युधिष्ठिर उवाच
विश्वास-प्रस्तुतिः
कथं जालन्धरो गौरीं हररूपधरो मुने
दृष्ट्वा चकार किं तत्र तन्मे कथय विस्तरात् ॥ १ ॥
मूलम्

नारद उवाच-
यदा मायाशिवस्तत्र प्रार्थयद्गिरिजां प्रति
ततः सा चुक्षुभे राजन्किञ्चिन्नोवाच तं प्रति ॥ २ ॥

अनातुरस्य देवस्य प्राप्तस्य तपसा मया
न युक्तमिति निश्चित्य पार्वती नाह तं नृप ॥ ३ ॥

सा न तत्र प्रतीकारं दृष्ट्वा तस्य च पश्यतः
निर्गता तत उत्थाय ददर्शाकाशवाहिनीम् ॥ ४ ॥

गङ्गां वासोचितां मत्वा भवानी तपसे ययौ
पुरापि तपसा लब्धो मयेशः साम्प्रतं तथा ॥ ५ ॥

इत्यव्रजच्चिन्तयती सखीभिः सहिता ततः
पुरः क्षीरनिभां राजन्पार्वती गगनात्परम् ॥ ६ ॥

मन्दाकिनीं ददर्शाथ पतन्तीं मानसोत्तरे
हारमालामिवायान्तीं विविक्तां गगनस्रजः ॥ ७ ॥

मन्दाकिन्याः पयःपूरो ह्याकृष्टः स्वर्गतो यथा
श्रुतीनां पूरधारेव ब्रह्मणो वदनच्युता ॥ ८ ॥

दृष्ट्वा मुमोद तां गङ्गां स्नात्वा चालिसमन्विता
सम्पूज्य स्वतनुं पश्चान्निविष्टा स्वर्णदीतटे ॥ ९ ॥

परस्परमथालोक्य गौरी प्राह सखीं जयाम्
त्वं गच्छ मद्वपुः कृत्वा तत्समीपं सखी त्वरा ॥ १० ॥

जानीहि तत्वं किं शम्भुर्यदि वान्यो भविष्यति
यद्यसौ त्वां समालिङ्ग्य कुरुते चुम्बनादिकम् ॥ ११ ॥

तदा मायां समास्थाय जानीह्यसुरमागतम्
यदि चेत्त्वां प्रतिब्रूयान्मन्निमित्तं शुभाशुभम् ॥ १२ ॥

असंशयं पिनाकी स्यादत्रागत्य ब्रवीहि माम्
इत्यादिष्टा जया देव्या गता गङ्गाधरान्तिकम् ॥ १३ ॥

तामायान्तीं स दृष्ट्वा च भृशं मन्मथपीडितः
चकारालिङ्गनं तस्या गौरीरूपेण भावयन् ॥ १४ ॥

ततो जालन्धरः सद्यो वीर्यं स्वं प्रमुमोचह
अल्पेन्द्रियश्च सञ्जातो वेगतः कुरुनन्दन ॥ १५ ॥

तया सप्रोदितो दैत्य न त्वं रुद्रो भविष्यसि
अल्पवीर्योऽधमाचारो नाहं गौरी हि तत्सखी ॥ १६ ॥

इत्युक्त्वा निजमास्थाय रूपं सा प्राह तं पुनः
अनेन बत पापेन हतस्त्वं हि पिनाकिना ॥ १७ ॥

इति ज्ञात्वा च सा प्राप्ता तत्र गत्वाब्रवीदुमाम्
देवि जालन्धरो ह्येष न शम्भुस्तव वल्लभः ॥ १८ ॥

ततो भयार्ता हरवल्लभाभूद्द्रुतं विवेशाथ सरोजमध्ये
सख्यो भ्रमर्यः कमलेषु जाता भयेन जालन्धरजेन राजन् ॥ १९ ॥

अत्रान्तरे वनगतामदृष्ट्वा तां नृपाङ्गनाम्
भीतास्तु रक्षकास्तस्याः सत्वरं रणमाययुः ॥ २० ॥

ततः शुम्भेन ते पृष्टास्तं नत्वोचुः ससाध्वसाः
आत्मनः परिहारार्थो विष्णुमित्यसुरेश्वरम् ॥ २१ ॥

