००५

युधिष्ठिर उवाच-

विश्वास-प्रस्तुतिः

कः पितृव्यः सिन्धुसूनोः किं वृत्तं तस्य विग्रहे
युयुधे स कथं दैत्यस्तन्मे कथय नारद ॥ १ ॥

मूलम्

नारद उवाच-
शृणु त्वं नृपशार्दूल पितृव्यः क्षीरसागरः
जालन्धरस्य तं देवैः प्रमथ्य धनमाहृतम् ॥ २ ॥

श्रीचन्द्रामृतनागाश्वपूर्वं तस्य सुरासुरैः
तच्छ्रुत्वा विग्रहं चक्रे देवैर्जालन्धरोऽसुरः ॥ ३ ॥

कदाचित्प्रेषयामास दूतं दुर्वारणं बली
शिक्षयित्वा तु वक्तव्यं देवेन्द्रभवनं प्रति ॥ ४ ॥

अथ स्यन्दनमारुह्य ययौ दुर्वारणो दिवि
प्रवेष्टुकामो भवनं द्वारस्थैर्द्वारि निवारितः ॥ ५ ॥

दूत उवाच-
जालन्धरस्य दूतोऽहं आगतः शक्रसन्निधौ
गत्वा तत्र भवन्तो मां विज्ञापयितुमर्हथ ॥ ६ ॥

इति तस्य वचः श्रुत्वा तदैव तु शचीपतिम्
गत्वा च प्रणिपत्याह दूतो देवागतो भुवः ॥ ७ ॥

दौवारिको महेन्द्रेण प्रत्युक्तो दूतमानय
हस्ते गृहीत्वा तं दूतं वासवान्तिकमानयत् ॥ ८ ॥

दुर्वारणो देवसभां प्रविष्टः प्रव्यलोकयत्
हरिं देवैस्तु यस्त्रिंशत्कोटिभिः परिवेष्टितम् ॥ ९ ॥

स्वर्णसिंहासनं दिव्यं चामरानिलसेवितम्
शचीप्रेमरसोत्फुल्लनयनाब्जसहस्रकम् ॥ १० ॥

दुर्वारणोऽथ देवेशं विलोक्य गुरुणा सह
प्रणनामात्मगर्वेण प्रहसन्नयनश्रियम् ॥ ११ ॥

निर्दिष्टमासनं भेजे दूतो जालन्धरस्य सः
कस्य त्वं केन कार्येण प्राप्तः प्राहेति तं हरिः ॥ १२ ॥

दूतो जालन्धरस्याहं स जगाद पुरन्दरम्
स राजा सर्वलोकानां तस्याज्ञां शृणु मन्मुखात् ॥ १३ ॥

पितृव्यो मम दुग्धाब्धिस्त्वया कस्माद्विलोडितः
मन्दराद्रिविधानेन हृतं कोशं महाधनम् ॥ १४ ॥

श्रीचन्द्रामृतनागाश्वं तन्मणिं विद्रुमादिकम्
देहि सर्वं तथा स्वर्गं शीघ्रं त्यज पुरन्दर ॥ १५ ॥

स त्वं मद्वचनात्तूर्णं कुरु सर्वं यथोचितम्
तं क्षमापय भूपाल यदि जीवितुमिच्छसि ॥ १६ ॥

अथ प्रहस्य मघवा प्राह दुर्वारणं प्रति
शृणु दूत समासेन सिन्धोर्मथनकारणम् ॥ १७ ॥

पुरा हिमवतः सूनुर्मैनाको नाम मे रिपुः
स कुक्षौ विधृतस्तेन सागरेण जडेन च ॥ १८ ॥

दग्धं चराचरं येन वह्निना हयरूपिणा
स चापि विधृतस्तेन सागरेण दुरात्मना ॥ १९ ॥

धर्मद्विषां दानवानामसौ वै आश्रयः प्रभुः
नित्यं दधि घृतं क्षीरं दानवेभ्यः प्रयच्छति ॥ २० ॥

अतएवायमस्माभिः दुर्वारण विलोडितः
दण्डितश्च गतश्रीको देवैरथ पुरातनैः ॥ २१ ॥

शृणु दूत सबन्धेन मम विप्रेण शोषितः
कुम्भोद्भवेन किञ्चैष दुःसङ्गे नैव बाध्यते ॥ २२ ॥

सोऽपि युद्धार्थमस्माभिः सर्वसैन्येन संवृतः
आगमिष्यति वै नाशं गमिष्यति तदैव हि ॥ २३ ॥

इतीरयित्वा विरराम वृत्रहा सरित्पतेरात्मजदूतमुच्चकैः
शशंस चागत्य समुद्रसूनोर्देवेश्वरेणोक्तमशेषमादितः ॥ २४ ॥

