युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
इन्द्रादिभिस्तदा देवैः किं कृतं द्विजसत्तम
जालन्धरेण विजितैः स्वर्गराज्ये हृते सति ॥ १ ॥
मूलम्

नारद उवाच-
अथ त्यक्त्वा दिवं देवाः प्रापुस्ते दुर्दशां चिरम्
न पीयूषं नैव यज्ञाः ययुः स्थानं स्वयम्भुवः ॥ २ ॥

ददृशुर्ब्राह्मभुवने ब्रह्माणं परमेष्ठिनम्
प्राणायामेन युञ्जानं मनः स्वं परमात्मनि ॥ ३ ॥

ते तुष्टुवुः सुराः सर्वे वाग्भिस्तथ्याभिरादृताः
ततः प्रसन्नो भगवान्किङ्करोमीति चाब्रवीत् ॥ ४ ॥

ततो निवेदयाञ्चक्रुः ब्रह्मणे विबुधाः पुनः
जालन्धरस्य सकलं तथा निजपराभवम् ॥ ५ ॥

क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह
तस्य शैलस्य पार्श्वे ते वैचित्र्येण समाकुलाः
स्थिताः सन्तुष्टुवुर्देवा ब्रह्मशक्रपुरोगमाः ॥ ६ ॥

नमो भवाय शर्वाय नीलग्रीवाय ते नमः
नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ॥ ७ ॥

इति सर्वमुखो भूत्वा वाणीमाकर्ण्य शङ्करः
प्रोवाच नन्दिनं देवा नानयस्वेति सत्वरम् ॥ ८ ॥

श्रुत्वा शम्भोर्वचो देवा आहूता नन्दिना द्रुतम्
प्रविश्यान्तःपुरे देवा ददृशुर्विस्मितेक्षणाः ॥ ९ ॥

तत्रासने समासीनं शङ्करं लोकशङ्करम्
गणैः कोटिसहस्रैस्तु सेवितं भक्तिशालिभिः ॥ १० ॥

नग्नैर्विरूपैः कुटिलैर्जटिलैर्धूलिधूसरैः
प्रणिपत्याग्रतः प्राह सह देवैः पितामहः ॥ ११ ॥

सुखरोगो यथा स्यासीच्छक्रः सोऽयं वृथागतः
कृपां कुरु महादेव शरणागतवत्सल ॥ १२ ॥
मूलम्
सुखरोगो यथा स्यासीच्छक्रः सोऽयं वृथागतः
कृपां कुरु महादेव शरणागतवत्सल ॥ १२ ॥
विश्वास-प्रस्तुतिः
तत उच्चैर्विभोर्हास्यं श्रुत्वा ब्रह्मा पिनाकिनः
उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् ॥ १३ ॥

ततः सर्वेश्वरो ज्ञात्वा ब्रह्मणो मनसेप्सितम्
शक्रस्य मानभङ्गं च देवार्थे परमेश्वरः ॥ १४ ॥

प्रेम्णा भवान्या विज्ञप्तो नृप प्राह वचो हरः
विष्णुना न हतो योऽरि स कथं हन्यते मया ॥ १५ ॥

पूर्वसृष्टान्यायुधानि वज्रादीनि पितामह
तैः शस्त्रैर्नैव वध्योऽसौ बली जालन्धरोऽसुरः ॥ १६ ॥

हेतिभिः पूर्वसंसृष्टैः समयापि न हन्यते
देवाः कुर्वन्तु शस्त्रं हि मम प्राणसहं दृढम् ॥ १७ ॥

शम्भोरित्युत्तरं श्रुत्वा ब्रह्मोवाचाथ शङ्करम्
स्वयं कुरु महाशस्त्रं त्वं वेत्थ स्वात्मनो बलम् ॥ १८ ॥

इति तस्य वचः श्रुत्वा प्रत्युवाच महेश्वरः
ब्रह्मन्विमुञ्च तेजस्त्वं क्रोधयुक्तं सुरैः सह ॥ १९ ॥

ततस्तेजो मुमोचाथ ब्रह्मा ब्रह्मास्त्रसूचकः
रुद्रस्त्रिनेत्रजं तेजस्ततो निर्मुक्तवान्स्वयम् ॥ २० ॥

