नारद उवाच-
विश्वास-प्रस्तुतिः
अथ जालन्धरो दूतवचः श्रुत्वा प्रतापवान्
सर्वसैन्यं समाहूय प्रयाणमकरोत्तदा
ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः ॥ १ ॥
मूलम्

सस्त्रीन्मन्दरकन्दरेषु शयितानुत्थापयन्किन्नरान्
मेरोर्मन्दरकन्दरे प्रतिरवानुत्थापयन्वारणान्
सिहानां च ततीर्व्यमुञ्चत पुरःपन्थानमेवंविधस्त्रै
लोक्यं बधिरीचकार महतः सैन्यस्य कोलाहलः ॥ २ ॥

ततो दुन्दुभिनादोऽभूत्पीठे जालन्धरे नृप
तन्निनादेन शूराणां प्रियेण महता तदा ॥ ३ ॥

कम्पन्ति गिरयस्तुङ्गाः प्रासादा विचलन्ति च
सप्तसागरगर्भेभ्यो निःसृता दैत्यदानवाः ॥ ४ ॥

सन्नद्धाश्चातिगर्जन्ति नानावाहनसंयुताः
हेषा ययौ महानादा वाजिनां बाह्यतः पुरः ॥ ५ ॥

रथाङ्गेनाथ संहृष्टा धरां सञ्चलतेऽथवा
चालितैर्गजयूथैश्च पृथ्वी रुद्धा सकानना ॥ ६ ॥

जालन्धरेरितैर्भीमैरयुतैः स्यन्दनस्थितैः
अश्वार्बुदसहस्रे द्वे अर्बुदं दन्तिनामपि ॥ ७ ॥

रराज सैन्यलक्षैकं रथिनां सपताकिनाम्
परार्द्धनवतिः कोट्यः दृश्यन्ते मुख्यनायकाः
निर्जगाम महासैन्यं छत्रैः सञ्छाद्य भास्करम् ॥ ८ ॥

आसीत्पिञ्जरपाण्डुपङ्कजवनं श्वेतातपत्रैः क्वचित्
मायूरातपवारणैः क्वचिदभूतदुन्नीलनीलोत्पलम्
उन्मेघं क्वचिदूर्ध्वधूलिपटलैर्यस्य प्रयाणेऽभवत्
सद्वीचि क्वचिदम्बरं सर इवोत्सर्पत्पताकापटैः ॥ ९ ॥

गजवाजीमयी भूमिर्ध्वजच्छत्रमयं नभः
दिक्चक्रं चामरमयं दैत्यसैन्ये प्रसर्पति ॥ १० ॥

ततो जालन्धरो दैत्यः प्रयाणाय समुत्सुकः
स्कन्धे चारोपयन्शक्तिं नानारत्नविभूषिताम् ॥ ११ ॥

आजगाम महाविष्णुं प्रष्टुं सागरवासिनम्
अभिवाद्य जगादाथ हरिं जालन्धरस्त्विदम् ॥ १२ ॥

भोगार्थां किं प्रयच्छामि तुभ्यं भावुक कथ्यताम्
श्रुत्वा नारायणो वाक्यमब्धिजस्य मुदान्वितः ॥ १३ ॥

उवाच किं करोमीति प्रियं सिन्धुसुतेप्सितम्
इत्युक्तः स प्रहृष्टोऽथ हरिं प्रोवाच सत्वरः ॥ १४ ॥

यामि योद्धुं रणेऽहं त्वं सुखी तिष्ठेह सागरे
लक्ष्म्या दत्ताक्षतस्तत्र केशवेनाथ पूजितः ॥ १५ ॥

स निर्गत्य हरेः स्थानात्समुद्रं प्रष्टुमागतः
सोऽर्णवं प्रणिपत्याह तात यास्यामि दूरतः ॥ १६ ॥

नीलकण्ठं रणे जेतुमनुज्ञां दातुमर्हसि
पुत्रस्य वचनं श्रुत्वा यियासोः शङ्करं प्रति ॥ १७ ॥

सिन्धुराजेन सोऽप्युक्तः पुत्र तं तापसं त्यज
भुङ्क्ष्व राज्यं मया दत्तं तापसं त्यज दूरतः ॥ १८ ॥

अत्यद्भुतः प्रतापस्ते त्वत्तुल्यो नास्ति भूमिपः
स्वर्गादाधिक्यतां नीतं त्वया वत्स धरातलम् ॥ १९ ॥

तव राज्येव सुमती वैकुण्ठ इव राजते
यो देवो दुर्जयो दैत्यैरानीतः सह सश्रिया ॥ २० ॥

ममान्तिकं वत्स वस शङ्करं भिक्षुकं त्यज
एवमुक्तो ह्यर्णवेन गिरिजां प्रति रागवान् ॥ २१ ॥

पितृवाक्यमविज्ञाय आगत्य स्वभटान्स्वकान्
सज्जीभूतं तु युद्धाय वृन्दा जालन्धरं जगौ ॥ २२ ॥

