नारद उवाच-
विश्वास-प्रस्तुतिः
अत्रोत्तरे मया गत्वा कथितं सिन्धुसूनवे
त्वां हन्तु सर्ववीरेश प्रतिज्ञा शम्भुना कृता
श्रुत्वेत्थं मद्वचो राजंस्ततः पप्रच्छ सोऽसुरः ॥ १ ॥
मूलम्

जालन्धर उवाच-
किमस्ति शूलिनो गेहे रत्नजातं महामुने
तन्ममाचक्ष्व सकलं नास्ति युद्धं निरामिषम् ॥ २ ॥

भूतिर्गात्रे वृषो जीर्णः फणिनोंऽगे गले विषम्
भिक्षापात्रं करे पुत्रौ गजानन षडाननौ ॥ ३ ॥

इत्यादि विभवस्तस्य यदन्यत्तन्निबोध मे
तनया गिरिराजस्य विशाला ह्युन्नतस्तनी ॥ ४ ॥

दग्धस्मरोऽपि भगवान्यस्यारूपेण मोहितः
महेशो यद्विनोदाय कुरुते नित्य कौतुकम् ॥ ५ ॥

नृत्यन्गायंश्च ताञ्छम्भुः स्वयं भवति हासकः
सा पार्वतीति विख्याता सौन्दर्यावधि दैवतम् ॥ ६ ॥

वृन्दा वराङ्गना राजन्निमाश्चाप्सरसः शुभाः
न चाप्नुवन्ति पार्वत्याः षोडशीमपि तां कलाम् ॥ ७ ॥

इत्युक्त्वाहं महीपाल जालन्धरममर्षणम्
पश्यतां सर्वदैत्यानामन्तर्धानं गतः क्षणात् ॥ ८ ॥

अथ स प्रेषयद्दूतं सिन्धुजः सिंहिकासुतम्
क्षणेनासाद्य कैलासं देवावासमपश्यत ॥ ९ ॥
मूलम्
अथ स प्रेषयद्दूतं सिन्धुजः सिंहिकासुतम्
क्षणेनासाद्य कैलासं देवावासमपश्यत ॥ ९ ॥
विश्वास-प्रस्तुतिः
अत्रान्तरे हरिर्भीममापृच्छ्य तु तदा हरम्
जगामालक्षितस्तूर्णं क्षीराब्धिं भेदशङ्कया ॥ १० ॥

ददर्श राहुर्भवनं शङ्करस्यातिदीप्तिमत्
आत्मानमात्मना वीक्ष्य किमित्याह सुविस्मितः ॥ ११ ॥

प्रवेष्टुकामो बलिभिर्द्वारि द्वास्थैर्निरोधितः
यत्नवान्स निषिद्धोऽपि तदा ते प्रोद्यतायुधाः ॥ १२ ॥

तान्निवार्य गणान्नन्दी व्याजहार विधुन्तुदम्
कस्त्वं कस्मादिहायातः किं कार्यं तव बर्बर
ब्रूहि कार्यं गणा यावत्त्वां न हन्युर्भयावहाः ॥ १३ ॥

राहुरुवाच-
दूतो जालन्धरस्याहं त्वं मां शर्वान्तिके नय
न वाच्यमन्तरे द्वास्थ महाराजप्रयोजनम् ॥ १४ ॥

नन्दी दूतोक्तमाकर्ण्य नीललोहितमाययौ
दण्डवत्प्रणिपत्याग्रे स्थित्वा शङ्करमब्रवीत् ॥ १५ ॥

सैंहिकेयो महाराज द्वारे तिष्ठति कार्यतः
स प्रयात्वथवायातु भवानाज्ञप्तुमर्हति ॥ १६ ॥

नन्दिनोक्तमथाकर्ण्य त्वरन्निव महेश्वरः
सुप्तामन्तःपुराद्देवीं प्रस्थाप्य च सखीवृताम् ॥ १७ ॥