देवाश्च मुमुचुः सर्वे सक्रोधं तेजसां चयम्
अत्रान्तरे स्मृतः प्राप्तो हरेण मधुसूदनः ॥ २१ ॥

किं करोमीति तेनोक्तः शिवः प्राह जनार्दनम्
विष्णो जालन्धरः कस्मान्न हतः सङ्गरे त्वया ॥ २२ ॥

कथं सुरान्परित्यज्य क्षीराब्धिं शयितुं गतः ॥ २३ ॥

श्रीविष्णुरुवाच-
यदि तं हन्मि देवेश श्रीः कथं मम वल्लभा
तस्मात्त्वं पार्वतीकान्त जहि जालन्धरं रणे ॥ २४ ॥

तेजस्त्वं क्रोधजं मुञ्चेत्युक्तः शर्वेण केशवः
मुमोच वैष्णवं तेजः तत्सर्वं समवर्द्धत
तेजः प्रवृद्धं तद्दृष्ट्वा व्यापकं प्राह केशवम् ॥ २५ ॥

शङ्कर उवाच-
एतेन तेजसा शीघ्रं ममास्त्रं कर्तुमर्हथ
विश्वकर्मादयस्तच्च श्रुत्वा शङ्करभाषितम् ॥ २६ ॥

निरीक्ष्य च तदाऽन्योऽन्यं किं कुर्म इति शङ्किताः
दृष्ट्वा तूष्णीं स्थितांस्तांश्च ज्ञात्वा तन्मनसि स्थितम् ॥ २७ ॥

तदाह भगवान्ब्रह्मा अनालोक्यं हि दैवतैः
सोढुं न शक्तास्ते तेजो धर्तुं केन च शक्यते ॥ २८ ॥

ततः प्रहस्य भगवानुत्पत्योपरि तेजसः
वामाङ्घ्रिपार्ष्णिना शम्भुर्ननर्त भ्रमरीचयम् ॥ २९ ॥

ततो देवा महेन्द्राद्यास्तेजसोपरि शङ्करम्
नृत्यमानं तदा दृष्ट्वा मुदा वाद्यान्यवादयन् ॥ ३० ॥

तदाप्रभृति नृत्येषु भ्राम्यते भ्रमरीचयम्
अथ चक्रं समुत्पन्नं शम्भोर्नर्तनमर्दनात् ॥ ३१ ॥

आरलक्षत्रयोपेतं अस्थिकोटिसमाकुलम्
शर्वाङ्घ्रिकषणात्तस्य तेजसो निसृताः कणाः ॥ ३२ ॥

विश्वकर्मा च तेनास्त्रं विमानानि च निर्ममे
ततस्ते निर्ज्जरा भीत्या दृष्ट्वा चक्रं सुदर्शनम् ॥ ३३ ॥

त्राहित्राहीति देवेशं प्रत्यूचुस्ते सुरान्नृप
पृथ्वीकाठिन्यमादाय लोहानामपि तेजसाम् ॥ ३४ ॥

यद्विश्वकर्मणा कोशं कृतं भस्मीकृतं च तत्
सृष्टेन तेन चक्रेण दग्धः कालोऽपतत्क्षितौ ॥ ३५ ॥

ततस्तद्ब्रह्मणो हस्ते ददौ चक्रं स धूर्जटिः
चक्रार्चिर्निचयैः कूर्चं दृष्ट्वा दग्धमुमापतिः ॥ ३६ ॥

हसित्वा ब्रह्मणो हस्ताद्गृहीत्वा सत्वरं शिवः
दधौ कक्षापुटे चक्रं निधानं निर्धनो यथा ॥ ३७ ॥

ततो न दृश्यते चक्रं शिवकक्षापुटेस्थितम्
महामूर्खस्य यद्दत्तं दानं तस्य फलं यथा ॥ ३८ ॥

इति श्रीपाद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशत्सहस्र
संहितायां युधिष्ठिरनारदसंवादे जालन्धरोपाख्याने सर्व
देवतेजोमयचक्रोत्पत्तिर्नाम नवमोऽध्यायः ९