०१४

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

इति मायामहेशेन मोहिता गिरिजा यदा
अतः किं समभूद्ब्रह्मन्तन्ममाख्यातुमर्हसि ॥ १ ॥

मूलम्

नारद उवाच-
क्षीराब्धौ तु शयानस्य चुक्षोभ हृदयं हरेः
अकस्मादेव राजेन्द्र नयनेऽश्रुपरिप्लुते ॥ २ ॥

दृष्ट्वा तन्महदुत्पातलक्षणं भगवांस्ततः
उत्थाय शेषपर्यङ्कान्मां च वायुं विलोक्य च ॥ ३ ॥

किं कार्यमिति गोविन्दस्तन्नागारिमथास्मरत्
स चाग्रे स्मृतिमात्रेण तस्थौ बद्धाञ्जलिः प्रभो ॥ ४ ॥

विनतानन्दनं दृष्ट्वा पुरतः प्राह केशवः
सुपर्ण तत्र गच्छ त्वं यत्र युद्धं प्रवर्तते ॥ ५ ॥

हतो जालन्धरो वीरो हरो वा तेन मोहितः
दृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलम् ॥ ६ ॥

जालन्धरेशयोर्युद्धं द्रष्टुं शक्तस्त्वमेव हि
कोऽन्यो महाहवे तस्मिन्ज्ञात्वा याति शरीरवान् ॥ ७ ॥

कदाचिद्दुर्गमं तत्र युद्धं शस्त्रास्त्रवृष्टिभिः
अथ त्वं बाणसञ्चारं गत्वापि हितविग्रहः ॥ ८ ॥

सन्दृष्ट्वा पार्वतीवृत्तिं शीघ्रमायातुमर्हसि
दैत्यमायानिरासार्थं विचिन्त्य भगवांस्त्वरन् ॥ ९ ॥

गुटिकां सर्वसिद्धां च गरुडाय ददौ हरिः
अनया न भ्रमो वीर तथेत्युक्त्वा मुखेक्षिपत् ॥ १० ॥

एवं सम्प्रेरितः पत्री हरिं कृत्वा प्रदक्षिणम्
निश्चक्राम खमाविश्य जगामाद्भुतवेगवान् ॥ ११ ॥

तत्र गत्वा रणं घोरं दैत्यसङ्घैः स दुःसहम्
दृष्टवानखिलेनासौ न किञ्चिज्ज्ञातवान्किल ॥ १२ ॥

तस्मादुत्पत्य वेगेन गतोऽसौ मानसोत्तरम्
शैलं तुङ्गतरं दुर्गमगम्यं मरुतामपि ॥ १३ ॥

विलोकयन्न ददृशे गौरीस्थानं पतङ्गराट्
तत्रागत्य भुजङ्गारिर्ध्वनिं संश्रुतवान्किल ॥ १४ ॥

गत्वा समीपे ददृशे मायापशुपतिं ततः
गरुडो गुटिकां क्षिप्य मुखेन भ्रममाप सः ॥ १५ ॥

ज्ञात्वा बुद्ध्वाथ दैत्योऽयमिति नायं वृषध्वजः
हा कष्टमिति चोक्त्वा च रुदन्नागत्य चार्णवम् ॥ १६ ॥

कथयामास वृत्तान्तं पुरतः कैटभद्विषः
देव जालन्धरेणायं हरो देवो विडम्बितः ॥ १७ ॥

उमा प्रतारिता तेन पापेन छद्मरूपिणा
सुरस्त्वं यदि गोविन्द समरं प्रतियाह्यतः ॥ १८ ॥

मायायुद्धं तु देवेश कुरु जालन्धरं प्रति
तस्य राज्ञी मया दृष्टा पीठे जालन्धरे शुभे ॥ १९ ॥

प्रासादभूम्यां क्रीडन्ती वाद्यगीतादिवर्त्तनैः
सा सुन्दरतरा गौर्या रम्भोर्वश्योः शतादपि ॥ २० ॥

नेदानीं मानुषे लोके न पातालेषु तत्समा
भार्या तेन समा वेश्या नारीणां का कथा हरे ॥ २१ ॥

यस्तां स्पृशति देहेन सकृतार्थः पुमान्भवेत्
तव श्यालकपत्नी च हर त्वं तां रम प्रियाम्
शङ्करस्योपकारं च कुरु चैवात्मनः सुखम् ॥ २२ ॥

श्रुत्वा तार्क्ष्यस्य वचनं तं निर्भर्त्स्य रमाप्रियः
सम्यग्व्यवस्य चोपायं विससर्ज द्रुतं द्विजम् ॥ २३ ॥

श्रियम्पतार्य्य सञ्छाद्य मञ्चके पीतवाससा
निर्गतोऽन्येन रूपेण योगि मायाबलेन च ॥ २४ ॥

वृन्दारिकानुरागेण मोहितो मधुसूदनः
दृष्ट्वा हरिं तु गच्छन्तं प्रतिछन्नं युधिष्ठिर ॥ २५ ॥

शेषोप्यन्यतमेनासौ रूपेणागत्य केशवम्
जगाद भक्त्या त्वं तिष्ठ ममानुज्ञातुमर्हसि ॥ २६ ॥