पश्चाद्वास्थं जगादाथ नन्दिन्दूतं प्रवेशय
ततो हस्ते प्रगृह्यामुं दूतं नन्दी महाबलः ॥ १८ ॥

आनयामास देवानां मध्ये शम्भुमदर्शयत्
तं ददर्श तदा राहुर्जटिलं नीलमात्मनि ॥ १९ ॥

पञ्चवक्त्रं दशभुजं नागयज्ञोपवीतिनम्
देवीविरहितं मूर्ध्नि चन्द्रलेखाविभूषितम् ॥ २० ॥

उच्छ्वासोच्छ्वासनिर्मुञ्चत्पृदाकुगणसेवितम्
सर्वदेवगणोपेतं सेवितं गणकोटिभिः ॥ २१ ॥

प्राप्तं ज्ञात्वा ततो दूतं शम्भुरालोक्य चाग्रतः
प्राह ब्रूहि तदा राहुर्वक्तुं समुपचक्रमे ॥ २२ ॥

देव जालन्धरेणाहं प्रेषितस्तव सन्निधौ
तस्य शिववचः श्रुत्वा मन्मुखेन द्रुतं कुरु ॥ २३ ॥

गिरिशत्वं तपोनिष्ठो निर्गुणो धर्मवर्जितः
तव नास्ति पिता माता वसु गोत्रादि वर्जितः ॥ २४ ॥

जालन्धरो महाबाहुर्भुङ्क्तेऽसौ भुवनत्रयम्
तस्यैव वश्यस्त्वमपि ततश्चोक्तं समाचर ॥ २५ ॥

पुराणपुरुषः कामी वृषारूढः कथं भवान्
एवं वदति सम्प्राप्तौ सुतौ स्कन्दविनायकौ ॥ २६ ॥

तस्मिन्काले देवदेवो यतवागङ्गमर्दनम्
चकार च करैर्व्यस्तैर्वासुकिर्भूतलेऽपतत् ॥ २७ ॥

हेरम्बवाहनस्याखोः पुच्छं ग्रस्तमथाहिना
स्वपत्रं ग्रस्तमालोक्य मुञ्चमुञ्चेत्युवाच ह ॥ २८ ॥

अत्रान्तरे स्कन्दवाहं क्षुब्धं वीक्ष्य महास्वरम्
तद्भयाद्वासुकिर्ग्रस्तमाखुपुच्छमथोद्गिरत् ॥ २९ ॥

अथारुह्य हरस्याङ्गं गलमावेष्ट्य संस्थितः
तस्य निश्वासपवनैरथ जातो हुताशनः ॥ ३० ॥

तस्योष्मणा चन्द्र लेखा जटाजूटाटवी स्थिता
सार्द्रतां तु तदा सायात्प्लावितं तद्वपुर्यथा ॥ ३१ ॥

तस्याह्यमृतधाराभिर्ब्रह्ममस्तकमालिका
हरमौलिकपालानामभूत्सञ्जीविता तदा ॥ ३२ ॥
मूलम्
तस्याह्यमृतधाराभिर्ब्रह्ममस्तकमालिका
हरमौलिकपालानामभूत्सञ्जीविता तदा ॥ ३२ ॥
विश्वास-प्रस्तुतिः
पपाठ पूर्वमभ्यस्तं सर्वयोगश्रुतिक्रमम्
श्रुत्वा परस्पराधीतं विवदन्ति शिरांस्यथ ॥ ३३ ॥

अहमादिरहं पूर्वमहमेव परात्परः
अहं स्रष्टा अहं पातेत्युत्सुकानि परस्परम् ॥ ३४ ॥

शोचन्त्येतानि नो दत्तं नो भुक्तं न हुतं मया
लोभग्रस्तेन मनसा नो वित्तं ब्रह्मणेऽपि तम् ॥ ३५ ॥

अथेश्वरजटाजूटादाविरासीद्गणो महान्
त्र्याननस्त्रिचरणस्त्रिपुच्छः सप्तहस्तवान् ॥ ३६ ॥

