नारद उवाच-
विश्वास-प्रस्तुतिः
क्रमेण वर्द्धमानोऽसौ बाल्यभावे स बालकः
निपत्य मारुतोत्सङ्गे सागरं प्रति धावति ॥ १ ॥
मूलम्

आनीय चक्रे स च पञ्जरस्थान्क्रीडापरः केसरिणां किशोरान्
सिंहादिनेभादिनि युद्धमेवं युधोपयोगीव तदीय वीर्यम् ॥ २ ॥

तस्मादाकाशमुत्पत्य खेचरान्पातयेद्भुवि
गर्जितैर्भीषयामास स्वर्गं हि सह सागरम् ॥ ३ ॥

समुद्रान्तर्गतं सर्वं सत्वजातं तु पार्थिव
ग्रस्तं सिन्धुसुतेनेति तद्भयाच्छन्नतां गतम् ॥ ४ ॥

दृष्ट्वा निःसत्वकं तोयं तद्भयाद्वडवानलः
निजदेशं परित्यज्य प्रविवेश हिमालयम् ॥ ५ ॥

स बालत्वं परित्यज्य क्रमेणार्णवनन्दनः
ततो नवं वयः प्राप्य विक्रमेणाक्रमद्दिवम् ॥ ६ ॥

एकदा पितरं प्राह समुद्रं सिन्धुनन्दनः
मन्निवासोचितं स्थानं देहि तातातिविस्तृतम् ॥ ७ ॥

सम्बुद्ध्य वचनं सूनोः स जगाद महार्णवः
पुत्र दास्याम्यहं राज्यं तव वा भुवि दुर्ल्लभम् ॥ ८ ॥

अनन्तरं दैत्यगुरुः समुद्रं भार्गवो गतः
तमागतं विलोक्याब्धिर्विधिना समपूजयत् ॥ ९ ॥

अथ नदिपतिदत्ते प्राप्तसौन्दर्यनिर्यन्मणिमहसि स तस्मिन्नासने सन्निविष्टः
रुचिररुचि सुमेरोः सुन्दरे शृङ्गभागे कमलजइव कान्तिं किञ्चिदुच्चैर्जहार ॥ १० ॥

कृताञ्जलिपुटो भूत्वा व्याजहारार्णवः कविम्
दिष्ट्या तवात्रागमनं वद किं करवाण्यहम् ॥ ११ ॥

तदा दैत्यकुलाचार्यः प्राह तं सागरं कविः
किं तेन जातु जातेन मातुर्यौवनहारिणा ॥ १२ ॥

प्ररोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा
तवात्मजो विक्रमेण त्रैलोक्यं भोक्ष्यति ध्रुवम् ॥ १३ ॥

जम्बूद्वीपे महापीठं योगिनीगणसेवितम्
आप्लावितं त्वयेदानीं मुञ्च जालन्धरालयम् ॥ १४ ॥

तत्र राज्यं प्रयच्छास्मै तनयाय महार्णव
अजेयश्चाप्यवध्यश्च तत्रस्थोऽयं भविष्यति ॥ १५ ॥

एवमुक्तोऽर्णवः प्रीत्या भार्गवेणाथ लीलया
अपासर्पत्सुतप्रीत्यै जले स्थलमदर्शयत् ॥ १६ ॥

शतयोजनविस्तीर्णमायतं च शतत्रयम्
देशं जालन्धरं पुण्यं तस्य नाम्नैव विश्रुतम् ॥ १७ ॥

दैत्यवर्यं समाहूय मयं प्रोवाच सागरः
पुरं जालन्धरे पीठे कुरु जालन्धराय वै ॥ १८ ॥

अम्भोधिनैवमुक्तस्तु चक्रे रत्नमयं पुरम्
प्राकारगोपुरद्वारं सोपानगृहभूमिकम् ॥ १९ ॥

यत्रेन्द्रनीलसम्बद्धप्रासादतल संस्थिताः
मेनिरे जलदोद्योगं ताण्डवस्थाः शिखण्डिनः ॥ २० ॥

यत्र प्रवालमाणिक्य भवनोत्था मरीचयः
सेव्यन्ते शकुनैश्चूतरुचिराङ्कुरशङ्कया ॥ २१ ॥

यत्र काञ्चनहर्म्येषु त्विषो वह्निषु कातराः
विलोक्य प्रपलायन्ते दावशङ्काः शिखण्डिनः ॥ २२ ॥

यत्र स्फटिकशालोत्थ प्रभासं मिश्रिता दिशः
विभान्ति मन्दरोद्भ्रान्ताः सफेनार्णवसन्निभाः ॥ २३ ॥

यत्र मोहं स्वहर्म्येषु विभातालोकसंस्थिताः
चक्रिरे ललनाः पूर्णसान्ध्यचन्द्रोपमाननाः ॥ २४ ॥

यत्रेन्द्र नीप कादम्ब पवनोद्यानमोदिताः
चित्तं विशन्त्यो नारीणां चक्रिरे मोहनज्वरम् ॥ २५ ॥

यत्र लेख्यगतं नॄणां विलोक्य सुरतं जनः
संयाति द्विगुणं नूनं निजकान्तारतोद्यमः ॥ २६ ॥

