नारद उवाच-
विश्वास-प्रस्तुतिः
दैत्यसैन्यं हतं दृष्ट्वा गणैर्नन्दिपुरोगमैः
क्रुद्धाः शुम्भादयो दैत्याः समाजग्मुर्गणान्प्रति ॥ १ ॥
मूलम्

ततः शुम्भो महादैत्यो नन्दिनं प्रत्ययुध्यत
महाकालं निशुम्भोऽथ कालो लोकेश्वरं रणे ॥ २ ॥

पुष्पदन्तं शैलरोमा माल्यवन्तं महाबलः
कोलाहलो रणे राजन्प्राप्तो मायाबलेन च ॥ ३ ॥

चण्डं भयानको नाम राहुः स्कन्दमधावत
कूष्माण्डं सर्परोमा च घर्घरो मदनं तथा ॥ ४ ॥

शुभं केतुमुखो हन्तुं ययौ जम्भो विनायकम्
हासं पातालकेतुश्च भृङ्गीशं रोमकण्टकः ॥ ५ ॥

युयुधुः कोटिशो रुद्रगणा दैत्याः परस्परम्
पश्यतोरुभयोस्तत्र स्वामिनोरिति ते युधि ॥ ६ ॥

दृढप्रहारिणो जघ्नुर्गणा दैत्याः शरैरथ
नन्दी मुमोच तान्बाणान्महासारो यथा नगे ॥ ७ ॥

ततः सम्पूरयामास मुखं शुम्भस्य पत्रिभिः
यथा पर्णचयैर्वातो मन्दरस्येव कन्दरम् ॥ ८ ॥

शुम्भोऽथ कार्मुकं त्यक्त्वा रथात्तं प्रत्यधावत
उत्पाट्य च गिरिं तेन जघान हृदि नन्दिनः ॥ ९ ॥

नन्दिनो हृदयं भित्त्वा चूर्णयित्वा रथं रणे
पपात भूमौ स गिरिर्वज्रं प्राप्य गिरिं यथा ॥ १० ॥

मूर्च्छां प्राप्य क्षणात्सञ्ज्ञां वेगवान्स पलायितः
महाकालो निशुम्भेन मुद्गरेण हतो हृदि ॥ ११ ॥

आगत्य दैत्यं गदया जघान मुकुटोपरि
तत्प्रहारमचिन्त्याथ निशुम्भोऽपि महाबलः ॥ १२ ॥

तं गृहीत्वा चरणयोर्महाकालं महाबलः
भ्रामयित्वा करतलाच्चिक्षेप च ननाद च ॥ १३ ॥

स तद्वक्त्रानिलं पीत्वा ननाद रुधिरारुणः
पुष्पदन्तः शैलरोम्णा चाहतो मुष्टिना मुखे ॥ १४ ॥

गदया शैलरोमाणं हत्वा भूमौ न्यपातयत्
तं दृष्ट्वा पतितं भूमौ गिरिकेतुर्महाबलः ॥ १५ ॥

पुष्पदन्तं महाभीमं मुद्गरेण व्यपोथयत्
पुष्पन्दन्तोऽथ खड्गेन गिरिकेतोः शिरोऽछिनत् ॥ १६ ॥

गृहीत्वा चर्म खड्गं च गिरिकेतोरधावत
शिरस्तं प्राह किं यासि मां त्यक्त्वा समरार्थिनम् ॥ १७ ॥

शिरोहीने च कायेऽस्मिन्किं तु धावन्न लज्जसे
इत्युक्ते शिरसा तेन कबन्धेन तु पादयोः ॥ १८ ॥

विधृतः पुष्पदन्तश्च कुक्षौ तीक्ष्णासिनाच्छिनत्
निश्चक्रामासुरः कुक्षेः शतशीर्षो महाबलः ॥ १९ ॥

द्विशताक्षिसमायुक्तः शतद्वयभुजाकुलः
भ्रमत्तस्य शिरो राजन्कबन्धोपान्तमागमत् ॥ २० ॥

तच्छिरः प्राप्तमालोक्य पुष्पदन्तोऽसिनाच्छिनत्
ततो भूकम्पनो नाम ज्वरो दैत्यो भयावहः ॥ २१ ॥

पुष्पन्दन्तस्तदा तत्र द्वाभ्यां राजन्विमर्दितः
ज्वरेण तेन च क्लिष्टो दुःसहेनातिवेगिना ॥ २२ ॥