वृन्दोवाच
नाथ युद्धं न कर्तव्यं राजेन्द्र कुत्सयोगिना
मनो निवर्त्यतां पश्य प्रवृत्तं पार्वतीं प्रति ॥ २३ ॥

गौरीं त्वं वाञ्छसि कस्मात्पार्वती किं ममाधिका
तपस्विनी निरालम्बा संसक्ता स्थाणवे सदा ॥ २४ ॥

सुतानुरागिणी वन्ध्या ततः कृत्रिमपुत्रिका
वृथास्तुता नारदेन तां त्यजस्व भजस्व माम् ॥ २५ ॥

इति वृन्दावचः श्रुत्वा प्रत्युवाचार्णवात्मजः
अदृष्ट्वा पार्वतीरूपं मच्चेतो न निवर्तते ॥ २६ ॥

वृन्दे त्वया जनपदो राजधानी प्रपाल्यताम्
स्मर्तव्योऽहं सदा चण्डि यदि मां हन्ति शङ्करः ॥ २७ ॥

इति भर्तृवचः श्रुत्वा वृन्दा हाससमन्विता
जगाम शिबिकारूढा पीठं जालन्धरं तदा ॥ २८ ॥

अथ प्रतस्थे कैलासं सिन्धुसूनुर्महाबलः
महापद्मसहस्राणां षष्ट्या सैन्येन संवृतः ॥ २९ ॥

अत्रान्तरे परित्यज्य कैलांसं शङ्करो गतः
गणपुत्रप्रियायुक्तः कैलासं मानसोत्तरम् ॥ ३० ॥

जालन्धरस्ततः प्राप्तः कैलासं प्रथमेऽहनि
सेनाः संस्थाप्य कैलास आलोकनकुतूहली ॥ ३१ ॥

दिव्यकेसरमन्दाररजःपुञ्ज परिश्रिताः
शीताम्बुशीकरासारैः प्रभुग्ना वान्ति वायवः ॥ ३२ ॥

यत्र सिद्धाङ्गना पीनस्तनोत्तुङ्गतरङ्गिणः
मन्दारमकरन्दाढ्याः सुन्दरा वान्ति वायवः ॥ ३३ ॥

यत्राशोकरुचिस्निग्धपादन्यासं च योषिताम्
विलोक्य दानवेन्द्रोभून्मनोरथसमाकुलः ॥ ३४ ॥

प्राप्नुवन्ति सुराः प्रीतिं स्वबिम्बालोकहर्षिताः
यत्र किन्नरकान्तानां सुरतव्यञ्जितप्रभाः ॥ ३५ ॥

विभान्ति सर्वतस्तत्र मन्दाराः शीर्णपल्लवाः
यत्र शम्भुगणाक्रान्ता नानावेलाकुलद्रुमाः ॥ ३६ ॥

भान्ति मन्मथभूपाल यशसा सुधृता इव
यत्र चन्दनकस्तूरी गन्धोन्मत्तालिसञ्चयाः
विभान्ति दग्धकन्दर्प्प निर्वाणाङ्गारसन्निभाः ॥ ३७ ॥

यत्राङ्गनानां सकलं विलोक्य सौरभ्यमत्युत्तमकान्तिमित्रम्
मन्ये परिष्वक्तमनोविनोदा कस्तूरिका गाहति कालिमानम् ॥ ३८ ॥

क्वचित्प्रवरगैरिकासमसमुल्लसत् पङ्कजं लवङ्गदलसन्निभासनचलच्चकोरं क्वचित्
क्वचिद्गिरिसरित्तटीतरणिवत्स्फुरत्कुण्डलं चलन्निचुलमञ्जरीविनयनम्रभृङ्गं क्वचित् ॥ ३९ ॥

क्वचिद्दलितकोकिलाकुलितनूत्नचूताङ्कुरं कुरङ्गकुलसेवितं प्रबलशालिमूलं क्वचित्
क्वचित्प्रवरसुन्दरैः सुरवधूपदैः पावनं वनं नयति विक्रियामिह मनो मुनीनामपि ॥ ४० ॥

एवङ्गुणसमायुक्तं विलोक्य हरमन्दिरम्
विचित्रं चापि कैलासं सर्वरत्नसमाश्रयम् ॥ ४१ ॥

अत्यन्तविस्मितो दैत्यः प्रोवाच भृगुनन्दनम्
कस्मात्तं तापसं तात प्रवदन्ति भवादृशाः ॥ ४२ ॥

तादृशी यस्य सा भार्या गृहमीदृङ्मनोहरम्
तत्रादृष्ट्वावदच्छम्भुं हरः कुत्र गतः कवे ॥ ४३ ॥

कथं मम भयाच्चेति पृष्टः प्रोवाच भार्गवः
देवशम्भुर्महाशैलमगम्यं मानसोत्तरम् ॥ ४४ ॥

ययौ तत्र महादेवो गन्तुं चान्यैर्न शक्यते
इति काव्यवचः श्रुत्वा प्राह दैत्यो महाबलः ॥ ४५ ॥