यत्र वातायनोद्धूत धूपधूमस्य लेखयः
नभो बभूव तद्गङ्गाकालिन्दीसङ्गमोपमम् ॥ २७ ॥

यत्रानेकगृहोद्भूत प्रभया सकलं नभः
विभातीन्द्रायुधाकीर्णं शरन्मेघ इवोन्नतः ॥ २८ ॥

यत्रानिशं भ्रमभ्रान्ताः सूर्यवाहाः प्रपीडिताः
विश्रामं यान्ति मध्याह्ने प्रासादशिरसि स्थिताः ॥ २९ ॥

यत्रकुत्रच हर्म्येषु बिभ्रत्यो मालतीस्रजः
रात्रौ सम्भूतनक्षत्रा इव रेजुर्वराङ्गनाः ॥ ३० ॥

यत्र हाटकहिन्दोल शृङ्खलाघर्षणोद्भवः
चकार सुन्दरीं शब्दः स्फुटं मेरुभुवोभुवम् ॥ ३१ ॥

साकं सरिद्भिः पुत्रस्योशनसा सह सागरः
तत्राभिषेकमकरोद्वादित्रैर्निज गर्जितैः ॥ ३२ ॥

याः स्कन्दस्य जगाद तारकजये देवः स्वयम्भूः स्वयं स्वः साम्राज्यमहोत्सवेऽपि च शचीकान्तस्य वाचस्पतिः
ताभिश्चित्रविंरिञ्चि वक्त्रसरसी हंसीभिराशास्महे वाणीभिर्वसुधाविवाहसमये मन्त्रोत्सवैर्मङ्गलम् ॥ ३३ ॥

महापद्मसहस्रं तु सैन्यमात्मोदरोद्भवम्
जालन्धराय पुत्राय ददौ भीमं महोदधिः ॥ ३४ ॥

जालन्धराय शुक्रोऽपि प्रीत्या विद्यां निजां ददौ
मृतसञ्जीवनीं नाम्ना मायां रुद्रविमोहिनीम् ॥ ३५ ॥

शस्त्रास्त्रविद्या अन्याश्च विधिना अब्धिसूनवे
यदन्यत्सकलं तस्मै व्याख्यातं कविना तदा ॥ ३६ ॥

ततो जालन्धरं पुत्रमभिषिच्यार्णवो ययौ
स्वस्थानं दिव्यदेहेन नदीभिः परिवारितः ॥ ३७ ॥

दृष्ट्वा जालन्धरो दिव्यपुरं गोपुरमण्डितम्
व्यचरत्सह शुक्रेण द्विजसङ्घैः सुपूजितः ॥ ३८ ॥

एतस्मिन्नन्तरे दैत्याः पातालस्था महाबलाः
प्राप्ता जालन्धरं सर्वे कालनेमिपुरोगमाः ॥ ३९ ॥

ततो महाबला वीरा बलं क्षीरोदसन्निभम्
तस्य शुम्भासुरं दैत्यं सेनापतिमकल्पयन् ॥ ४० ॥

बलं स्ववशगं कृत्वा कृत्वा भुवि स्थिरं जलम्
जालन्धरस्तदा राज्यं पितृदत्तं चकार सः ॥ ४१ ॥

अत्रान्तरेऽप्सराः काचित्स्वर्णेत्यासीत्पुरा दिवि
तस्याः क्रौञ्चप्रसादेन वृन्दानाम सुताभवत् ॥ ४२ ॥

धात्रा विभवसंयुक्तं सौन्दर्यं यत्कृतं पृथक्
तत्तदेकगतं द्रष्टुं वृन्दागात्रं विनिर्मितम् ॥ ४३ ॥

तां वृन्दामतिचार्वङ्गीं प्रमदां जनमोहिनीम्
स्वर्णा जालन्धरस्यार्थे ददौ शुक्राय याचते ॥ ४४ ॥

शुक्र उवाच-
कन्दर्पस्य जगन्नेत्र शस्त्रेणाश्चर्यकारिणा
रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भव ॥ ४५ ॥

निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण यं
स्वव्यापारपरिश्रमस्य कलशं वेधाः समारोपयत्
कन्दर्पं पुरुषं स्त्रियो विदधते यस्मिन्न दृष्टे सति द्रष्टव्यावधि
रूपमाप्नुहि पतिं तं दीर्घनेत्रं भटम् ॥ ४६ ॥

उपयेमे विवाहेन गान्धर्वेणार्णवात्मजः
वृन्दां तौ दम्पती जातौ जनानन्दकरौ नृप ॥ ४७ ॥

चञ्चलत्वं परित्यक्तं तया जालन्धरोऽपि हि
वृत्तेन वृद्धकार्येण चकमे न परस्त्रियम् ॥ ४८ ॥

कदाचित्स सभासीनो दृष्ट्वा राहुं शिरोहृतम्
कस्मात्कायार्द्धशेषोऽयं इति पप्रच्छ भार्गवम् ॥ ४९ ॥

स तस्य कथयामास पूर्ववृत्तान्तमादितः
यथा निर्मथितो देवैः क्षीरोदोऽमृतकारणात् 6.4.॥ ५० ॥

तच्छ्रुत्वा विस्मितो वाक्यं प्राह जालन्धरोऽसुरः
प्रसादसुमुखो राहुं कामरूपो भवाधुना ॥ ५१ ॥

इति शुक्रस्य मन्त्रेण सिन्धुसूनुः प्रतापवान्
पितृव्यं संस्मरन्वीर विग्रहं त्वकरोत्सुरैः ॥ ५२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे नारद युधिष्ठिरसंवादे जालन्धरोपाख्याने वृन्दाविवाहो जालन्धराभिषेकोनाम चतुर्थोऽध्यायः ४