युधिष्ठिर उवाच-
विश्वास-प्रस्तुतिः
देवान्विक्लाव्य समरे विष्णुं स्थाप्यात्ममन्दिरे
जालन्धरेणाब्धिजेन यत्कृतं ब्रूहि नारद ॥ १ ॥
मूलम्

नारद उवाच-
शुम्भादीनां तु वीराणां दत्त्वा दानं प्रसादजम्
जालन्धरो जगामाथ स्वर्गं प्राप्यावलोकयत् ॥ २ ॥

हिरण्यवर्षेण जनान्भूषयन्तं दिनेदिने
फलन्ति तरवोऽजस्रं वाजिमेधक्रतोः फलम् ॥ ३ ॥

गजवस्त्रसुवर्णानि धेनु कन्या तिलानि च
पुष्पकर्पूरताम्बूल कस्तूरी कुङ्कुमानि च ॥ ४ ॥

ये यच्छन्ति महात्मानस्ते पश्यन्त्यमरावतीम्
वर्षासु गृहदानेन शिशिरेऽग्निप्रदानतः ॥ ५ ॥

वादित्राणि च सर्वाणि वादयन्ति शिवालये
प्रपां कुर्वन्ति ये चैत्रे दध्योदनसमन्विताम् ॥ ६ ॥

यत्र हिन्दोलपर्यङ्कं स्वयमान्दोलयन्ति च
सारिकाशुकहंसाश्च भ्रमद्भ्रमरकोकिलाः ॥ ७ ॥

कुर्वन्तो दूतकार्याणि यच्छन्ते प्रियसङ्गमम्
रम्भा यत्र पुरे राम मेनका च तिलोत्तमा ॥ ८ ॥

सुषमा सुन्दरी यत्र घृताची पुञ्जिकस्थली
सुकेशी सुमुखी रामा मञ्जुघोषा च मालिनी ॥ ९ ॥

मृगोद्भवा च सुखदा धनदंष्ट्रा तिलप्रभा
वाजिमेधफलग्राहा राजसूयफलन्ति याः ॥ १० ॥
मूलम्
मृगोद्भवा च सुखदा धनदंष्ट्रा तिलप्रभा
वाजिमेधफलग्राहा राजसूयफलन्ति याः ॥ १० ॥
विश्वास-प्रस्तुतिः
कोटिशो यत्र निःष्पापाः क्रीडन्त्यप्सरसो नृप
एवं भूरिसुखे स्वर्गे स्थापयामास सिन्धुजः ॥ ११ ॥

शुम्भं प्राणसमं दैत्यं निशुम्भं युवराजके
स्वयं जालन्धरे पीठे स्वर्गादागत्य सिन्धुराट्
वर्षार्बुदद्वयं राज्यं चकारात्मबलेन च ॥ १२ ॥

युयुधेऽसुर सङ्ग्रामे ससुरैरपराजितः ॥ १३ ॥

ततः किमकरोद्राजा सिन्धुसूनुः प्रतापवान्
तन्ममाचक्ष्व देवर्षे श्रोतुकामस्य विस्तरात् ॥ १४ ॥

शृणु राजन्यथातथ्यं कृतसागरसूनुना
स देवान्समरे जित्वा राज्यं चक्रे ह्यकण्टकम् ॥ १५ ॥

गन्धर्वाश्चित्रसेनाद्याः सेवन्ते चासुरेश्वरम्
यज्ञभागांश्च यो भुङ्क्ते सर्वेषामसुरेश्वरः ॥ १६ ॥

क्षीरसागरतो देवैर्हृतं रत्नादिकं च यत्
तत्सर्वं च तथान्यच्च निर्जित्य हृतवान्बली ॥ १७ ॥

समुद्रतनये राज्यं भुवो राजन्प्रशासति
न कश्चिन्म्रियते मर्त्यो नरकं कोऽपि न व्रजेत् ॥ १८ ॥

न कलिप्रणयादन्यो न भोगादपरः क्षयः
न वन्ध्या दुर्भगा नारी नालङ्कारैर्विवर्जिता ॥ १९ ॥

कुरूपा दुर्गता दुष्टाऽयशस्या न च दृश्यते
न तत्र विधवा नारी न कश्चिन्निर्द्धनो जनः ॥ २० ॥

दातारः सन्ति सर्वत्र न प्रतिग्राहिणः क्वचित्
पुण्या जनाः प्रयच्छन्ति द्विजेभ्यो ह्यात्मनो धनम् ॥ २१ ॥

रूपयौवनशालिन्यः सीमन्तिन्यो गृहे गृहे
गोक्षीरं दधिसर्पिश्च यत्र निर्जरसो जनाः ॥ २२ ॥

मङ्गलं तत्र सर्वेषां न क्वचिद्वधबन्धनम्
शरेण न च हिंसास्ति न कश्चित्केन बाध्यते ॥ २३ ॥

ऋणं न दृश्यते राजन्धनिनः सन्ति सर्वतः
सन्तुष्टाः सर्वसस्याढ्याः प्रजाः सर्वत्रपार्थिव ॥ २४ ॥

केलीक्षुदण्डप्रभवश्च दुग्धरसोऽति सुस्वादुतरो गृहे नृणाम्
शुश्राव नारीनरयोर्हितं वचो न चापहर्ताध्वनि गच्छतां सदा ॥ २५ ॥

पतन्त्यखण्डा नभसो यतस्ततो धाराश्च कर्मारविमिश्रसर्पिषः
सम्मिश्रिताः शर्करया परिश्रुताः समुद्रसूनोः स्मरणान्मुखे नृणाम् ॥ २६ ॥

इति श्रीपाद्मे महापुराणे उत्तरखण्डे पञ्चपञ्चाशत्सहस्र-
संहितायां युधिष्ठिरनारदसम्वादे जालन्धरसौराज्यवर्णनन्नामाष्टमोऽध्यायः ८