श्रुत्वा वृन्दां हृतां त्रस्तो रुद्रात्त्यक्त्वाथ सङ्गरम्
शुम्भेन प्रेषितौ चण्डमुण्डौ जालन्धरं प्रति ॥ २२ ॥

मानसोत्तरमागत्य दानवौ वेगवत्तरौ
हररूपधरं दैत्यं ऊचतुर्विटपान्तरे ॥ २३ ॥
मूलम्
मानसोत्तरमागत्य दानवौ वेगवत्तरौ
हररूपधरं दैत्यं ऊचतुर्विटपान्तरे ॥ २३ ॥
विश्वास-प्रस्तुतिः
किं तया नृपशार्दूल विदेशगतया श्रिया
अरयो यां न पश्यन्ति बन्धुभिर्या न भुज्यते ॥ २४ ॥

जितः शुम्भो हतं सैन्यं देव रुद्रेण ते रणे
एह्येहि कुरु सङ्ग्रामं न त्वं प्राप्नोषि पार्वतीम् ॥ २५ ॥

पञ्चाननस्य महिषीं कथं प्राप्नोति जम्बुकः
अन्धकारः कथं राजन्प्राप्नोति सवितुः प्रभाम् ॥ २६ ॥

तव जालन्धरात्पीठाद्धृता राज्ञी मुरारिणा
इति संश्रूयते वार्ता तस्मात्त्वं कुरु सङ्गरम् ॥ २७ ॥

रणे शर्वं विजित्याशु भव सर्वेश्वरेश्वरः
अथवा शिवनाराचैः खण्डितो यासि तत्पदम् ॥ २८ ॥

इति जालन्धरः श्रुत्वा भाषितं चण्डमुण्डयोः
निःससार गिरेस्तस्मात्सक्रोधं रक्तलोचनः ॥ २९ ॥

चण्डमुण्डौ समाश्वास्य त्यक्त्वा रूपं हरस्य च
गच्छञ्जालन्धरो मार्गे दुर्वारणमुवाच ह ॥ ३० ॥

पश्य दुर्वारणेदानीं तत्र यद्विष्णुना कृतम्
मायामाश्रित्य सा राज्ञी वृन्दा नीतात्मनः पदम् ॥ ३१ ॥

गृहे स्थितस्य जामातुर्विश्वसेन्नैव बुद्धिमान्
नूनं तस्मै प्रदत्वा च कन्यकां विसृजेद्बुधः ॥ ३२ ॥

जामातरं गृहे नैव स्थापयेत्सर्वथा नरः
धनदारादिकं सर्वं स गृह्णाति शनैः शनैः ॥ ३३ ॥

दुर्वारण उवाच-
राजन्यत्क्रियते कर्म तत्तथैव तु भुज्यते
त्वं हर्तुमागतो गौरीं हरिणा ते हृता वधूः
तस्य स्पष्टं वचः श्रुत्वा क्षणं मौनी व्यचिन्तयत् ॥ ३४ ॥

जालन्धर उवाच-
किं प्रयामि हरं जेतुमथवा हरिमुल्बणम्
कार्यद्वये समुत्पन्ने यत्परं तत्प्रकथ्यताम् ॥ ३५ ॥

यदि यासि हरिं जेतुं हरः पृष्ठे हनिष्यति
हनिष्यन्ति रणे शूरा यातुं रुद्रो न दास्यति ॥ ३६ ॥

तस्मात्पशुपतिं जित्वा कृत्वा त्वं वश्यमात्मनः
पश्चात्प्रयाहि गोविन्दं यदि जानासि तत्पदम् ॥ ३७ ॥

अधुना सत्वरं वीर याहि दैत्यान्महाबलान्
रणं कुरु महाघोरं यथा स्वर्गे सुपच्यते ॥ ३८ ॥

देशकालोचितं श्रुत्वा दुर्वारणवचस्तदा
ययौ जालन्धरो योद्धुं सह रुद्रेण योगिना ॥ ३९ ॥

इति श्रीपाद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशत्सहस्रसंहितायां जालन्धरोपाख्याने जालन्धरस्य मायारूपपरित्यागोनाम षोडशोऽध्यायः १६