नारदउवाच-
विश्वास-प्रस्तुतिः
नारायणस्तदा देवो जटावल्कलधार्यथ
द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान् ॥ १ ॥
मूलम्

तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा
तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ ॥ २ ॥

भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ
वने घोरे प्रविष्टासि कथं दुष्टनिषेविते ॥ ३ ॥

एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः
मुञ्चेमामधमाचार मृद्वङ्गीं चारुहासिनीम् ॥ ४ ॥

रेरे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः
सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः ॥ ५ ॥

भव पुण्यप्रभावेयं हंस्येतां मण्डनं भुवः
अद्यलोकं निरालोकं कन्दर्पं दर्पवर्जितम् ॥ ६ ॥

करिष्यस्यधुना त्वं च हत्वा वृन्दारिकां वने
तस्मादिमां विमुञ्चाशु सुखप्रासाददेवताम् ॥ ७ ॥

इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत्
समर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात् ॥ ८ ॥

इत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः
पपात भस्मसाद्भूतस्त्यक्त्वा वृन्दां सुदूरतः ॥ ९ ॥

अथोवाच प्रमुग्धा सा मायया जगदीशितुः
कस्त्वं कारुण्यजलधिर्येनाहमिह रक्षिता ॥ १० ॥

शारीरं मानसं दुःखं सतापं तपसां निधे
त्वया मधुरया वाचा हृतं राक्षसनाशनात् ॥ ११ ॥

तवाश्रमे तपः सौम्य करिष्यामि तपोधन ॥ १२ ॥

तापस उवाच-
भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः
विहाय भोगानखिलान्वनं घोरमुपागतः ॥ १३ ॥
मूलम्
तापस उवाच-
भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः
विहाय भोगानखिलान्वनं घोरमुपागतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
अनेन बटुनासार्धं मम शिष्येण कामगाः
बहुशः सन्ति चान्येऽपि मच्छिष्याः कामरूपिणः ॥ १४ ॥

त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपः शुभे
एहि राज्ञ्यपरं यामो वनं दूरस्थितं यतः ॥ १५ ॥

इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः
वनं प्रेतपिशाचाढ्यं मन्दगत्या नराधिप ॥ १६ ॥

वृन्दारिकाश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ
स्मरदूती च तत्पृष्ठे मां प्रतीक्षेति वादिनी ॥ १७ ॥

अत्रान्तरे दुराचारः कोपि पापाकृतिर्वने
जालं प्रसारयामास तद्यदा जीवपूरितम् ॥ १८ ॥

ततः सङ्कोचयामास तज्जालं पापनायकः
जालस्थांस्तु तदा जीवानुपाहृत्य मुमोच ह ॥ १९ ॥

स च व्याधः स्त्रियौ दृष्ट्वा स्मरदूती जगाद ताम्
देवि मामत्तुमायाति करे गृह्णातु मां सखी ॥ २० ॥

वृन्दा तयोक्तं श्रुत्वैनं विकृतास्यं व्यलोकयत्
वीक्ष्यतं भयवातेन निर्धूता सिन्धुजप्रिया ॥ २१ ॥

दुद्राव विकलं शुभ्रं स्मरदूत्या समं वने
विद्रवन्ती समं सख्या तापसाश्रममागता ॥ २२ ॥

सा तापसवने तस्मिन्ददर्शात्यन्तमद्भुतम्
पक्षिणः काञ्चनीयाङ्गान्नानाशब्दसमाकुलान् ॥ २३ ॥

सापश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकाम्
क्षीरं वहन्ति सरितः स्रवन्ति मधु भूरुहः ॥ २४ ॥

शर्कराराशयस्तत्र मोदकानां च सञ्चयाः
भक्ष्याणि स्वादुसर्वाणि बहून्याभरणानि च ॥ २५ ॥

बहुशस्त्राणि दिव्यानि नभसः सम्पतन्ति च
क्रीडन्ति हरयस्तृप्ता उत्पतन्ति पतन्ति च ॥ २६ ॥

मठेति सुन्दरं वृन्दा तं ददर्श तपस्विनम्
व्याघ्रचर्मासनगतं भासयन्तं जगत्त्रयम् ॥ २७ ॥

तमुवाच विभो पाहि पाहि पापर्द्धिकादथ
तपसा किं च धर्मेण मौनेन च जपेन च ॥ २८ ॥
मूलम्
तमुवाच विभो पाहि पाहि पापर्द्धिकादथ
तपसा किं च धर्मेण मौनेन च जपेन च ॥ २८ ॥
विश्वास-प्रस्तुतिः
भीतत्राणात्परं नान्यत्पुण्यमस्ति तपोधन
एवमुक्तवती भीता सालसाङ्गी तपस्विनम् ॥ २९ ॥

