सूत उवाच-
विश्वास-प्रस्तुतिः
एकदा नारदो द्रष्टुं पाण्डवान्दुःखकर्शितान्
ययौ काम्यवनं विप्रः सत्कृतस्तैर्यथाविधि ॥ १ ॥
मूलम्

अथ नत्वा मुनिश्रेष्ठं युधिष्ठिर उवाच ह
भगवन्कर्मणा केन दुःखाब्धौ पतिता वयम् ॥ २ ॥

तमुवाच ऋषिर्दुःखं त्यज त्वं पाण्डुनन्दन
सुखदुःखसमाहारे संसारे कः सुखी नरः ॥ ३ ॥
मूलम्
तमुवाच ऋषिर्दुःखं त्यज त्वं पाण्डुनन्दन
सुखदुःखसमाहारे संसारे कः सुखी नरः ॥ ३ ॥
विश्वास-प्रस्तुतिः
ईश्वरोपि हि न स्थायी पीड्यते देहसञ्चयैः
न दुःखरहितः कश्चिद्देही दुःखसहो यतः ॥ ४ ॥

शरीरं सवितुर्यस्माद्राहुस्तद्ग्रसते बली
राहोरपि शिरश्छिन्नं शौरिणामृतभोजने ॥ ५ ॥

सोऽपि शार्ङ्गधरो देवः क्षिप्तः सागरगह्वरे
जालन्धरेण वीरेण निहतः सोऽपि शम्भुना ॥ ६ ॥

युधिष्ठिर उवाच-
कोऽसौ जालन्धरो वीरः कस्य पुत्रः कुतो बली
कथं जालन्धरं सङ्ख्ये हतवान्वृषभध्वजः ॥ ७ ॥

एतत्सर्वं समाचक्ष्व विस्तरेण तपोधन
राज्ञा स एव मुक्तस्तु कथयामास नारदः ॥ ८ ॥

नारद उवाच-
शृणु भूप कथां दिव्यामशेषाघौघनाशिनीम्
ईशानसिन्धुसून्वोश्च सङ्ग्रामं परमाद्भुतम् ॥ ९ ॥

एकदा गिरिशं स्तोतुं प्रययौ पाकशासनः
अप्सरोगणसङ्कीर्णो देवैर्बहुभिरावृतः ॥ १० ॥

गन्धर्वैरावृतो देवस्तन्त्रीशिक्षासु कोविदैः
रम्भा तिलोत्तमा रामा कर्पूराकदली तथा ॥ ११ ॥

मदना भारती कामा सर्वाभरणभूषिताः
नर्तक्यश्च तथा चान्याः समाजग्मुः सुरान्तिकम् ॥ १२ ॥

गन्धर्वयक्षसिद्धास्तु नारदस्तुम्बुरुस्तथा
किन्नरा मुहुराजग्मुस्तथा किन्नरयोषितः ॥ १३ ॥

वायुश्च वरुणश्चैव कुबेरो धनदस्तथा
यमश्चाग्निर्निर्ऋतिश्च ये चान्ये देवतागणाः ॥ १४ ॥

विमानसंस्थो मघवा विमानस्थाः सुराङ्गनाः
स्ववाहनगतादेवाः कैलासं प्रययुर्जवात् ॥ १५ ॥

ददृशुस्ते ततो देवाः कैलासं पर्वतोत्तमम्
महीधराणां सर्वेषां पृथिव्या इव मण्डनम् ॥ १६ ॥

सर्वतः सुखदं शुद्धं सिद्धिराशिमिवस्थितम्
यत्र वृक्षाः कल्पवृक्षाः पाषाणाश्चिन्तितप्रदाः ॥ १७ ॥

पुन्नागैर्नागचम्पैश्च तिलकैर्देवदारुभिः
अशोकैः पाटलैश्चूतैर्मन्दारैः शोभितो गिरिः ॥ १८ ॥

पर्यन्तकवनामोदवाहका यत्र वायवः
पङ्गुत्वं बहुचारेण यान्ति ते मलयानिलाः ॥ १९ ॥

वाप्यः स्फटिकसोपाना ह्यगाध विमलोदकाः
वैडूर्यनालसंसक्तसौवर्णनिभ पङ्कजाः ॥ २० ॥

कुमुदानां द्युतिर्यत्र राजते सर्वतोदिशम्
कह्लारैः शौभितावाप्यः पिनद्धाः पद्मरागवत् ॥ २१ ॥

हरिन्मणिनिबद्धाश्च गोमेदैः सर्वतो वृताः
पद्मरागशिलाबद्धा नानाधातुविचित्रिताः ॥ २२ ॥

ददृशुः सुन्दरतरं नाकाधिकविनिर्मितम्
कैलासं पर्वतश्रेष्ठं दृष्ट्वा ते विस्मयङ्गताः ॥ २३ ॥

विमानादवतीर्णाश्च मघवा देवताश्च ताः
द्वारपालमथागम्य नन्दिनं वाक्यमब्रुवन् ॥ २४ ॥

भो भो गणवरश्रेष्ठ शृणु मे वाक्यमुत्तमम्
समाज्ञापय शीघ्रं त्वं नृत्यार्थमिहमागतम् ॥ २५ ॥

ईश्वरं प्रतिदेवेशं सर्वदेवैः समावृतम्
इन्द्रस्य वचनं श्रुत्वा गिरिशं नन्दिरब्रवीत् ॥ २६ ॥

प्रभोऽयमागतः सर्वैर्देवराजः पुरन्दरः
नृत्यार्थमथ तं प्राहानय शीघ्रं शचीपतिम् ॥ २७ ॥

