नारद उवाच-
विश्वास-प्रस्तुतिः
ततो जालन्धरः क्रुद्धः प्राह तं दैत्यसूदनम्
कपटेन बलं हत्वा क्व यास्यसि बलाधम ॥ १ ॥
मूलम्

इत्युक्त्वा तं शतमखं सिन्धुसूनुः प्रतापवान्
ससूताश्वध्वजरथं छादयामास मार्गणैः ॥ २ ॥

पपात मूर्च्छितः शक्रो रथोपरि शरैः क्षतः
दृष्ट्वा तं पतितं शक्रं जगर्जार्णवनन्दनः ॥ ३ ॥

मूर्च्छां त्यक्त्वा मुमोचेन्द्रो वज्रं जालन्धरं प्रति
तदाद्रिदलनं हस्ते गृहीत्वा सिन्धुसम्भवः ॥ ४ ॥

वज्रं कक्षापुटे धृत्वा रथादुत्तीर्य सत्वरम्
अभ्यधावत दैत्येन्द्रो देवेन्द्रं धर्तुमाहवे ॥ ५ ॥

ततो दुद्राव मघवा रथं त्यक्त्वा हरिं स्मरन्
रथमिन्द्रस्य मदवानारुह्यार्णवनन्दनः ॥ ६ ॥

यन्तारं मातलिं कृत्वा ययौ प्राप्तमनोरथः
रथमिन्द्रस्य तरसा यत्र यत्र ययौ बले ॥ ७ ॥

जालन्धरो महाबाहुः स्वयं चाम्बुधरो यथा
ततः स कोपात्पुरुषोत्तमः स्वयं खड्गं समुद्यम्य च नन्दकं रणे ॥ ८ ॥

सम्प्रेरयित्वा गरुडं मनोजवं जघान कोपेन च दैत्यवाहिनीम्
रथान्हयान्कुञ्जरपत्तिसङ्घान्स पातयामास बलात्सहस्रशः ॥ ९ ॥

जनार्दनः कश्यपसूनुसंवृतश्चकार सङ्ख्ये चरितं भयावहम्
केशास्थिमज्जारुधिरौघवाहिनीं पिशाचवेतालविहङ्गसेविताम् ॥ १० ॥

करोरुजङ्घायुधशस्त्रपूरितां सुदुस्तरां व्याघ्रगजेन्द्र सेविताम्
रक्तान्त्रहाराङ्गदभूषितान्तां विघूर्णनेत्रोत्सवकान्तिवाससम् ॥ ११ ॥

विष्णुना निहतं सैन्यं दृष्ट्वा दानवपुङ्गवाः
जालन्धराज्ञया सर्वे रुरुधुः परितो हरिम् ॥ १२ ॥

दैत्यास्ते तत्र बाणौघान्वर्षमाणा यथाम्बुदाः
यथाद्विरेफाः कमलं पर्वतं जलदा इव ॥ १३ ॥

चूतं यथा पक्षिगणा गगनं धूपसञ्चयः
न दृश्योऽभूत्तदा विष्णुर्न तार्क्ष्यो रणसङ्कटे ॥ १४ ॥

सर्वे ते रथमारूढा सर्वशस्त्रैर्महासुराः
वैकुण्ठाधिपतिं जघ्नुर्गर्जन्तो भीमनिस्वनैः ॥ १५ ॥

तान्सर्वान्भीमरूपेण दैत्यारिः कुपितस्तदा
रणे निपातयामास वायुः पर्णचयं यथा ॥ १६ ॥

शैलरोमा ततो विष्णुं दैत्यः कोपादधावत
हरेरपि शरास्तस्य शरीरे शीर्णतां गताः ॥ १७ ॥

शैलरोमा च दैत्यारि शरीरं चाहनच्छरैः
हरिः खड्गं विनिर्धूय शिरस्तस्य जहार ह ॥ १८ ॥

छिन्ने शिरसि दैत्यस्य कबन्धो विक्रमन्रणे
शैलरोमा भुजाभ्यां च तार्क्ष्यं जग्राह पक्षयोः ॥ १९ ॥

शिरश्चोत्पत्य तरसा विलग्नं स्कन्धयोर्दृढम्
ततस्तत्रास्ययुद्धेन हृषीकेशोऽपि विस्मितः ॥ २० ॥

शिरः संलग्नमालोक्य गरुडो न्यपतद्भुवि
पुनश्चोत्पत्य वेगेन शिरःस्थानं समाश्रयत् ॥ २१ ॥