स च कीर्तिमुखो नाम पिङ्गलो जटिलो महान्
तं दृष्ट्वा सा कपालाली भयात्तस्थौ मृतेव सा ३७*
पुरतः प्राह सगणस्ततः कीर्तिमुखः प्रभुम्
प्रणिपत्य शिवं देवमत्यर्थं क्षुधितः प्रभो ॥ ३८ ॥

तदोक्तः शङ्करेणाहो भक्षय त्वं रणे हतान्
क्षणं विचार्य स गणः क्वाप्यदृष्ट्वा रणं तदा ॥ ३९ ॥

ब्रह्माणं भक्षितुं प्राप्तः शङ्करेण निवारितः
ततः कीर्तिमुखेनाथ स्वाङ्गं सर्वं च भक्षितम् ॥ ४० ॥

बुभुक्षितेन चात्यन्तं निषिद्धेन च सर्वतः
तत्साहसं तदा दृष्ट्वा भक्तिं कीर्त्तिमुखस्य च ॥ ४१ ॥

तमुवाचेश्वरः प्रीतः प्रासादे तिष्ठ मे सदा
त्वच्चित्तरहितो यश्च भविष्यति ममालये ॥ ४२ ॥

स पतिष्यति शीघ्रं हीत्युक्तः सोंऽतर्हितोऽभवत्
शम्भोर्मूध्नि तदा देवा ववृषुः पुष्पवृष्टिभिः ॥ ४३ ॥

एवमत्यद्भुतं दृष्ट्वा सभायां तु त्रिशूलिनः
स्वर्भानुरपि देवेशं पुनः प्रोवाच विस्मितः ॥ ४४ ॥

स्पृशन्ति त्वां कथं भावं स्वाधीनं योगिनं बलात्
इन्द्रियैः पूज्यसे त्वं हि प्राप्योऽयं विषयैः कथम् ॥ ४५ ॥

ब्राह्मादिलोकपालानां पूजां गृह्णासि सर्वतः
न त्वं पश्यसि कं देवं त्वं पूजयसि कञ्चन ॥ ४६ ॥

ईश्वरोऽसि कथं लोके भिक्षाभोजी प्रतिष्ठितः
सङ्गोपयसि योगीन्द्र गौरीं रम्यां प्रयच्छ मे ॥ ४७ ॥

स्कन्दलम्बोदराभ्यां त्वं पुत्राभ्यां सहितोऽधुना
भिक्षापात्रं गृहीत्वा तु भ्रम नित्यं गृहेगृहे ॥ ४८ ॥

एवं बहुविधं तत्र राहुराहेश्वरं प्रति
भगवानपि तच्छ्रुत्वा नोत्तरं किञ्चिदब्रवीत् ॥ ४९ ॥

अथेशं मौनिनं त्यक्त्वा राहुर्नन्दिनमब्रवीत्
त्व मन्त्री ह्यसि सेनानीर्विकटानन बिम्बधृक् 6.10.॥ ५० ॥

एवमाचरित भ्रष्टं त्वं शिक्षयितुमर्हसि
नोचेद्रोषेणेन्द्र इव पतिष्यति रणे हतः ॥ ५१ ॥

इत्याकर्ण्य वचस्तस्य नन्दी विज्ञाप्य चेश्वरम्
भ्रूसञ्ज्ञयैव स तदा मतमाज्ञाय शूलिनः ॥ ५२ ॥

सम्पूज्य प्रेषयामास राहुं नन्दी गणाग्रणीः
अथ जालन्धरं गत्वा कथयामास विस्तरात्
स्वर्भानुस्तस्य वृत्तान्तं गौरीरूपं मनोहरम् ॥ ५३ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे युधिष्ठरनारद-
सम्वादे जालन्धरोपाख्याने कैलासाद्राहुप्रत्यागमनं नाम दशमोऽध्यायः १०