नारद उवाच-
विश्वास-प्रस्तुतिः
ततो जालन्धरः श्रुत्वा दैत्यकोलाहलं रणे
आजगाम रथारूढो यत्र देवः सदाशिवः ॥ १ ॥
मूलम्
ततो जालन्धरः श्रुत्वा दैत्यकोलाहलं रणे
आजगाम रथारूढो यत्र देवः सदाशिवः ॥ १ ॥
विश्वास-प्रस्तुतिः
सारथिं खड्गरोमाणं कोपात्सत्वरमब्रवीत्
सम्प्रेषय रथं शीघ्रं सहस्रहययोजितम् ॥ २ ॥

हन्मि तं तापसं शौर्याज्जटाभस्मास्थिभूषितम्
वृषारूढस्य का शक्तिः पङ्गोर्युद्धे मया सह ॥ ३ ॥

इत्युक्त्वा खड्गरोमाणमाभाष्य च तथोद्धतः
गृहीत्वा कार्मुकं घोरं रथेनाधावत द्रुतम् ॥ ४ ॥

तं रुरोध तदायान्तं वीरभद्रः शितैः शरैः
निरुच्छ्वासीकृतेनापि स कायेन शरैर्वृतः ॥ ५ ॥

देवैर्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः
तथापि किं कपालानि तुलां यान्ति कलानिधेः ॥ ६ ॥

विव्याध मणिभद्रोऽपि शरैः सागरनन्दनम्
पाशेन मणिभद्रं तु हत्वोवाचेश्वरं वचः ॥ ७ ॥

एहि योद्धुं महादेव शस्त्राभ्यासोऽस्ति ते यदि
त्वं मां प्रहर न त्वाहमादौ हन्मि जटाधरम् ॥ ८ ॥

इति ब्रुवन्तं तं गर्वाद्वीरभद्रोऽथ सायकैः
पूरयामास सङ्क्रुद्धो यथा पद्मं रविः करैः ॥ ९ ॥

मणिभद्रोऽथ गदया सैन्यं तस्य समाहनत्
रथोपरि रथं वीर तुरगं तुरगोपरि ॥ १० ॥
मूलम्
मणिभद्रोऽथ गदया सैन्यं तस्य समाहनत्
रथोपरि रथं वीर तुरगं तुरगोपरि ॥ १० ॥
विश्वास-प्रस्तुतिः
गजोपरि गजं हत्वा पातयामास भूतले
रक्तपङ्कारुणा भूमिः सञ्जाता दुर्गमा क्षणात् ॥ ११ ॥

शैलाच्च गणमुख्याश्च दानवाञ्जघ्नुराहवे
पतन्ति दानवाः शूरा गतप्राणा महीतले ॥ १२ ॥

रुण्डदोर्दण्डमुण्डैश्च करिपृष्ठकरोरुभिः
पतन्ति दानवाः शूरा पूरिता वसुधा नृप ॥ १३ ॥

एवंविधं रणे दृष्ट्वा हरमत्यन्तदुर्जयम्
भुवने च तथान्यानि दृष्टवाल्ँलक्षणानि सः ॥ १४ ॥

तेजोऽन्यदेवनक्षत्र शशाङ्क सकलादिषु
उद्धाटितजगत्कोशमन्यदेवरवेर्महः ॥ १५ ॥
मूलम्
तेजोऽन्यदेवनक्षत्र शशाङ्क सकलादिषु
उद्धाटितजगत्कोशमन्यदेवरवेर्महः ॥ १५ ॥
विश्वास-प्रस्तुतिः
भग्नः पुनश्चिन्तितवांस्ततो जालन्धरो नृप
न दृष्टा सा मया गौरी यां मामाहाति नारदः ॥ १६ ॥

साम्प्रतं शाश्वते स्थाने कथं द्रक्ष्याम्युमां स्थिताम्
तां हि द्रष्टुं व्रजाम्यादौ पश्चाद्योत्स्यामि शम्भुना ॥ १७ ॥

चिन्तयित्वेति मनसा दैत्यं प्राहार्णवात्मजः
शुम्भं चण्डजये वीर मम तुल्यपराक्रम ॥ १८ ॥

धृत्वा मत्सदृशं रूपं सङ्ग्रामं कर्तुमर्हसि
तव युद्धस्य भारोऽयं शिबिरस्य बलस्य च ॥ १९ ॥

अहं यास्यामि तां द्रष्टुं गौरीं मच्चित्तहारिणीम्
इत्युक्त्वाथ ददौ तस्मै स्वाङ्गादुत्तार्य मण्डनम् ॥ २० ॥

वर्मशस्त्रादिकं दत्वा रथं सारथिसंयुतम्
दुर्वारणेन सहितः सैन्यं मुक्त्वोदधेः सुतः ॥ २१ ॥

अलक्षितस्ततो गत्वा गुहां गुप्तां तु पार्थिव
मानसोत्तरशैलस्य हररूपं दधार सः ॥ २२ ॥

धृत्वा दुर्वारणे रूपं नन्दिनः सदृशं तथा
अथारुरुहतुः शैलं छद्मशङ्करनन्दिनौ ॥ २३ ॥

यत्रास्ति शिखरे गौरी सखिभिः सहिता नृप
तमायान्तं शरैर्भिन्नं स्कन्धमालम्ब्य नन्दिनः ॥ २४ ॥

रक्ताक्तमम्बरं दृष्ट्वा भवानी विस्मिताभवत्
सख्यस्तस्या जयाद्यास्ताः जग्मुस्तं सम्भ्रमान्विताः ॥ २५ ॥