किं करोमि क्व गच्छामि ब्रूहि कार्यं जनार्दन
सदा तव मुखं दृष्ट्वा भोक्ष्यामीति भवेत्सुखम् ॥ २७ ॥

श्रीभगवानुवाच-
जालन्धरस्त्रियं रम्यां हरिष्ये हरकारणात्
पार्वत्याश्चोपकाराय सञ्छाद्य स्वात्मनस्तनुम् ॥ २८ ॥

एहि यामो वयं बन्धो कान्तारं दुरतिक्रमम्
वृन्दाकर्षणसिद्ध्यर्थमित्युक्त्वा तौ वनं गतौ ॥ २९ ॥

ततो विष्णुश्च शेषश्च जटावल्कलधारिणौ
आश्रमं चक्रतुः पुण्यं सर्वकामफलप्रदम् ॥ ३० ॥

तयोः शिष्याः प्रशिष्याश्च बभूवुः कामरूपिणः
सिंहव्याघ्रवराहाश्च ऋक्षवानरमर्कटाः ॥ ३१ ॥

अथ तस्मिन्वने वृन्दां मन्त्रेणाकर्षयद्धरिः
तस्या हृदयसन्तापं चकार मधुसूदनः ॥ ३२ ॥

एतस्मिन्नन्तरे राज्ञी तापमुग्रमुपागता
चामरांश्चालयामास दिव्यस्त्रीकरचालितान् ॥ ३३ ॥

प्रियस्यागमनं तन्वीं चिन्तयन्ती मुहुर्मुहुः
चन्दनागुरुलिप्ताङ्गी मूर्च्छां याति हि सत्वरम् ॥ ३४ ॥

तुर्ययामे विभावर्याश्चतुर्दश्यां नृपाङ्गना
स्वप्नं ददर्श भयदं वैधव्यभयसूचकम् ॥ ३५ ॥

जालन्धरशिरः शुष्कं मर्दितं पाण्डुभस्मना
गृध्रेण कृष्टनयनं छिन्नकर्णाग्रनासिकम् ॥ ३६ ॥

मुक्तकेशी करालास्या कृष्णवर्णारुणाम्बरा
चखाद काली रक्तास्या हस्ते विधृतखर्परा ॥ ३७ ॥

ईदृशं ददृशे स्वप्नं तथात्मानं विडम्बितम्
दैत्यक्षयगुणोपेतं सा ददर्श नृपाङ्गना ॥ ३८ ॥

ततः प्रबुद्धाऽसुरराजपत्नी गीतेन वाद्येन च मागधानाम्
गेयप्रबन्धैः स्तवनैर्व चोभिर्वं शस्तवैः किम्पुरुषप्रपाठितैः ॥ ३९ ॥

ततस्तान्सकलान्श्रान्तान्धनं दत्वा प्रसादजम्
निवार्य विप्रानाहूय स्वप्नं दृष्टं न्यवेदयत्
तं स्वप्नं ब्राह्मणाः श्रुत्वा तामूचुः शास्त्रपारगाः ॥ ४० ॥

द्विजा ऊचुः -
देवि दुःस्वप्नमत्युग्रमचिन्त्यं भयदायकम्
देहि दानं द्विजातिभ्यो ह्यचिन्त्य भयनाशकम् ॥ ४१ ॥

धेनुर्वासांसि रत्नानि गजांश्चाभरणानि च
ब्राह्मणाः परिसन्तुष्टाः सिषिचुस्तां नृपस्त्रियम् ॥ ४२ ॥

अभिषिक्तापि सा वृन्दा ज्वरेण परितप्यते
विसृज्य विप्रप्रवरान्प्रासादमगमत्तदा ॥ ४३ ॥

तत्र स्थितापि स्वपुरं ददृशे दीप्तमङ्गला
ततः स्वकर्मणा राजन्नाकृष्टा हरिणा तु सा ॥ ४४ ॥

न शशाक गृहे स्थातुं ततो राज्ञी वनं ययौ
रथमश्वतरीयुक्तं स्मरदूतीसखीवहम् ॥ ४५ ॥

मूलम्

न शशाक गृहे स्थातुं ततो राज्ञी वनं ययौ
रथमश्वतरीयुक्तं स्मरदूतीसखीवहम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

समारुह्य क्षणात्तन्वी प्राप्ता सौभाग्यकाननम्
नानावृक्षसमायुक्तं नानापक्षिगणान्वितम् ॥ ४६ ॥

पुष्पप्रस्रवणोपेतं स्वर्गनारीविभूषितम्
मन्दानिलप्रवेशोऽस्ति यत्र नान्यस्य कस्यचित् ॥ ४७ ॥

वनं वृन्दारिका दृष्ट्वा सस्मार पतिमात्मनः
कथं जालन्धरं वीरं द्रक्ष्यामि प्राप्तमग्रतः ॥ ४८ ॥