तावत्प्राप्तः सदुष्टात्मा सर्वजीवप्रबन्धकः
वृन्दादेवी भयत्रस्ता हरिकण्ठे समाश्लिषत् ॥ ३० ॥

सुखस्पर्शं भुजाभ्यां सा शोकवल्लीव लिङ्गिता
तवालिङ्गनभावेन पुनरेव भविष्यति ॥ ३१ ॥

शिरः सर्वाङ्गसम्पन्नं त्वद्भर्तुरधिकं गुणैः
अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकाम् ॥ ३२ ॥

सा चित्रशालामित्युक्ता विवेश मुनिना तदा
दिव्यपर्यङ्कमारूढा गृह्य कान्तस्य तच्छिरः ॥ ३३ ॥

चकाराधरपानं सा मीलिताक्ष्यतिलोलुपा
यावत्तावदभूद्राजन्रूपं जालन्धराकृति ॥ ३४ ॥

तत्कान्तसदृशाकारस्तद्वक्षस्तद्वदुन्नतिः
तद्वाक्यस्तन्मनोभावस्तदासीज्जगदीश्वरः ॥ ३५ ॥

अथ सम्पूर्णकायं तं प्रियं वीक्ष्य जगाद सा
तव कुर्वे प्रियं स्वामिन्ब्रूहि त्वं स्वरणं च मे ॥ ३६ ॥

वृन्दावचनमाकर्ण्य प्राह मायासमुद्रजः
शृणु देवि यथा युद्धं वृत्तं शम्भोर्मया सह ॥ ३७ ॥

प्रिये रुद्रेण रौद्रेण छिन्नं चक्रेण मे शिरः
तावत्वत्सिद्धियोगाच्च त्वद्गतेन ममात्मना ॥ ३८ ॥

छिन्नं तदत्र चानीतं जीवितं तेङ्गसङ्गतः
प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता ॥ ३९ ॥

क्षन्तव्यं विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः
इत्यादि वचनैस्तेन वृन्दा संस्मारिता तदा ॥ ४० ॥

ताम्बूलैश्च विनोदैश्च वस्त्रालङ्करणैः शुभैः
अथ वृन्दारिका देवी सर्वभोगसमन्विता ॥ ४१ ॥

प्रियं गाढं समालिङ्ग्य चुचुम्ब रतिलोलुपा
मोक्षादप्यधिकं सौख्यं वृन्दा मोहनसम्भवम् ॥ ४२ ॥

मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम्
वृन्दां वियोगजं दुःखं विनोदयति माधवे ॥ ४३ ॥

तत्क्रीडाचारुविलसद्वापिका राजहंसके
तद्रूपभावात्कृष्णोऽसौ पद्मायां विगतस्पृहः ॥ ४४ ॥

अभूद्वृन्दावने तस्मिंस्तुलसीरूप धारिणी
वृन्दाङ्गस्वेदतो भूम्यां प्रादुर्भूताति पावनी ॥ ४५ ॥

वृन्दाङ्ग सङ्गजं चेदमनुभूय सुङ्खं हरिः
दिनानि कतिचिन्मेने शिवकार्यं जगत्पतिः ॥ ४६ ॥

एकदा सुरतस्यान्ते सा स्वकण्ठे तपस्विनम्
वृन्दा ददर्श संलग्नं द्विभुजं पुरुषोत्तमम् ॥ ४७ ॥

तं दृष्ट्वा प्राह सा कण्ठाद्विमुच्य भुजबन्धनम्
कथं तापसरूपेण त्वं मां मोहितुमागतः ॥ ४८ ॥

निशम्य वचनं तस्याः सान्त्वयन्प्राह तां हरिः
शृणु वृन्दारिके त्वं मां विद्धि लक्ष्मीमनोहरम् ॥ ४९ ॥

तव भर्ता हरं जेतुं गौरीमानयितुं गतः
अहं शिवः शिवश्चाहं पृथक्त्वे न व्यवस्थितौ 6.15.॥ ५० ॥

जालन्धरो हतः सङ्ख्ये भज मामधुनानघे
नारद उवाच-
इति विष्णोर्वचः श्रुत्वा विषण्णवदनाभवत्
ततो वृन्दारिका राजन्कुपिता प्रत्युवाच ह ॥ ५१ ॥

रणे बद्धोऽसि येन त्वं जीवन्मुक्तः पितुर्गिरा
विविधैः सत्कृतो रत्नैर्युक्तं तस्य हृता वधूः ॥ ५२ ॥

पतिर्धर्मस्य यो नित्यं परदाररतः कथम्
ईश्वरोऽपि कृतं भुङ्क्ते कर्मेत्याहुर्मनीषिणः ॥ ५३ ॥