प्रवेशयामास तदा नन्दी तैः सह वासवम्
स दृष्ट्वा गिरिशं देवं तुष्टाव वृषभध्वजम् ॥ २८ ॥

रम्भाद्यास्तास्तदा सर्वा नर्त्तक्यो हरसन्निधौ
मृदङ्गवीणावादित्रैः मुदा नाट्यं प्रचक्रिरे ॥ २९ ॥

कांस्यवाद्यान्प्रगृह्यान्या वंशतालान्सकाहलान्
चक्रुस्ता नृत्यसंरम्भं स्वयन्देवः पुरन्दरः ॥ ३० ॥

अतीवनर्तनं चक्रे सुन्दरं देवदुर्ल्लभम्
ईश्वरस्तोषमापन्नो वासवं वाक्यमब्रवीत् ॥ ३१ ॥

प्रसन्नोऽहं सुरश्रेष्ठ जातस्ते व्रियतां वरः
इत्युक्तवति देवेशे स्वबाहुबलगर्वितः ॥ ३२ ॥

प्रत्युवाच हरं वाक्यं सङ्ग्रामः सवृतो मया
यत्र त्वत्सदृशो योद्धा तद्युद्धं देहि मे प्रभो ॥ ३३ ॥

इत्युक्त्वा निर्गतो जिष्णुर्लब्ध्वा शम्भोर्वरं प्रभोः
तस्मिन्गते तदा शक्रे गिरिशो वाक्यमब्रवीत् ॥ ३४ ॥

गणा मे श्रूयतां वाक्यं देवराजोऽतिगर्वितः
इत्युक्त्वा क्रोधसंयुक्तो बभूव च ततो हरः ॥ ३५ ॥

आविरासीत्ततः क्रोधो मूर्त्तिमान्पुरतः स्थितः
घनान्धकारसदृशो मृडं क्रोधस्ततोऽब्रवीत् ॥ ३६ ॥

देहि मे त्वं हि सन्देशं किं करोमि तव प्रभो
उमापतिस्तदोवाच गच्छ त्वं वासवं जय ॥ ३७ ॥

स्वर्गसिन्धुं समासाद्य सागरस्य च वीर्यवान्
इत्युक्तोन्तर्दधे क्रोधो गणास्ते विस्मयं ययुः ॥ ३८ ॥

ईशानकल्पे जाते तु कामेनार्णवसङ्गमे
नाकसिन्धुस्तदा मत्ता स्वयौवनभरोष्मणा ॥ ३९ ॥

तां दृष्ट्वा सिन्धुराजश्च जलकल्लोलवानभूत्
तदा बभूव राजेन्द्र गङ्गासागरसङ्गमः ॥ ४० ॥

महानदी तदा प्राप्य रेमे चात्मबलेन च
अत्रान्तरे समुद्रस्य बभूव सुभटस्ततः ॥ ४१ ॥

सूनुस्तस्यां महानद्यां समुद्रादभवद्बली
महार्णवतनूजेन जातमात्रेण पार्थिव ॥ ४२ ॥
मूलम्
सूनुस्तस्यां महानद्यां समुद्रादभवद्बली
महार्णवतनूजेन जातमात्रेण पार्थिव ॥ ४२ ॥
विश्वास-प्रस्तुतिः
रुदतोत्कम्पिता पृथ्वी त्रिलोकी नादिताभवत्
समाधिबद्धमुद्रां च सन्तत्याज चतुर्मुखः ॥ ४३ ॥

अत्रान्तरे परित्रस्तां तां संवीक्ष्य जगत्त्रयीम्
धाता सुरेन्द्रवाक्येन प्रजगाम महार्णवम् ॥ ४४ ॥

आश्चर्यमिति सञ्चिन्त्य हंसारूढो जवाद्ययौ
ब्रह्माणमागतं वीक्ष्य सपर्यां विदधेऽर्णवः
तमुवाच ततो ब्रह्मा किं गर्जसि वृथाम्बुधे ॥ ४५ ॥

समुद्र उवाच-
नाहं गर्जामि देवेश मत्सुतो बलवान्प्रभो
शिशोर्वै कुरु रक्षां च दुर्ल्लभं तव दर्शनम् ॥ ४६ ॥

सन्दृश्यतां च तनयो भार्यां प्राहातिशोभनाम्
ययौ सा भर्तुरादेशात्सपुत्रा ब्रह्मणोन्तिके ॥ ४७ ॥

उत्सङ्गदेशे चतुराननस्य विधाय पुत्रं चरणौ ननाम
तदा समुद्रात्मजमद्भुतं तं दृष्ट्वा विधातुः किल विस्मयोऽभूत् ॥ ४८ ॥

गृहीतकूर्चस्य शिशोः करं च यदा विरिञ्चिर्न शशाक मोचितुम्
तदा समुद्रः प्रहसन्प्रयातः कूर्चं प्रगृह्यार्भकरं विमोचयन् ॥ ४९ ॥

तादृशं तस्य बालस्य दृष्ट्वा विक्रममात्मभूः
प्रीत्या जालन्धरेत्याह नाम्ना जालन्धरोऽभवत् 6.3.॥ ५० ॥

वरं ददावथो तस्य प्रणयेन प्रजापतिः
अयं जालन्धरो देवैरजेयश्च भविष्यति ॥ ५१ ॥

पातालसहितं नाकं मत्प्रसादेन भोक्ष्यति
इत्युक्त्वान्तर्दधे ब्रह्मा हंसमारुह्य सत्वरः ॥ ५२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायां युधिष्ठिरनारदसंवादे उत्तर
खण्डे जालन्धरोत्पत्ति ब्रह्मागमोनाम तृतीयोऽध्यायः ३