनो दधे
त्रिशूलिनमनुज्ञाय रहश्चोवाच तं कविः ॥ ७९ ॥

ब्राह्मणोऽहं कथं हंसि सर्वविद्याविशारदम्
ब्रह्महत्या मयि हते तव रुद्र भविष्यति ॥ ८० ॥

इति श्रुत्वा कवेर्वाक्यं शूलं तत्याज शङ्करः
स्मृत्वा तत्पूर्ववृत्तान्तं यल्लग्नं ब्रह्मणः शिरः ॥ ८१ ॥

ब्राह्मणो न हि हन्तव्यो हरन्प्राणानपि प्रियान्
अयं तु जीवयन्दैत्यान्निग्राह्यः सर्वथा मया ॥ ८२ ॥

तस्मादेनं क्षिपाम्याशु स्त्रीयोनौ दैत्यजीवनम्
एवमुक्तवतः शम्भोस्तृतीयनयनाद्द्रुतम् ॥ ८३ ॥

कृत्या विवासा चात्युग्रा मुक्तकेशी महोदरा
स्थूललम्बस्तनी योनी दंष्ट्रालोचनभीषणा ॥ ८४ ॥

आज्ञापयेति स तया प्रोक्तस्तामब्रवीच्छिवः
कृत्ये त्वं दानवाचार्यं स्वयोनौ क्षिप दुर्मतिम् ॥ ८५ ॥

यावज्जालन्धरं हन्मि तावदेनं भगे वह
हते जालन्धरे दैत्ये पश्चान्निस्तीर्य मोचय ॥ ८६ ॥

हरेणोक्तेति सा कृत्या भार्गवं समधावत
पपात भूमौ तां दृष्ट्वा कविर्दैत्याः प्रदुद्रुवुः ॥ ८७ ॥

केशेष्वाकृष्य धुन्वाना नग्नमालिङ्ग्य भार्गवम्
योनौ दधार सा कृत्या हसन्ती जयनन्दन ॥ ८८ ॥

भगे क्षिप्तं गुरुं दृष्ट्वा यावज्जालन्धरोऽसुरः
सन्दधे मार्गणांस्तावत्सा कृत्यादृश्यतां गता ॥ ८९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशतसहस्रसंहितायां युधिष्ठिरनारदसम्वादे जालन्धरोपाख्याने शुक्रयोनिप्रवेशोनाम सप्तदशोऽध्यायः १७