त्यक्त्वा शिवगणः सङ्ख्यं कम्पमानो गिरिं ययौ
कोलाहलो महाधन्वी माल्यवन्तं शरैस्त्रिभिः ॥ २३ ॥

विव्याध स्कन्धयोर्भाले माल्यवांश्च ततोऽसुरम्
बाणाहतो माल्यवता शस्त्रैर्नानाविधैः शितैः ॥ २४ ॥

कोलाहलः प्रहृतवान्दर्शयन्नात्मलाघवम्
सोऽपि हेति व्यथां त्यक्त्वा माल्यवांश्च गणाग्रणीः ॥ २५ ॥

गिरिं गृहीत्वा तेनाजौ कोलाहलमथाहनत्
निश्चक्राम ज्वरस्तस्माज्ज्वलनो नाम भीषणः ॥ २६ ॥

त्रिशीर्षो नवहस्तश्च नवपादोऽतिपिङ्गलः
स ज्वरो मोहयामास माल्यवन्तं स्वतेजसा ॥ २७ ॥

माल्यवान्समरं त्यक्त्वा पराक्रान्तो गिरिं ययौ
चण्डिर्भयानकेनाजौ पाशेन हृदये हतः ॥ २८ ॥

हयो विनिर्गतस्तस्मात्क्षिप्तः सोऽपि च सागरे
कार्त्तिकेयो रणे राहुं शितैर्बाणैः समाहनत् ॥ २९ ॥

आच्छाद्य शरजालैश्च शीघ्रं शक्तिं मुमोच ह
आपतन्तीं महाशक्तिं ज्वलन्तीमिव तेजसा ॥ ३० ॥

दृष्ट्वा राहुः खमुत्पत्य कराभ्यां जगृहे द्रुतम्
स तां शक्तिं गृहीत्वा तु विनद्योच्चैः पुनः पुनः ॥ ३१ ॥

स्वर्भानुः शिरसोनोपि तस्य शक्त्या जघान तम्
वक्षस्यभिहते शक्त्या तद्देहान्निर्गता सरित् ॥ ३२ ॥

तया सम्प्लावितः पुत्रो महादेवस्य संयुगे
कथञ्चित्सा नदी रुद्धा समं पूरो गिरिं ययौ ॥ ३३ ॥

श्रुत्वार्णवजो ज्वरतः कटककदम्बस्य कर्कशं विरुतम्
सुस्वरवचनविदग्धं तमपि च कोकिलापतिं न सस्मार ॥ ३४ ॥

शरैः किरन्तं दहनमसिना बर्बरोऽवधीत्
कूष्माण्डो निहतो मूर्ध्नि सर्परोम्णाथ मुष्टिना ॥ ३५ ॥

पातालकेतुना हासो मुद्गरेण समाहतः
तस्य देहाद्विनिष्क्रम्य हस्ती मुद्गरमाभुनक् ॥ ३६ ॥

शुण्डायां मुष्टिघातेन हतः पातालकेतुना
आयुधैर्जर्जरं चक्रे भृङ्गीशं रोमकण्टकः ॥ ३७ ॥

भृङ्गीशोऽपि रणाद्भीतस्त्वरन्नेव गिरिं ययौ
सहसा धूम्रवर्णश्च शुभ्रः केतुमुखेऽपतत् ॥ ३८ ॥

गणं गिलितवान्दैत्यो महाकायो महाननः
हाहाकारो महानासीद्गिलिते केतुना रणे ॥ ३९ ॥

जृम्भस्य निशितैर्बाणैश्छिन्नाङ्गोऽथ विनायकः
शुण्डादण्डं परशुना तस्य चिच्छेद दन्तिनः ॥ ४० ॥

जृम्भासुरो जघानाथ शक्त्या लम्बोदरोदरम्
मूषकोऽपि शरैर्भिन्नः प्रविवेश गुहामुखम् ॥ ४१ ॥

विनायकः प्रहारार्त्तो विललापाकुलो रणे
हा मातस्तात हा भ्रातर्हा मूषक मम प्रिय ॥ ४२ ॥

गणेशक्रन्दितं श्रुत्वा भगवत्या तया तदा
समेत्य कूटादन्यस्मात्पार्वत्योक्तः शिवस्तदा ॥ ४३ ॥

हेरम्बो वध्यते दैत्यैः स्कन्दोऽपि विनिपातितः
शिव किं क्रीडसे शैले रक्ष पुत्रौ गणानपि ॥ ४४ ॥