जालन्धर उवाच-
अहं यास्यामि देवेशं त्वं पुरा गच्छ भार्गव
इत्युक्त्वा प्रययौ तत्र यत्रास्ते शङ्करः स्वयम् ॥ ४६ ॥

अपश्यत्तं गिरिवरं सिन्धुजो मानसोत्तरम्
तस्य षष्टिसहस्राणि योजनानां समुच्छ्रयः ॥ ४७ ॥

स शैलो मानसो राजन्दैत्यसैन्यैः समावृतः
बहवो दैत्यराजानः शैलमारुरुहुर्द्रुतम् ॥ ४८ ॥

छत्रान्धकारं पर्यासीत्वाद्यनादेन वेपथुः
सैन्यकोलाहलस्तेषां पूरयामास रोदसी ॥ ४९ ॥

अथैवमागतं दृष्ट्वा दैत्यसैन्यं महत्तदा
अत्युच्चे स गिरेः शृङ्गे स्थाप्य गौरीं सखीवृताम् 6.11.॥ ५० ॥

भगवांश्च गणैः सर्वैः सन्नद्धैर्युद्धदुर्मदैः
त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः ॥ ५१ ॥

उवाच नन्दिनं शम्भुर्गणानामधिपं त्वया
प्रहर्तव्यो महादैत्यो वीरो जालन्धरो रणे ॥ ५२ ॥

महाकालादिभिः शूरैर्याहि त्वं परिवारितः
तावदाजौ त्वया तस्माद्योद्धव्यमतिपौरुषात् ॥ ५३ ॥

यावद्युद्धे नारिजयो मम वीर भविष्यति
इति शम्भोर्वचः श्रुत्वा स च सारथिमब्रवीत् ॥ ५४ ॥

काकतुण्डरथं मेऽद्य समानय महामते
नन्दिनो वचनं श्रुत्वा सोपि स्यन्दनमाहरत् ॥ ५५ ॥

द्वात्रिंशदश्वसंयुक्तं चक्रषोडशसंयुतम्
षष्टिध्वजसमोपेतं द्वात्रिंशद्योजनायुतम् ॥ ५६ ॥

सर्वशस्त्रैश्च सम्पूर्णं प्राप्तं साङ्ग्रामिकं रथम्
नन्दिनश्चक्ररक्षार्थं पुत्रौ स्कन्दविनायकौ ॥ ५७ ॥

समादिष्टौ शङ्करेण सन्नद्धौ तौ स्ववाहनौ
गणैः परिवृतो नन्दी वाग्भिः सम्पूज्य चेश्वरम् ॥ ५८ ॥

नन्दी रथं समारुह्य निर्ययौ दानवान्प्रति
विराजते तस्य मूर्ध्नि छत्रं द्वादशयोजनम् ॥ ५९ ॥

यावत्स निर्ययौ नन्दी तावत्ते दानवाः पुरः
शैलोपरि समारूढा दानवा घोरदर्शनाः ॥ ६० ॥

गणानामायुधैस्तीक्ष्णैः निहताः पतिता भुवि
हन्यमाना गणैर्दैत्यास्तत्यजुर्दूरतो गिरिम् ॥ ६१ ॥

ततो धूमसमं तस्मादवरुह्य शिलोच्चयात्
जघ्नुर्दैत्यान्शितैः शस्त्रैर्गणा राजन्महाबलान् ॥ ६२ ॥

अमरैराचितं दृष्ट्वा रुरुधुर्दैत्यसैनिकाः
ततः समभवद्युद्धं गणानां दानवैः सह ॥ ६३ ॥

शरवर्षमथात्युग्रं दानवानां दिवौकसाम्
ततः समस्तान्मातङ्गाञ्जघ्नुः शिखिमुखा रणे ॥ ६४ ॥

रथान्हयान्पदातींश्च काकतुण्डा महाबलाः
हतानां दैत्यसङ्घान्नां सङ्गरे भृशमायिनाम् ॥ ६५ ॥

शिरोभिर्गगनं व्याप्तं प्रहसद्भिर्भयावहैः
मुक्तकेशारुणमुखैर्भीमदंष्ट्राविलोचनैः ॥ ६६ ॥

सिंहैः कबन्धजङ्घोरुकटिपृष्ठनिकृन्तनैः
चिता सर्वत्र वसुधा कबन्धैरुधिरारुणैः ॥ ६७ ॥

ततो विरावः सुमहान्बभूव दैत्येश्वराणां ध्वजिनीषु धावताम्
शम्भोर्गणैः पातितसैनिकानां यथार्णवानां नदतां युगक्षये ॥ ६८ ॥

इति श्रीपाद्मे महापुराणे पञ्चाशत्सहस्रसंहितायामुत्तरखण्डे नारदयुधिष्ठिर-
संवादे जालन्धरोपाख्याने दैत्यसैन्यपराजयोनाम एकादशोऽध्यायः ११