महेन्द्र वचनं श्रुत्वा निजदूतमुखेन च
समुद्रसूनुः सङ्क्रुद्धः सर्वं सैन्यं समाह्वयत् ॥ २५ ॥

रसातलस्थिता दैत्याः ये च भूतलवासिनः
आययुः सबलास्तत्र जालन्धरमथाज्ञया ॥ २६ ॥

मूलम्

रसातलस्थिता दैत्याः ये च भूतलवासिनः
आययुः सबलास्तत्र जालन्धरमथाज्ञया ॥ २६ ॥

विश्वास-प्रस्तुतिः

प्रयाणप्रक्रमे सिन्धुसूनोः सैन्यस्य गर्जितैः
स्फुटन्ति नभसो राजन्पातालमखिला दिशः ॥ २७ ॥

हयनागोष्ट्रवदना बिडालमुखभीषणाः
व्याघ्रसिंहाखुवदना विद्युत्सदृशलोचनाः ॥ २८ ॥

सर्पकेशा महादेहाः केचित्खङ्गतनूरुहाः
अन्ये च परिधावन्ति गर्जन्ति जलदस्वनैः ॥ २९ ॥

रथगजहयपत्तिसङ्कुलं समरविनोदकदम्ब भासुरम्
अब्जशतसहस्रकोटिनायकं बलमखिलं च तदा रराज राजन् ॥ ३० ॥

शतयोजनविस्तीर्णं विमानं हंसकोटिभिः
युक्तं भूतिसहस्रौघं सर्ववस्तुप्रपूरितम् ॥ ३१ ॥

तद्विमानं समारुह्य सद्यो जालन्धरो ययौ
मध्याह्ने मन्दरं प्राप्तः प्रथमेऽह्नि बलैः सह ॥ ३२ ॥

खण्डितं शिबिकावाहैर्दलितं भूरिकुञ्जरैः
द्वितीये दिवसे मेरुं सम्प्राप्तो बलसंयुतः ॥ ३३ ॥

इलावृत्ते तु शिखरे तस्थौ तत्कटकं महत्
अथ दैत्याधिपैर्भग्नं खाण्डवं नन्दनं वनम् ॥ ३४ ॥

शिखराणि विशीर्णानि मेरोर्दानवपुङ्गवैः
सन्तानकेषु वृक्षेषु बद्धा हिन्दोलमञ्चकान् ॥ ३५ ॥

सिद्धाङ्गनाभिः सहिता रेमिरे दैत्यपुङ्गवाः
कुचकुङ्कुमताम्बूल चन्दनागरुभूषणैः ॥ ३६ ॥

केशपाशच्युतैः पुष्पैः मेरोः सम्पूरिता नदी
सुमेरोः पूर्वदिग्भागो गजैस्तस्य विघट्टितः ॥ ३७ ॥

दक्षिणं च रथैश्चेरुरुत्तरं पश्चिमं भटैः
अथ प्रस्थापयामास दैत्याञ्जालधरोऽसुरः ॥ ३८ ॥

महेन्द्रशिखरं चान्ये ययुर्दुन्दुभिनिःस्वनैः
राजराजपुरीं भङ्क्त्वा यमस्य वरुणस्य च ॥ ३९ ॥

अन्येषां लोकपालानामाययुस्तेऽमरावतीम्
अथोत्पाताभवन्नाके दिव्यभौमान्तरिक्षगाः ॥ ४० ॥

रजः पपात बहुलं तमस्तोमो विजृम्भते
तदा पपात कुलिशं करादिन्द्रस्य निष्प्रभम् ॥ ४१ ॥

दृष्ट्वा निमित्तानि भयावहानि नाके महेन्द्रो गुरुमित्युवाच
किं कुर्महे कं शरणं च यामस्तं पश्य युद्धं समुपस्थितं च ॥ ४२ ॥

ततो वाचस्पतिर्वाक्यमुवाच त्रिदशाधिपम्
चरणौ पाहि शरणं विष्णोर्वैकुण्ठवासिनः ॥ ४३ ॥

इत्युक्तो गुरुणा देवैः साकं वैकुण्ठमन्दिरम्
जगामाखण्डलः शीघ्रं शरणं कैटभद्विषः ॥ ४४ ॥

शशंस वासुदेवाय विजयो द्वारपालकः
जालन्धरभयत्रस्ताः सर्वे देवाः समागताः ॥ ४५ ॥

श्रीरुवाच-
न वध्योऽसौ मम भ्राता देवार्थे युध्यता त्वया
शापितो देव मत्प्रीत्या वधार्हो न भविष्यति ॥ ४६ ॥