सदा शूलादिशस्त्राणां धृतानामद्य वै क्षणः
अथ गौर्या वचः श्रुत्वा वीरभद्रं शिवोऽब्रवीत् ॥ ४५ ॥

वृषः सज्जीयतां शीघ्रमित्युक्ते स तदाकरोत्
बबन्ध मुकुटं तस्य शृङ्गयोर्भास्करप्रभम् ॥ ४६ ॥

कण्ठे घण्टाशतं बद्ध्वा कर्णयोर्दर्पणौ धृतौ
स्कन्धे च किङ्किणीजालं चरणे नूपुरं महत् ॥ ४७ ॥

पुच्छे चामरसाहस्रं तस्य पाशाष्टकं मुखे
कल्याणी च तदा देवी शर्वपार्श्वे व्यस्थिता ॥ ४८ ॥

पाशाष्टकेन संयुक्ता तत्र खड्गधराम्बिका
न्यस्तानि सर्वशस्त्राणि स वृषः सज्जितो बभौ ॥ ४९ ॥

पार्वत्या भूषितः सोऽथ निजया घण्टमालया
कृतं च तिलकं देव्या प्रोक्तः सत्कृतिपूर्वकम् 6.12.॥ ५० ॥

हरस्त्वया न मोक्तव्यो वृषेन्द्र रणसङ्कटे
आगन्तव्यमरीन्जित्वा शम्भुना सह सङ्गरे ॥ ५१ ॥

इति श्रुत्वा वचो देव्या हरो वृषमथारुहत्
धृत्वायुधसहस्रं तु निजालङ्कारभूषितः
रणं गच्छामि तां प्राह पार्वतीं प्रति सादरम् ॥ ५२ ॥

ईश्वर उवाच-
त्वं तिष्ठसि स्वरूपाणि एकाकिन्यपि सस्पृहा
भामिनी दुरभिप्राया दानवा हि समागताः ॥ ५३ ॥

तस्मात्त्वयात्मनैवात्मा रक्षणीयो वरानने
इत्युक्त्वा वृषभारूढो ययौ रुद्रो रणाङ्गणम् ॥ ५४ ॥

त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः
वीरभद्रो रथेनाशु सिंहयुक्तेन सत्वरः ॥ ५५ ॥

वामपार्श्वं महेशस्य शूरो रक्षति पार्थिव
मणिभद्रो ऽश्वयुक्तेन रथेन परवीरहा ॥ ५६ ॥

दक्षिणं धूर्जटेः पार्श्वं संरक्षति धनुर्द्धरः
तुङ्गादुत्तीर्य शैलेन्द्राद्रणं प्राप्तो गणैः सह ॥ ५७ ॥

दृष्ट्वा जगर्जुस्ते दैत्या महेशानं वृषस्थितम्
ततो महान्निनादोऽभूद्दैत्यप्रमथसेनयोः ॥ ५८ ॥

तयोरभून्मिथो राजन्सम्प्रमर्दोऽथ दारुणः
ततो नन्दी महाकालः कालस्कन्दौ महाबलः ॥ ५९ ॥

माल्यवान्पुष्पदन्तश्च वृषली स्वर्णदन्तिकः
चण्डीशो मदनश्चण्डः कूष्माण्डो गुप्तलोमकः ॥ ६० ॥

ये ये पूर्वं रणे भग्नाः प्राप्तास्ते रणसङ्कटम्
शिवस्य पुरतो दैत्या युयुधुस्ते महाबलाः ॥ ६१ ॥

गणदानवयोधानां सङ्ग्रामोऽभूद्भयावहः
ततो गणानां विद्राव्य सैन्यं ते च महाबलाः ॥ ६२ ॥

रणे संवेष्टयामासुः शरौघैः सर्वतः शिवम्
शूलैः कुन्तैर्गदाभिश्च मुद्गरैः परिघैरपि ॥ ६३ ॥

इन्द्रियाणि यथात्मानं विषयैः पञ्चपञ्चभिः
जघानाथ रणे दैत्याञ्छम्भुर्बाणैः सुदारुणैः
यथाशु माघः पापानि हन्ति स्नानेन तत्क्षणात् ॥ ६४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चात्सहस्रसंहितायामुत्तरखण्डे नारदयुधिष्ठिरसम्वादे जालन्धरोपाख्याने श्रीमहादेवरणमागमनन्नाम द्वादशोऽध्यायः १२