शैलरोमा ततो विष्णुं जहार गरुडाद्बली
हरिर्जघ्ने तलेनाशु गतायुश्चापतद्भुवि ॥ २२ ॥

ततो जालन्धरः सूतं खड्गरोमाणमब्रवीत्
सम्प्रेषय रथं तत्र यत्र देवो जनार्दनः ॥ २३ ॥

जालन्धरस्य वचनात्खङ्गरोमानयद्रथम्
दृष्ट्वा तं पुरतो विष्णुमुवाचार्णवनन्दनः ॥ २४ ॥

निःशङ्कं जहि मां विष्णो नाहं त्वा हन्मि माधव
तस्य तद्वचनं श्रुत्वा क्रोधसंरक्तलोचनः ॥ २५ ॥

नारायणः प्राणहरैः शरैरेनमपूरयत्
विष्णुना च विभिन्नाङ्गोऽर्णवसूनुः प्रतापवान् ॥ २६ ॥

हरिं सम्पूरयामास मार्गणौघैर्निरन्तरम्
नारायणः प्राणहरैः शरैरेनमपूरयत् ॥ २७ ॥
मूलम्
हरिं सम्पूरयामास मार्गणौघैर्निरन्तरम्
नारायणः प्राणहरैः शरैरेनमपूरयत् ॥ २७ ॥
विश्वास-प्रस्तुतिः
गरुडं पतितं दृष्ट्वासिन्धुसूनोः शरैर्भुवि
रथं संस्मारयामास वैकुण्ठस्थं जनार्दनः ॥ २८ ॥

सरथस्तस्य सम्प्राप्तः सूतहीनो हयैर्वृतः
अश्वैर्युतं रथं दृष्ट्वा विस्मितो भगवान्रणे ॥ २९ ॥

सम्बोधयित्वा गरुडं सारथ्ये समयोजयत्
स धृत्वा मुकुटं मूर्ध्नि कौस्तुभं हृदये मणिम् ॥ ३० ॥

पुरुषार्थान्हयान्कृत्वा ययौ जालन्धरं हरिः
मेदिनीं रथचक्रेण दारयंश्च सुरैः सह ॥ ३१ ॥

जघान तरसा बाणैर्दानवानां च वाहिनीम्
देवराजेन सन्दिष्टो वीतिहोत्रो रणाङ्गणे ॥ ३२ ॥

ददाह दानवानीकं समीरणसमन्वितम्
तदाह तं भगवता दैत्यसैन्यं सुरैः सह ॥ ३३ ॥

जालन्धरः स्वल्पशेषं दध्यौ दृष्ट्वा बलं स्वकम्
अथाह भार्गवं राजा मत्सैन्यं निहतं सुरैः ॥ ३४ ॥

त्वयि तिष्ठति मन्त्रज्ञे विख्यातो विद्यया भवान्
किं तया विद्यया ब्रह्मन्क्षत्रेणाथ बलेन च ॥ ३५ ॥

या न रक्षति रोगार्तान्यद्बलं शरणागतान्
जालन्धरवचः श्रुत्वा भार्गवस्तमभाषत ॥ ३६ ॥

पश्य राजन्मम बलं ब्राह्मणस्य रणाङ्गणे
इत्युक्त्वा वारिणा स्पृष्टा हुङ्कारेण प्रबोधिताः ॥ ३७ ॥

उत्थापितास्ते कविना शरौघैः प्राणहारकैः
देवाहता रणेपेतुः समन्तात्सिन्धुसूनुना ॥ ३८ ॥

बाणैर्जर्जरदेहास्ते धृतप्राणा नराधिप
न मृतास्त्वमरत्वाच्चबाणैर्भिन्नाश्च सत्तम ॥ ३९ ॥

ततो नारायणोदेवो बृहस्पतिमभाषत
धिग्बलं दैवतगुरो यो न जीवयसे सुरान् ॥ ४० ॥

धिषणस्तु जगन्नाथमुवाचत्वरितन्तदा
ओषधीभिरहंस्वामिन्जीवयिष्यामिनिर्जरान् ॥ ४१ ॥

इत्युक्त्वाधिषणःसोऽपिययौक्षीरार्णवस्थितम्
द्रोणमद्रिं तदा गत्वा सुखं गृह्यौषधीः स्वयम् ॥ ४२ ॥

गुरुस्तासां च योगेन जीवयामास निर्जरान्
उत्थितास्ते ततो देवा जघ्नुर्दानववाहिनीम् ॥ ४३ ॥

देवान्समुत्थितान्दृष्ट्वा बभाषे सिन्धुजः कविम्
विना त्वद्विद्यया काव्य कथमेते समुत्थिताः ॥ ४४ ॥