इति श्रीवचनं श्रुत्वा विष्णुस्त्रैलोक्यपालकः
अथारुरोह गरुडं पक्षक्षेपावृताम्बरम् ॥ ४७ ॥

वैकुण्ठभवनात्तूर्णं निर्गतस्त्रिदशान्हरिः
जालन्धरभयत्रस्तान्गतकान्तीनथैक्षत ॥ ४८ ॥

ददृशुस्ते सुराः सर्वे हरिं सान्द्रघनोपमम्
शार्ङ्गशङ्खगदापद्मविभूषितचतुर्भुजम् ॥ ४९ ॥

स्तोत्रं पठित्वा पुरतः प्राहेन्द्रः सरिताम्पतेः
जालन्धरेणात्मजेन भग्नं देव त्रिविष्टपम् 6.5.॥ ५० ॥

तदिन्द्रवचनं श्रुत्वाऽभयं दत्वा दिवौकसाम्
विजेतुमसुरं देवैः सह रेजे सुरान्तकृत् ॥ ५१ ॥

अथानीतं मातलिना रथमारुह्य वासवः
वासुदेवस्य पुरतः प्रययौ विधृताशनिः ॥ ५२ ॥

वामतस्त्रिदशाः सर्वे सव्यतश्च समाययौ
स्वाहाप्रियो दक्षिणतः स च मेषं समास्थितः ॥ ५३ ॥

आरुह्यैरावतं नागं जयन्तः शक्रनन्दनः
उच्चैःश्रवसमिन्द्रश्च उभौ भगवतः पुरः ॥ ५४ ॥

धातार्यमा च मित्रश्च वरुणोंशो भगस्तथा
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ॥ ५५ ॥

ततस्त्वष्टा ततो विष्णू रेजे धन्यो जघन्यजः
इत्येते द्वादशादित्या इन्द्रस्य पुरतः स्थिताः ॥ ५६ ॥

वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ ५७ ॥

भुवनाधीश्वरश्चैव कपाली च विशाम्पते
स्थाणुर्भगश्च भगवान्रुद्रा एकादश स्मृताः ॥ ५८ ॥

श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा
प्राणापानौ सजीवौ च मरुतोऽष्टौ तदग्रतः ॥ ५९ ॥

विवस्वानपि तन्मध्ये ययौ द्वादशमूर्तिभिः
धनदः शिबिकारूढः किन्नरेशो ययौ तदा ॥ ६० ॥

रुद्राश्च वृषभारूढा मारुतो मृगवाहनः
ययुः सैन्यस्य पुरतः त्रिशूलपरिघायुधाः ॥ ६१ ॥

गन्धर्वाश्चारणा यक्षाः पिशाचोरग गुह्यकाः
सर्वसैन्यस्य पुरतः सर्वशस्त्रभृतो ययुः ॥ ६२ ॥

पूर्वापरौ तोयराशी समाक्रान्तौ च सैनिकैः
तस्मिन्ससार भूमिराट्वराहवपुषा हरिः ॥ ६३ ॥

स्वर्गादागत्य वेगेन दैत्यसैन्यजिघांसया
सुमेरोरुत्तरो भागः सुरसैन्येन संवृतः ॥ ६४ ॥

सेनाभारोद्भुतकरस्तस्थौ जालन्धरस्य च
आश्रित्य दक्षिणं भागं तूर्णं कनकशृङ्गतः ॥ ६५ ॥

अहोरात्रेण विहिता वर्षे तस्मिन्निलावृते
मेरुमन्दरयोर्मध्ये युद्धभूमिः प्रतिष्ठिता ॥ ६६ ॥

तत्रात्मजयदां भूमिं कविप्रोक्तां मुदायुताः
जग्मुस्ते दानवास्तूर्णं गुरुप्रोक्तां ययुः सुराः ॥ ६७ ॥

रथप्रवीरैः परितश्च सम्प्लवैर्गजैर्घनाकारमदप्रवाहिभिः
अश्वैरनन्तैर्गरुडाग्रगामिभिः पदातिभिः सारणभूर्भृता बभौ ॥ ६८ ॥

ततो वादित्रनिर्घोषः सेनयोरुभयोरभूत्
कोलाहलश्च वीराणामन्योन्यमभिगर्जताम् ॥ ६९ ॥

अथ दानवदेवानां सङ्ग्रामोऽभूद्भयावहः
सर्वसैन्यस्य सम्मर्दो यथा त्रिभुवनक्षयः ॥ ७० ॥

भयक्रान्ता महाश्रान्ता श्रुतिर्विलपती मुहुः
स्वरथाकाररहितं शरैः सम्पूरितं तदा ॥ ७१ ॥