शङ्करस्यान्तिकं गत्वा पप्रच्छुस्तं सुदुःखिताः
किं जातं तव देवेश केन त्वं सङ्गरे जितः ॥ २६ ॥

सशल्यस्त्वं कथं नाथ संसारीव प्ररोदिषि
इत्युक्तः प्रददौ ताभ्यो भूषणानि पृथक्पृथक् ॥ २७ ॥

उत्तार्य शनकैरङ्गात् वासुकिप्रभृतीनि च
गणेशस्कन्दशिरसीच्छिन्ने कुक्षौ विलोक्य च ॥ २८ ॥

हा स्कन्द हा गणेशेति हा रुद्रेत्यम्बिकारुदत्
तस्याः सख्यस्ततः सर्वा रुरुदुः शोककर्शिताः ॥ २९ ॥

अत्राब्रवीज्जयां नन्दी त्वमेनं परिपालय
मणिभद्रो वीरभद्रः पुष्पदन्तश्च वीर्यवान् ॥ ३० ॥

दम्भनो धूमतिमिरः कूष्माण्डाद्या रणे हताः
चण्डी भृङ्गी किरीटिश्च महाकालश्च शृङ्खली ॥ ३१ ॥

चण्डीशो गुप्तनेत्रश्च कालाद्याश्च हता रणे
विनायकस्य स्कन्दस्य शिरसी भ्रमता मया ॥ ३२ ॥

दृष्टे महारणे देवि इत्युक्त्वाथ पुरोक्षिपत्
तच्छ्रुत्वा नन्दिनो वाक्यं शिरसी गृह्य पुत्रयोः ॥ ३३ ॥

पार्वती विललापोच्चैः पुत्रपुत्रेति जल्पती
तारकारे कथं युद्धे हतस्त्वं सिन्धुसूनुना ॥ ३४ ॥

त्वं हि त्रिवासरो देवैः सेनापत्योऽभिषेचितः
तदा त्वया कथं वीर तारकाख्यो निपातितः ॥ ३५ ॥

नीलकण्ठेन किं त्यक्तो यतस्त्वं पतितो भुवि
स्नुषामुखं न दृष्टं च मया पुत्रावभाग्यया ॥ ३६ ॥

न भोगा वत्स ते भुक्ता संसारस्यापि येभवन्
तात हेरम्ब विघ्नेश लम्बोदर गजानन ॥ ३७ ॥

रणाङ्गणे केन पुत्र सिद्धैः पूज्यो निपातितः
वाहनोऽसौ कुतो वत्स मूषकः केन हिंसितः ॥ ३८ ॥

एवं विलपती गौरी शिवं प्राह सुदुःखितम्
साक्षाद्रुद्रोऽसि देवेश हरस्त्वं मा भयं कुरु ॥ ३९ ॥

वृषभः क्व गतो देव हतो जालन्धरेण वै
शरजर्जरदेहस्य किं करोमि प्रियं तव ॥ ४० ॥

ततः श्रुत्वा वचो देव्या निश्वस्योवाच शङ्करः
दीर्घं विनिहतौ पुत्रौ वृथा शोचसि किं प्रिये ॥ ४१ ॥

अधुना तेङ्गसङ्गेन देवि मां त्रातुमर्हसि
शङ्करस्य वचः श्रुत्वाऽसमयोचितमातुरम्
प्रत्युवाचाम्बिका देवं बभाषे नोचितं वचः ॥ ४२ ॥

महाविषादे पतिते भये च कृते समाधौ वमने महाज्वरे
श्राद्धे प्रयाणे गुरुवृद्धसन्निधौ रतिं बुधाः शङ्कर वर्जयन्ति ॥ ४३ ॥

कथं मां दुःखदुःखार्तां पुत्रशोकेन पीडिताम्
म्लानां बाष्पपरिम्लानां सम्प्रार्थयसि चातुराम् ॥ ४४ ॥

भवान्या इति वाक्यानि श्रुत्वा मायामहेश्वरः
उवाच स्वार्थमुद्दिश्य गौर्यारूपेण मोहितः ॥ ४५ ॥

पुरुषस्यार्तियुक्तस्य न यच्छन्ति रतिं स्त्रियः
तथैव रौरवे घोरे पतिष्यन्ति न संशयः ॥ ४६ ॥

गणशून्यः पुत्रशून्यो धीशून्योऽहं वरानने
साम्प्रतं गृह्य शून्योऽहं सर्वशून्योऽस्मि भामिनि ॥ ४७ ॥

सुजीवितं विहीनोऽहं त्वां प्रष्टुमिह चागतः
स्वं गृहं तु प्रविश्याशु त्यजामि प्रकृतिं स्वकाम् ॥ ४८ ॥

उत्तिष्ठ नन्दिन्संयावस्तीर्थे भव पुरःसरः
त्वं याहि स्वेच्छया कान्ते प्रकृतिं स्वां परित्यज ॥ ४९ ॥

इति मायामहेशस्य वचः श्रुत्वाम्बिका ततः
दीर्घं दध्यो महाश्वासं शोकेन च जडीकृता 6.13.॥ ५० ॥

तस्यैवं परमे क्षोभे किञ्चिन्नोवाच सा क्षणम्
यया सम्मोहितं सर्वं जगत्स्थावरजङ्गमम्
सैव सम्मोहिता तेन न जाने दुःखमात्मनः ॥ ५१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशतसहस्रसंहितायां उत्तरखण्डे युधिष्ठिरनारदसम्वादे जालन्धरमायामहेशागमनन्नाम त्रयोदशोऽध्यायः १३