इति दैत्योक्तमाकर्ण्य शुक्रः प्राहार्णवात्मजम्
क्षीरसागरमध्यस्थो द्रोणोनाम महागिरिः ॥ ४५ ॥

औषध्यस्तत्र तिष्ठन्ति जीवयन्ति च या मृतान्
तत्र गत्वा सुराचार्यो गृहीत्वोषधिसञ्चयम् ॥ ४६ ॥

रणे विनिहतान्देवानुत्थापयति मन्त्रतः
भार्गवोक्तमथाकर्ण्य सैन्यभारं महाबलः ॥ ४७ ॥

शुम्भे निक्षिप्य तरसा ययौ जालन्धरोऽर्णवम्
अथ प्रविष्टः क्षीराब्धौ वेश्मदिव्यं महाप्रभम् ॥ ४८ ॥

प्रविश्य तत्र क्षीराब्धेः क्रीडास्थानं ददर्श सः
नोष्णो न शीतलो वायुर्न तमो यत्र दृश्यते ॥ ४९ ॥

यत्र गायन्ति नृत्यन्ति क्रीडन्ति च वरस्त्रियः
सुपीनस्तनभाराढ्याः कृशोदर्यः सुदन्तिकाः 6.7.॥ ५० ॥

नेत्रविभ्रमविक्षेपैर्नितम्बपरिवर्त्तनैः
अङ्गैः सम्मोहनै रम्यैर्बाहुवल्लीविचालनैः ॥ ५१ ॥

पादविन्यासरणि तैर्मधुरैर्वचनस्तवैः
सौगन्ध्यसौख्यदैर्वासैर्नेत्रभ्रमरहुङ्कृतैः ॥ ५२ ॥

चामरान्दोललीलाभिः स्रग्भिः स्मितविलोकितैः
सेवां चक्रुर्विलासिन्यस्तत्र सुतः॥५३॥

क्रीडन्तं तत्र दुग्धाब्धिं संवीक्ष्य समरोत्सुकः
अथाह प्रणिपत्यासौ क्षीराब्धिं तात हंसि माम्
द्रोणाचलौषधीर्व्याजादम्बुभिः प्लावयस्वतः ॥ ५४ ॥

क्षीरसागर उवाच-
तं प्राप्तं शरणं पुत्र प्लावयाम्यूर्मिभिः कथम्
मुनीन्द्रास्तं न शंसन्ति यस्त्यजेच्छरणागतम् ॥ ५५ ॥

पितृव्यवचनं श्रुत्वा सङ्क्रोधात्सन्ततं गिरिम्
तलप्रहरणेनैव ताडयामास दैत्यराट् ॥ ५६ ॥

ततो द्रोणगिरी राजन्भीतो जालन्धराद्भृशम्
अथाजगाम रूपेण प्राह जालन्धरं प्रति ॥ ५७ ॥

तवाहमभवं दासो रक्ष मां शरणागतम्
रसातलं महाबाहो यास्यामि तव शासनात् ॥ ५८ ॥

यावत्त्वं कुरुषे राज्यं तावत्स्थास्याम्यहं प्रभो
ओषधीनां विरावेण सिद्धानां रोदनेन च ॥ ५९ ॥

रसातलं जगामाद्रिः सिन्धुसूनोः प्रपश्यतः
ततो जालन्धरो वीर आजगाम महारणम् ॥ ६० ॥
मूलम्
रसातलं जगामाद्रिः सिन्धुसूनोः प्रपश्यतः
ततो जालन्धरो वीर आजगाम महारणम् ॥ ६० ॥
विश्वास-प्रस्तुतिः
पूर्वकल्पितमारुह्य रथस्थं केशवं ययौ
रथस्थं माधवं दृष्ट्वा जहासोच्चैर्नदीसुतः ॥ ६१ ॥

तावत्त्वं तिष्ठ शकटे यावद्धन्यामरीनहम्
एवमुक्त्वा जघानाशु शरैस्तां देववाहिनीम् ॥ ६२ ॥

बाणैर्विदारिता देवास्त्राहीत्यूचुर्बृहस्पतिम्
ततो बृहस्पतिः शीघ्रमगमत्क्षीरसागरम् ॥ ६३ ॥

अदृष्ट्वा तं ततो द्रोणमभूच्चिन्तापरो नृप
अथागत्य रणं तूर्णममरान्प्राह गीष्पतिः ॥ ६४ ॥

पलायध्वं सुराः सर्वे द्रोणाद्रिः क्षयमागतः
एवमुक्तवतस्तस्य गुरोश्चिच्छेद सिन्धुजः ॥ ६५ ॥

