००६

नारदउवाच-

विश्वास-प्रस्तुतिः

एवं द्वन्द्वेषु युद्धेषु सम्प्रवृत्तेष्वनेकशः
जघानाथ हरिः क्रुद्धो गदया कालनेमिनम् ॥ १ ॥

मूलम्

विहाय मूर्च्छां सञ्चित्य विष्णुं बाणैर्जघान सः
ततः क्रुद्धेन हरिणा स क्षितौ पातितो व्यसुः ॥ २ ॥

राजन्जघान सञ्चिन्त्य राहुं खड्गेन चन्द्रमाः
राहुस्तु तं परित्यज्य तदा सूर्यमधावत ॥ ३ ॥

सहस्राशुं रणे जित्वा राहुश्चन्द्रमधावत
जघान तं च खङ्गेन समरे रजनीपतिः ॥ ४ ॥

मूलम्

सहस्राशुं रणे जित्वा राहुश्चन्द्रमधावत
जघान तं च खङ्गेन समरे रजनीपतिः ॥ ४ ॥

विश्वास-प्रस्तुतिः

सैंहिकेयाङ्गकाठिन्यात्खङ्गं चूर्णमभूत्तदा
जघान मुष्टिना गाढं कठिनेन विधुन्तुदः ॥ ५ ॥

चन्द्रमुत्थाप्य तं कण्ठे धृत्वा वेगान्महामृधे
गिलित्वा राहुणा चन्द्रोप्युद्गीर्णश्च ततः पुनः ॥ ६ ॥

मृगं स्वचिह्नमुरसि निधाय विससर्ज ह
स उच्चैःश्रवसं गृह्य हयरत्नं विधुन्तुदः ॥ ७ ॥

जालन्धरान्तिकं नीत्वा भक्त्या तस्मै न्यवेदयत्
दुर्वारणो रणे क्रुद्धस्तं यमं गदया हनत् ॥ ८ ॥

निशितैर्मार्गणैर्भिन्नः शक्रपुत्रेण चाहवे
धृत्वा जयन्तं संह्रादः परिघाघातमूर्च्छितम् ॥ ९ ॥

ऐरावतं समारुह्य ययौ जालन्धरं प्रति
हतवांश्चैव गदया निह्रादं धनदो रणे ॥ १० ॥

रुद्रास्त्रिशूलनिर्घातैर्निशुम्भं जघ्नुरोजसा
निशुम्भो बाणजालैश्च पीडयामास तानति ॥ ११ ॥

शुम्भासुरो देवगणान्पूरयामास मार्गणैः
मृत्युं मायामय मयो बद्ध्वा पाशैर्निनायतम् ॥ १२ ॥

ददौ जालन्धरायासौ पौलोम्ने सोऽपि सिन्धवे
अब्धिना च मुखे क्षिप्तो लोको जीवतु निर्भयः ॥ १३ ॥

बद्ध्वा च नमुचिं पाशैर्वासवोऽपि रसातलम्
निन्ये विश्वस्य हन्तारं अथ जालन्धरो ययौ ॥ १४ ॥

अथेन्द्रबलयोर्युद्धमभूद्राजन्सुदारुणम्
बलाङ्गरोचिषो भान्ति दिशो दश रवेरिव ॥ १५ ॥

सर्वाण्यस्त्राणि शक्रस्य शीर्णान्यङ्गे बलस्य च
बलीयसा बलेनेन्द्रो मुद्गरेण हतो हृदि ॥ १६ ॥

ननादेन्द्रस्ततो भीमं तच्छ्रुत्वा स बलोहसत्
हसतस्तस्य निश्चेरुर्मुखतो मौक्तिकानि च ॥ १७ ॥

तस्याङ्गस्याभिलाषेण न युद्धमकरोत्तदा
तुष्टाव वासवोऽत्यर्थं तं बलं बलसागरम् ॥ १८ ॥

वरं वृणु सुरश्रेष्ठेत्युक्तः प्राह बलं प्रति
यदि तुष्टोऽसि दैत्येश स्वं वपुर्दातुमर्हसि ॥ १९ ॥

तदिन्द्र वचनं श्रुत्वा भित्त्वा शस्त्रैर्गृहाण माम्
इत्युवाच बलं सोऽपि किमदेयं महात्मनाम् ॥ २० ॥

(गीरिव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः (अतिरिक्त श्लोकाः)

विश्वास-प्रस्तुतिः

परेषु पुष्पमालेव श्रीः कदर्यस्य निष्फला ॥ १ ॥

महात्मानो न गृह्णन्ति हिंसमानान्रिपूनपि
सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः ॥ २ ॥

सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि
छिन्नोऽपि चन्दनतरुः सुरभयतिमुखं कुठारस्य ॥ ३ ॥