सा तत्र न सुखं लेभे विवेशान्यतमं वनम्
सखीरथसमायुक्ता विष्णुमायाविमोहिता ॥ ४९ ॥

ततो विलोकयामास विपिनं तरुसङ्कुलम्
उरुपाषाणसंरुद्धं कुरङ्गाक्षी भयावहम् 6.14.॥ ५० ॥

सिंहव्याघ्रभयाकीर्णंशृगालव्यालसेवितम्
द्रुमैः स्पृशच्छिखाकाशैर्गुहासु ध्वान्तपूरितम् ॥ ५१ ॥

वनं विलोक्य सा भीमं चकिता चपलेक्षणा
स्मरदूतीं सखीं वृन्दा जगाद रथवाहिनीम्
रथं प्रेषय मे शीघ्रं स्मरदूति गृहं प्रति ॥ ५२ ॥

स्मरदूतिरुवाच-
नाहं जानामि दिग्भागं न यामि क्व रथं सखि
श्रान्ता अश्व्यः प्रवर्तन्ते मार्गश्चात्र न विद्यते ॥ ५३ ॥

प्रेरितो दैवकेनापि स्यन्दनो यातु यत्र च
अत्र कोपि च मांसादो भक्षयिष्यति नान्यथा ॥ ५४ ॥

इत्युक्ता सा द्रुततरा रथं शीघ्रमवाहयत्
स रथो वेगतः प्राप्तो यत्र सिद्धा मुदान्विताः ॥ ५५ ॥

तत्र सिद्धाश्च दृश्यन्ते काननं च भयावहम्
न यत्र प्रबलो वायुर्न शब्दः पक्षिणामपि ॥ ५६ ॥

न च तेजः प्रकाशोऽस्ति न जलं प्रदिशो दिशः
तत्र प्राप्तरथस्यापि लक्षणेऽभूद्विपर्ययः ॥ ५७ ॥

अश्वतर्यो न हेषन्ते न च शब्दश्च नेमिजः
न चलन्ति पताकास्ता घण्टिका न क्वणन्ति च ॥ ५८ ॥

न स्वनन्ति महाघण्टा ध्वजस्तम्भे निवेशिताः
विलोक्यैवंविधं प्राह तत्र वृन्दा सखीं प्रति ॥ ५९ ॥

स्मरदूति क्व यास्यामो व्याघ्रसिंहभयं वनम्
न गृहे न सुखं राज्ये मम जातं वने सखि ॥ ६० ॥

मूलम्

स्मरदूति क्व यास्यामो व्याघ्रसिंहभयं वनम्
न गृहे न सुखं राज्ये मम जातं वने सखि ॥ ६० ॥

विश्वास-प्रस्तुतिः

स्मरदूतिरुवाच-
शृणुष्व देवि पश्य त्वं पुरः शैलोऽतिदारुणः
दृष्ट्वाग्रतो न गच्छन्ति तुरङ्ग्यो भयविह्वलाः ॥ ६१ ॥

तस्यास्तद्वचनं श्रुत्वा सन्त्रस्ता सा नृपाङ्गना
दृष्ट्वा हारं स्वकण्ठस्थं स्यन्दनाच्छीघ्रमुत्थिता ॥ ६२ ॥

एतस्मिन्नन्तरे प्राप्तो राक्षसो भीषणाकृतिः
त्रिपादः पञ्चहस्तश्च सप्तनेत्रोऽतिदारुणः ॥ ६३ ॥

पिङ्गलो व्याघ्रकर्णश्च सिंहस्कन्धस्तथाननः
विहङ्गेशसमाः केशा लम्बन्ते रुधिरारुणाः ॥ ६४ ॥

तं दृष्ट्वा पद्मकोशाङ्गी सहसा सभयाभवत्
नेत्रे कराभ्यामाच्छाद्य चकम्पे कदलीव सा ॥ ६५ ॥

प्रतिहारी प्रतोदं तु त्यक्त्वा राज्ञीमभाषत
भीतां मां त्राहि देवि त्वमयं धावति भक्षितुम् ॥ ६६ ॥

एतस्मिन्नन्तरे प्राप्तो राक्षसो रथसन्निधौ
रथमुत्क्षिप्य हस्तेन भ्रामयंश्चाश्विनीयुतम् ॥ ६७ ॥

सा राज्ञी पतिता भूमौ मृगी व्याघ्रभयादिव
स्मरदूती तरोर्मूले छिन्नाशोकलता यथा ॥ ६८ ॥

ततस्ताश्चाश्विनीः सर्वाः भक्षयामास राक्षसः
तेन राज्ञी धृता हस्ते सिंहेनैणवधूरिव ॥ ६९ ॥

तामुवाच ततो रक्षः प्राणैस्ते कारणं यदि
तव भर्ता हतः सङ्ख्ये हरेणेति श्रुतं मया ॥ ७० ॥

मामासाद्याद्य भर्तारं चिरञ्जीवाकुतोभया
पिबाथ वारुणीं स्वाद्वीं महामांससमन्विताम्
शृण्वन्तीति वचो राज्ञी गतसत्वा इवाभवत् ॥ ७१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे जालन्धरोपाख्याने श्रीमन्माधवमायाकथनन्नाम चतुर्दशोऽध्यायः १४