अहं मोहं यथानीता त्वया माया तपस्विना
तथा तव वधूं माया तपस्वीकोऽपि नेष्यति ॥ ५४ ॥

इति शप्तस्तथा विष्णुर्जगामादृश्यतां क्षणात्
सा चित्रशालापर्यङ्कः स च तेऽथप्लवङ्गमाः ॥ ५५ ॥

नष्टं सर्वं हरौ याते वनं शून्यं विलोक्य सा
वृन्दा प्राह सखीं प्राप्य जिह्मं तद्विष्णुना कृतम् ॥ ५६ ॥

त्यक्तं पुरं गतं राज्यं कान्तः सन्देहतां गतः
अहं वने विदित्वैतत्क्व यामि विधिनिर्मिता ॥ ५७ ॥

मनोरथानां विषयमभून्मे प्रियदर्शनम्
प्राह निःश्वस्य चैवोष्णं राज्ञी वृन्दातिदुःखिता ॥ ५८ ॥

मम प्राप्तं हि मरणं त्वया हि स्मरदूतिके
इत्युक्ता सा तया प्राह मम त्वं प्राणरूपिणी ॥ ५९ ॥

तस्यास्तथोक्तमाकर्ण्य इतिकर्त्तव्यतां ततः
वने निश्चित्य सा वृन्दा गत्वा तत्र महत्सरः ॥ ६० ॥

विहाय दुःखमकरोद्गात्रक्षालनमम्बुना
तीरे पद्मासनं बद्ध्वा कृत्वा निर्विषयं मनः ॥ ६१ ॥

शोषयामास देहं स्वं विष्णुसङ्गेन दूषितम्
तपश्चचारसात्युग्रं निराहारा सखीसमम् ॥ ६२ ॥

गन्धर्वलोकतो वृन्दामथागत्याप्सरोगणः
प्राह याहीति कल्याणि स्वर्गं मा त्यज विग्रहम् ॥ ६३ ॥

गान्धर्वं शस्त्रमेतत्त्रिभुवनविजयं श्रीपतिस्तोषमग्र्यं
नीतो येनेह वृन्दे त्यजसि कथमिदं तद्वपुः प्राप्तकामम्
कान्तं ते विद्धि शूलिप्रवरशरहतं पुण्यलाभस्य भूषास्वर्गस्य त्वं
भवाद्य द्रुतममरवनं चण्डिभद्रे भज त्वम् ॥ ६४ ॥

श्रुत्वा शास्त्रं वधूनां जलधिजदयिता वाक्यमाह प्रहस्य
स्वर्गादाहृत्य मुक्तात्रिदशपति वधूश्चातिवीरेण पत्या
आदौ पात्रं सुखानामहममरजिता प्रेयसा तद्वियुक्तानिर्दुष्टा तद्य
तिष्ये प्रियममृतगतं प्राप्नुयां येन चैव ॥ ६५ ॥

इत्युक्त्वा ससखी वृन्दा विससर्जाप्सरोगणान्
तत्प्रीतिपाशबद्धास्ता नित्यमायान्ति यान्ति च ॥ ६६ ॥

योगाभ्यासेन वृन्दाथ दग्ध्वा ज्ञानाग्निना गुणान्
विषयेभ्यः समाहृत्य मनः प्राप ततः परम् ॥ ६७ ॥

दृष्ट्वा वृन्दारिकां तत्र महान्तश्चाप्सरोगणाः
तुष्टुवुर्नभसस्तुष्टा ववृषुः पुष्पवृष्टिभिः ॥ ६८ ॥

शुष्ककाष्ठचयं कृत्वा तत्र वृन्दाकलेवरम्
निधायाग्निं च प्रज्वाल्य स्मरदूती विवेश तम् ॥ ६९ ॥

दग्धं वृन्दाङ्गरजसां बिम्बं तद्गोलकात्मकम्
कृत्वा तद्भस्मनः शेषं मन्दाकिन्यां विचिक्षिपुः ॥ ७० ॥

यत्र वृन्दा परित्यज्य देहं ब्रह्मपथं गता
आसीद्वृन्दावनं तत्र गोवर्द्धनसमीपतः ॥ ७१ ॥

देव्योऽथ स्वर्गमेत्य त्रिदशपतिवधूसत्त्वसम्पत्तिमाहुर्देवीभ्यस्तन्निशम्य प्रमुदितमनसो निर्जराद्याश्च सर्वे
शत्रोर्दैत्यस्य हित्वा प्रबलतरभयं भीमभेर्यो निजघ्नुः श्रुत्वा तत्रासनस्थः
परिजननिवहोवापशोभां शुभस्य ॥ ७२ ॥

इति श्रीपाद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशतसहस्रसंहितायां जालन्धरोपाख्याने वृन्दाया ब्रह्मपदप्राप्तिर्नाम पञ्चदशोऽध्यायः १५