देवं परं विनश्यति तनुरपि न श्रीर्निवेदितासत्सु
अवशिष्यते हिमांशोः सैव कलाशिरसि या शम्भोः ॥ ४ ॥

ते साधवो भुवनमण्डलमौलिभूता ये साधुतामनुपकारिषु दर्शयन्ति
आत्मप्रयोजनवशात्कृतछिन्नदेहाः पूर्वापकारिषु खलोपि हितानुरक्तः५)
तथेत्युक्त्वा सहस्राक्षो मुद्गरेणाहनद्बलम्
न बिभेद तदा देहः शक्रश्चिन्तामवाप ह ॥ २० ॥

सस्मारितो मातलिना वज्रेणाङ्गं जघान तत्
तेन वज्रप्रहारेण बलाङ्गं तद्व्यशीर्यत ॥ २१ ॥

बलाङ्गस्यैकभागस्तु पपात कनकाचले
तुहिनाद्रौ द्वितीयस्तु तृतीयो गोनगेऽपतत् ॥ २२ ॥

चतुर्थो देवनद्यां च पञ्चमो मन्दरे तथा
वज्राकरे पपातांशः षष्ठश्च विजयाङ्गजः ॥ २३ ॥

तस्य जातिविशुद्धस्य परिशुद्धेन कर्मणा
कायस्यावयवाः सर्वे रत्नबीजत्वमागताः ॥ २४ ॥

वज्रादस्थिकणाः कीर्णाः षट्कोणा मणयोऽभवन्
अक्षिभ्यामिन्द्रनीला वै माणिक्यं श्रुतिसम्भवम् ॥ २५ ॥

क्षतजात्पद्मरागाः स्युः मेदसो मरकतास्तथा
प्रवालानि च जिह्वातो दन्ता मुक्तास्तथाभवन् ॥ २६ ॥

मज्जोद्भवं मरकतं गारुत्मतमभून्नसा
कांस्यं पुरीषं रजतं वीर्यं ताम्रं च मूत्रजम् ॥ २७ ॥

अङ्गस्योद्वर्तनाज्जातं पित्तलं ब्रह्मवीतिकाः
नादाद्वैदूर्यमुत्पन्नं रत्नं चारुतरं तथा ॥ २८ ॥

नखेभ्यः कनकोत्पत्ती रुधिराच्च रसोद्भवः
मेदसः स्फटिकं जातं प्रवालं मांससम्भवम् ॥ २९ ॥

बलदेहोद्भवान्यासन्रत्नानि पृथिवीतले
पुण्योपचयसम्पत्त्या भोक्ष्यन्ते विमलैर्जनैः ॥ ३० ॥

अत्रान्तरे हतं श्रुत्वा बलं मघवता मृधे
प्रभावती नाम राज्ञी ययौ तच्चरणान्तिकम् ॥ ३१ ॥

विललाप पतिं दृष्ट्वा विकीर्णावयवं रणे
प्रभावत्यश्रुपूर्णाक्षी मुक्तकेशी घनस्तनी ॥ ३२ ॥

हा नाथ बलविक्रान्त कान्तदेह जगत्प्रिय
मां त्वं विहाय किं चात्र कैवल्यं गतवानसि ॥ ३३ ॥

जराकुष्ठादिभिर्व्याप्तं बुद्ध्वा देहं त्यजन्ति न
देहिनोऽन्ये परं कान्तं त्वया देहो वृथोज्झितः ॥ ३४ ॥

तव देहेन दिव्येन हारकं भूष्यते प्रिय
रणोत्सुकेन भवता या वेणी ग्रथिता मम ॥ ३५ ॥

तामुद्ग्रथय वैधव्यदुःखार्त्तायाः स्वयं प्रिय
एवं विलपतीं वीक्ष्य बलराज्ञीं समुद्रजः
दुःखितः शुक्रमित्याह बलं जीवय भार्गव ॥ ३६ ॥

शुक्र उवाच-
इच्छयामरणं प्राप्तं तं कथं जीवयाम्यहम्
तथापि मन्त्रसामर्थ्याद्वाचमुच्चारयिष्यति ॥ ३७ ॥

जालन्धर उवाच-
बलस्य रूप वचनं श्रोतुमिच्छामि भार्गव
जालन्धरेणैवमुक्तः क्षणं ध्यानपरोऽभवत् ॥ ३८ ॥

अथोदतिष्ठद्वदनात्स्वनः श्रोत्रमनोरमः
प्रभावतीं प्रति व्यक्तं वाद्यभाण्डा दिवोत्थितः ॥ ३९ ॥

प्रभावति स्वदेहं त्वं ममाङ्गेषु लयं नय
इति तस्य वचः श्रुत्वा नदी जाता प्रभावती ॥ ४० ॥

बलाङ्गेष्वेव लीना सा सुमेरोः पूर्ववाहिनी
यस्यास्तोयेन सञ्जाता रत्नानां कान्तिरुत्तमा ४१