यज्ञोपवीतं केशांश्च बाणैस्तीक्ष्णैर्हसन्सुरान्
ततो दुद्राव वेगेन गुरुः प्राणभयार्दितः ॥ ६६ ॥

देवाः सर्वे रणं हित्वा पलायाञ्चक्रिरे नृप
एवं विद्राव्य देवान्वै जनार्द्दनमधावत ॥ ६७ ॥

हृषीकेशोऽपि दैत्येशमन्वधावद्रणोत्सुकः
ततो युद्धमभूद्धोरं विष्णोर्जालन्धरस्य च ॥ ६८ ॥

दुर्द्धर्षणो बाणजालैः प्लावयामास केशवम्
तान्बाणान्खण्डशः कृत्वा पूरयित्वा शरैर्महान् ॥ ६९ ॥

वासुदेवोसुरं बाणैर्जालन्धरमपीडयत्
जालन्धरो रथं त्यक्त्वा शरपीडितविग्रहः ॥ ७० ॥

विष्णुं विजेतुं दुद्राव संयतिस्थमथ द्रुतम्
तमायान्तं रणे दृष्ट्वा हरिर्विव्याध सायकैः ॥ ७१ ॥

बाणानङ्गेसहद्विष्णोः प्राप्तोऽसौ रथसन्निधौ
हस्तेनैकेन गरुडं द्वितीयेन रथं हरेः ॥ ७२ ॥

भ्रामयित्वाम्बरे शश्वत्श्वेतद्वीपे न्यपातयत्
जालन्धरकरक्षिप्तो गरुडोऽपि पपात ह ॥ ७३ ॥

क्रौञ्चद्वीपे स तत्रैव विश्राममकरोच्चिरम्
अच्युतः प्रच्युतस्तस्माद्भ्रमतो रथमण्डलात् ॥ ७४ ॥

रणमागत्य दैत्येशं तिष्ठतिष्ठेत्यभाषत
दृष्ट्वा तमागतं भूयः केशवं समरप्रियः ॥ ७५ ॥

पूरयन्मार्गणैर्भूमिं जगर्जार्णवनन्दनः ॥ ७६ ॥

विव्याध दैत्यं हरिराशु शक्त्या हृदि स्फुरन्त्या स ततः पपात
सूतो न यत्तं समरान्निवासं तं प्राह रे केन कृतोस्म्यलज्जः ॥ ७७ ॥

दैत्यारि जालन्धरयोर्महत्तदा बभूव युद्धं धरणीतलस्थयोः
प्रेम्णा श्रियस्तं न जघान दानवं स्वयं हरिस्तस्य शरैः पपात ॥ ७८ ॥

ततो निरीक्ष्य गोविन्दं पतितं धरणीतले
प्रगृह्यार्णवजो दैत्य आरुरोह निजं रथम्
ततस्तमिन्दिरा प्राप्ता रुदन्ती विष्णुवल्लभा ॥ ७९ ॥

संस्थिता कमला तत्र पतिं कमललोचनम्
पतितं तु पतिं वीक्ष्य लक्ष्मीः प्राहार्णवात्मजम् ॥ ८० ॥

शृणुष्व वचनं भ्रातर्जितो विष्णुर्धृतस्त्वया
भगिन्या न च वैधव्यं दातुं युक्तं महाबल ॥ ८१ ॥

श्रुत्वा तु वचनं तस्या मुमोच जगतः पतिम्
जालन्धरो महाबाहुः स्वस्रे भक्त्या ननाम च ॥ ८२ ॥

ववन्दे चरणौ विष्णोः स्वसुः स्नेहात्तदाञ्जसा
विष्णुर्जालन्धरं प्राह तुष्टोऽस्मि तव कर्मणा
वरं वरय दैत्येश किं प्रयच्छामि ते वरम् ॥ ८३ ॥

जालन्धर उवाच-
यदि त्वं मम तुष्टोऽसि शौर्येणानेन केशव
स्थातव्यं मत्पितुः स्थाने त्वया कमलया सह ॥ ८४ ॥

तथेत्युक्त्वा च संस्मृत्य गरुडं धरणीधरः
आरुह्य च जगन्नाथः क्षीराब्धिं प्रियया सह ॥ ८५ ॥

तदाप्रभृति कृष्णस्य वासः श्वशुरमन्दिरे
अब्धौ वसति देवेशो लक्ष्म्याः प्रियचिकीर्षया ॥ ८६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहिता-
यामुत्तरखण्डे युधिष्ठिरनारदसंवादे सप्तमोऽध्यायः ७