रोमाञ्चिता बभौ द्यौश्च रजोवस्त्रं विधुन्वती
रौद्रैर्विहङ्गमारावैस्त्रासादाक्रन्दतीव हि ॥ ७२ ॥

देवेन्द्रेण तदाज्ञप्ता मेघाः संवर्तकादयः
गजानुच्चैः समारुह्य तेऽसुरान्युयुधुर्मृधे ॥ ७३ ॥

देवानामश्वारोहाश्च जाता गन्धर्वकिन्नराः
रथिनः साध्यसिद्धाश्च गजिनो यक्षचारणाः ॥ ७४ ॥

पदातिनः किम्पुरुषाः पन्नगाः पवनाशनाः
रोगाणामधिपो राजन्यक्ष्मा च यमनायकः ॥ ७५ ॥

तत्र दानवरोगाणां सङ्ग्रामोऽभूत्सुदारुणः
पतिता लुलुठुर्भूमौ दैत्याः शूलज्वरामयैः ॥ ७६ ॥

दानवैर्निहता रोगाः पेतुः समरमूर्द्धनि
पलायाञ्चक्रिरे केचित्व्याधयो भूधरान्प्रति ॥ ७७ ॥

औषध्यस्तत्र सहजा वैशल्यकरणीमुखाः
ताभिर्विशल्याः सैन्येषु युयुधुर्यमकिङ्कराः ॥ ७८ ॥

दानवैर्निहताः सर्वे शरमुद्गरपट्टिशैः
पदातयः पत्तिगणैः खङ्गैस्तीक्ष्णैः परश्वधैः ॥ ७९ ॥

कोटिशो जघ्नुरन्योन्यं रुधिरारुणविग्रहाः
अश्वचारा हयैस्तूर्णैश्चिक्षिपुर्गगने तदा ॥ ८० ॥

संश्लिष्य जघ्नुरन्योन्यं रुधिरारुणविग्रहाः
समूहो रथिनां भीमो रथौघैश्छाद्य मेदिनीम् ॥ ८१ ॥

विव्यधुर्निशितैर्बाणैर्धनुर्मुक्तैर्महारथान्
मदक्षीणकपोलाङ्गाः करैर्बद्धा करान्दृढम् ॥ ८२ ॥

गजान्प्रतिगजाः क्रुद्धाः पातयन्ति महीतले
कोपि दैत्यो रथं दोर्भ्यामुत्क्षिप्योत्थाय खं ययौ ॥ ८३ ॥

अश्वचारान्हयान्नागान्पातयामास भूतले
स्कन्धे गृहीत्वा तरसा ययौ जालन्धरं प्रति ॥ ८४ ॥

कक्षयोर्वै गजौ गृह्य तृतीयं जठरोपरि
चतुर्थं मस्तके गृह्य रणे धावति कश्चन ॥ ८५ ॥

उत्पाट्य कोशतः खङ्गं विधूय विमलाम्बरम्
ययौ सहस्रशो देवान्पातयित्वा रणेऽसुरः ॥ ८६ ॥

काचित्पीनस्तनी तन्वी खेचरीरति लम्पटा
आगत्य गगनात्तूर्णं निन्ये दैत्यं रणाङ्गणात् ॥ ८७ ॥

चुचुम्ब सा तद्वदनं तीक्ष्णनाराचकीलितम्
देवसैन्यं ततो बद्ध्वा कालनेमिर्ननर्त्त ह ॥ ८८ ॥

ततो जनार्दनः क्रुद्धो निर्ययौ कालनेमिनम्
यमो दुर्वारणं वीरं स्वर्भानुश्चन्द्रभास्करौ ॥ ८९ ॥

केतुं वैश्वानरो देवो ययौ शुक्रं बृहस्पतिः
आश्विनौ संयतौ तत्र दैत्यमङ्गारपर्णकम् ॥ ९० ॥

संह्रादं शक्रपुत्रश्च निर्ह्रादं धनदो ययौ
निशुम्भश्चावृतो रुद्रैः शुम्भो वसुभिराहवे ॥ ९१ ॥

मेघाकारं स्थितं जम्भं विश्वेदेवाः समाययौ
वायवो वज्ररोमाणमथ मृत्युर्मयं ययौ ॥ ९२ ॥

नमुचिं वासवो व्यग्रं शक्तिहस्तोऽभ्यधावत
अन्यैरपि सुरैर्दैत्याः स्वस्ववीर्यसमैर्वृताः ॥ ९३ ॥

इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे युधिष्ठिरनारदसंवादे देवदानवयुद्धन्नाम पञ्चमोध्यायः ५